SRIMADHVYASA

Home » Acharya Madhwa » Dwadasha Stotra – Bhakti Gatha

Dwadasha Stotra – Bhakti Gatha

Dwadasha Stotra – Bhakti Gatha is published in Kannada and Sanskrit PDF Format

The cream and essense of all our offerings, will be void and nothing but null, if (“BHAKTHI” ) devotion is short or absent in them.

Then, What is devotion ? Who has experienced it ? Where do we find it?

WellwisherAcharyaMadhwa

WellwisherAcharyaMadhwa

Ecstatic! we are, if we see the abundance of such devotion in the Bhakti Ghathas of Acharya Madwha. If we surrender and tune ourselves in these Ghathas, undoubtedly, we will be out of world, tranced. Such is the sincere and unfathomable depth of devotion, in the ocean of Acharya Madhwa’s Heart & Wisdom.

Acharya, with great love and compassion, had presented a small sample, of spell bound joy he experienced every moment, through this nector/Hari Bhakthi Ghatha, popularly known as Dwadasha Stotra.

Only with his grace, I enjoyed a drop of this devine nectar. I will be pleased to share the same with you all. Here is your attachment:

Bhakthi-Ghaatha-21072012

Sanskrit Bhakthi-Ghaatha-28082013

Eng-Bhakthi-Ghaatha-21072012

Unicode Sanskrit version is given below:

-1-

विश्वस्थितिप्रळयसर्ग्गमहाविभूतिवृत्तिप्रकाशनियमावृतिबन्धमोक्षाः |

यस्या अपाङ्गलवमात्रत ऊर्जिता सा श्रीर्यत् कटाक्षबलवत्यजितं नमामि॥1॥

 बह्मेशशक्ररविधर्म्मशशाङ्कपूर्वगीर्वाणसन्ततिरियं यदपाङ्गलेशम् |
आश्रित्य विश्वविजयं विदधात्यचिन्त्याश्रीर्यत् कटाक्षबलवत्यजितं नमामि ॥2

 धर्म्मार्त्थकामसुमतिप्रचयाद्यशेषसन्मङ्गलं विदधते यदपाङ्गलेशम् |

आश्रित्य तत् प्रणतसत् प्रणता अपीड्याश्रीर्यत् कटाक्षबलवत्यजितं नमामि ॥3

 षड् वर्ग्गनिग्रहनिरस्तसमस्तदोषाद्ध्यायन्ति विष्णुमृषयो यदपाङ्गलेशम् |

आश्रित्य यानपि समेत्य न याति दुःखं श्रीर्यत् कटाक्षबलवत्यजितं नमामि ॥4

 शेषाहिवैरिशिवशक्रमनुप्रधानचित्रोरुकर्म्मरचनं यदपाङ्गलेशम् |

आश्रित्य विश्वमखिलं विदधाति धाताश्रीर्यत् कटाक्षबलवत्यजितं नमामि॥5

शक्रोग्रदीधितिहिमाकरसूर्य्यसूनुपूर्वं निहत्य निखिलं यदपाङ्गलेशम् |

आश्रित्य नृत्यति शिवः प्रकटोरुशक्तिः श्रीर्यत् कटाक्षबलवत्यजितं नमामि ॥6

 तत् पादपङ्कजमहासनतामवाप शर्वादिवन्द्यचरणो यदपाङ्गलेशम् |

आश्रित्य नागपतिरन्यसुरैर्द्दुरापां श्रीर्यत् कटाक्षबलवत्यजितं नमामि ॥ 7 ॥

 नागारिरुग्रबलपौरुष आप विष्णुवाहत्वमुत्तमजवो यदपाङ्गलेशम् |
आश्रित्य शक्रमुखदेवगणैरचिन्त्यं श्रीर्यत् कटाक्षबलवत्यजितं नमामि॥ 8 ॥

 आनन्दतीर्त्थमुनिसन्मुखपङ्कजोत्थं साक्षाद् रमाहरिमनःप्रियमुत्तमार्त्थम् |

भक्त्या पठत्यजितमात्मनि सन्निधाय यः स्तोत्रमेतदभियाति तयोरभीष्टम्॥9॥

 इति श्रीमदानन्दतीर्त्थ भगवत्पादाचार्यकृता श्रीस्तुतिः समाप्ता

 -2-

वन्दे वन्द्यं सदानन्दं वासुदेवं निरञ्जनम् ।

इंदिरापतिमाद्यादिवरदेशवरप्रदम् ॥ 01 ॥

नमामि निखिलाधीशकिरीटाघृष्ट पीठवत् ।

हृत्तमःशमनेऽर्क्काभं श्रीपतेः पादपङ्कजम् ॥ 02 ॥

जाम्बूनदाम्बराधारं नितम्बं चिन्त्यमीशितुः ।

स्वर्ण्णमञ्जीरसंवीतमारूढं जगदम्भया ॥ 03 ॥

उदरं चिन्त्यमीशस्य तनुत्वेऽप्यखिलम्भरम्।
वलित्रयाङ्कितं नित्यमुपगूढं श्रियैकया ॥ 04 ॥

 स्मरणीयमुरो विष्णोरिन्दिरावासमुत्तमैः ।
अनन्तमन्तवदिव भुजयोरन्तरं गतम् ॥ 05 ॥

 शङ्खचक्रगदापद्मधराश्चिन्त्या हरेर्भुजाः ।

पीनवृत्ता जगद्रक्षाकेवलोद्योगिनोऽनिशम् ॥ 06 ॥

सन्ततं चिन्तयेत् कण्ठं भास्वत् कौस्तुभभासकम् ।

वैकुण्ठस्याखिला वेदा उद्गीर्यन्तेऽनिशं यतः ॥ 07 ॥

स्मरेत यामिनीनाथसहस्रामितकान्तिमत् ।
भवतापापनोदीड्यं श्रीपतेर्मुखपङ्कजम् ॥ 08 ॥

पूर्ण्णानन्य सुखोद्भासि मन्दस्मितमधीशितुः ।

गोविन्दस्य सदा चिन्त्यं नित्यानन्दपदप्रदम् ॥ 09 ॥

 स्मरामि भवसन्ताप हानिदामृतसागरम् ।

पूर्ण्णानन्दस्य रामस्य सानुरागावलोकनम्  ॥ 10 ॥

द्ध्यायेदजस्रमीशस्य पद्मजादिप्रतीक्षितम् ।

भ्रूभङ्गं पारमेष्ठ्यादि पददायि विमुक्तिदम्  ॥ 11 ॥

सन्ततं चिन्तयेनं तमन्तकाले विशेषतः ।

नैवोदापुर्ग्गृणन्तोऽन्तं यद् गुणानामजादयः ॥ 12 ॥

 -3-

स्वजनोदधिसंवृद्धिपूर्ण्णचन्द्रो गुणार्ण्णवः

अमन्दानन्दसान्द्रो नः सदाऽव्यादिन्दिरापतिः ॥ 01 ॥

रमाचकोरीविधवे दुष्टसर्प्पोदवह्नये ।

सत् पान्थजनगेहाय नमो नारायणाय ते ॥ 02 ॥

चिदचिद् भेदमखिलं विधायाऽधाय भुञ्जते ।

अव्याकृतगृहस्थाय रमाप्रणयिने नमः ॥ 03 ॥

अमन्दगुणसारोऽपि मन्दहासेन वीक्षितः ।

नित्यमिन्दिरायाऽऽनन्दसान्द्रो यो नौमि तं हरिम् ॥ 04 ॥

वशी वशो न कस्यापि योऽजितो विजिताखिलः ।

सर्वकर्त्ता न क्रियते तं नमामि रमापतिम् ॥ 05 ॥

अगुणाय गुणोद्रेकस्वरूपायाऽदिकारिणे ।

विदारितारिसङ्घाय वासुदेवाय ते नमः ॥ 06 ॥

आदिदेवाय देवानां पतये सादितारये ।

अनाद्यज्ञानपाराय नमः पारावराश्रय ॥ 07 ॥

अजाय जनयित्रेऽस्य विजिताखिलदानव ।
अजादिपूज्यपादाय नमस्ते गरुडध्वज ॥ 08 ॥

रमारमण एवैको रणजिच्छरणं सताम् ।

कारणं कारणस्यापि तरुणादित्यसप्रभः ॥ 09 ॥

 इन्दिरामन्दसान्द्राग्र्यकटाक्षप्रेक्षितात्मने ।

अस्मदिष्टैककार्याय पूर्ण्णाय हरये नमः ॥ 10 ॥

 एवंविधः परो विष्णुरव्याच्छ्रीपुरुषोत्तमः ।

तमहं सर्वदा वन्दे श्रीनिकेतं परं हरिम् ॥ 11 ॥

 –4-

शङ्खचक्रगदापद्मशार्ङ्गखड्गधरं सदा ।

नमामि पितरं नित्य वासुदेवं जगत् पतिम् ॥ 01 ॥

सच्चिदानन्दरूपं तमनामयमनन्तरम् ।

एकमेकान्तमभयं विष्णुं विश्वहृदि स्थितम् ॥ 02 ॥

नानास्वभावमत्यन्तस्वभावेन विचारितम् ।

अविशेषमनाद्यन्तं प्रणमामि सनातनम् ॥ 03 ॥

कुन्देन्दुसन्निभं वन्दे सुधारसनिभं विभुम् ।

ज्ञानमुद्रापुस्तकारिशङ्खाक्षायुधधारिणम् ॥ 04 ॥

आनन्दमजरं नित्यमात्मेशममितद्युतिम् ।

वन्दे विश्वस्य पितरं विष्णुं विश्वेश्वरं सदा ॥ 05 ॥

अमन्दानन्दसन्दोहसन्तोषितजगत्रयम् ।

नारायणमणीयांसं वन्दे देवं सदातनम् ॥ 06 ॥

सूर्यमण्डलमद्ध्यस्थं वराभयकरोद्यतम् ।

सूर्यामितद्युतिं वन्दे नारायणमनामयम् ॥ 07 ॥

विश्वं विश्वाकरं वन्दे विश्वस्य प्रपितामहम् ।

नानारूपमजं नित्यं विश्वात्मानं प्रजापतिम् ॥ 08 ॥

कालाकालविचारादिप्रकालितसदातनम् ।

पुरुषं प्रकृतिस्थं च वन्दे विष्णुमजोत्तमम् ॥ 09 ॥

ब्रह्मणः पितरं वन्दे शङ्करस्य पितामहम् ।

श्रियः पतिमजं नित्यमिन्द्रादिप्रपितामहम् ॥ 10 ॥

प्रतिप्रति स्थितं विष्णुं नित्यामृतमनामयम् ।

शङ्कचक्रधरं वन्दे वराभयकरोद्यतम् ॥ 11 ॥

प्रतापप्रविशेषेण दूरीकृतविदूषणम् ।

विदारितारिमत्यन्तप्रसन्नं प्रणमाम्यहम् ॥ 12 ॥

अप्रमेयमजं नित्यं विशालममृतं परम् ।

कृतनित्यालयं लोके नमस्यामि जगत् पतिम् ॥ 13 ॥

सुनित्यसुखमक्षय्यं शुद्धं शान्तं निरञ्जनम् ।

लोकालोकविचाराढ्यं नमस्यामि श्रियःपतिम् ॥ 14 ॥

अमन्दानन्दसन्दोहसान्द्रमिन्द्रानुजं परम् ।
नित्यावदातमेकान्तं प्रमाणातीतमक्षयम् ।
लोकालोकपतिं दिव्यं नमस्यामि रमापतिम् ॥ 15 ॥

 -5-

कुरु भुङ्क्ष्व च कर्म निजं नियतं हरिपादविनम्रधिया सततं ।

हरिरेव परो हरिरेव गुरुर्हरिरेव जगत् पितृमातृगतिः ॥ 01 ॥

 न ततोऽस्त्यपरं जगदीड्यतमं परमात् परतः पुरुषोत्तमतः ।

तदलं बहुलोकविचिन्तनया प्रवणं कुरु मानसमीशपदे ॥ 02 ॥

 यततोऽपि हरेः पदसंस्मरणे सकलं ह्यघमाशु लयं व्रजति ।

स्मरतस्तु विमुक्तिपदं परमं स्फुटमेष्यति तत् किमपाक्रियते ॥03 ॥

 शृणुतामलसत्यवचः परमं शपथेरितमुच्छ्रितबाहुयुगम् ।

न हरेः परमो न हरेः सदृशः परमः स तु सर्वचिदात्मगणात्॥04॥

यदि नाम परो न भवेत हरिः कथमस्य वशे जगदेतदभूत् ।

यदि नाम न तस्य वशे सकलं कथमेव तु नित्यसुखं न भवेत्॥05 ॥

न च कर्म्मविमामलकालगुणप्रभृतीशमचित्तनु तद्धि यतः

चिदचित्तनु सर्वमसौ तु हरिर्यमयेदिति वैदिकमस्ति वचः 06

व्यवहारभिदापि गुरोर्ज्जगतां न तु चित्तगता स हि चोद्यपरम्

बहवः पुरुषाः पुरुषप्रवरो हरिरित्यवदत् स्वयमेव हरिः 07

चतुराननपूर्वविमुक्तगणा हरिमेत्य तु पूर्ववदेव सदा
नियतोच्चविनीचतयैव निजां स्थितिमापुरिति स्म परं वचनम्08

स्मरणे हि परेशितुरस्य विभोर्म्मलिनानि मनांसि कुतः करणम्

विमलं हि पदं परमं स्मरतं तरुणार्क्कसवर्ण्णमजस्य हरेः 09

विमलैः श्रुतिशाणनिशाततमैः सुमनोऽसिभिराशु निहत्य दृढम् ।

बलिनं निजवैरिणमात्मतमोभिदमीशमनन्तमुपेत हरिम् ॥10 ॥

स हि विश्वसृजो विभुशम्भुपुरन्दरपूर्वमुखानपरानपरान् ।

सृजतीड्यतमोऽवति हन्ति निजं पदमापयति प्रणतान् स्वधिया॥11 ॥

परमोऽपि रमेशितुरस्य समो न हि कश्चिदभून्न भविष्यति च ।

क्वचिदद्यतनोऽपि न पूर्ण्णसदाऽगणितेड्यगुणानुभवैकतनोः ॥ 12 ॥

 निजपूर्ण्णसुखामितबोधतनुः परशक्तिरनन्तगुणः परमः ।

अजरामरणः सकलार्त्तिहरः कमलापतिरीड्यतमोऽवतु नः ॥ 13 ॥

 यदसुप्तिगतो वरिनः सुखवान् सुखरूपिणमाहुरतो निगमाः ।

स्वमतिप्रभवं जगदस्य यतः परबोधतनुं च ततः खपतिम् ॥ 14 ॥

बहुचित्रजगद् बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।

सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत् सततम्॥ 15 ॥

 -6-

 ॐ पान्त्वस्मान् पुरुहूतवैरिबलवन्मातङ्गमाद्यद् घटा-

कुम्भोच्चाद्रिविपाटनाधिकपटुप्रत्येकवज्रायिताः

श्रीमत् कण्ठीरवास्यप्रततसुनखरा दारितारातिदूर-

प्रध्वस्तध्वान्तशान्तप्रविततमनसा भाविता भूरिभागैः *

 [लक्ष्मीकान्त समन्ततोऽपि कलयन् नैवेशितुस्ते समं

पश्याम्युत्तमवस्तु दूरतरतोऽपास्तं रसो योऽष्टमः।

यद्रोषोत्करदक्षनेत्रकुटिलप्रान्तोत्थिताग्निस्फुरत्-

खद्योतोपमविष्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः * ]

 -7-

 वन्दिताशेषवन्द्योरुवृन्दारकं चन्दनाचर्चितोदारपीनांसकम् ।

इन्दिराचञ्चलापाङ्गनीराजितं मन्दरोद्धारिवृत्तोद्भुजाभोगिनम् ॥

प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डानम् प्रीणयामो वासुदेवम् ॥1 ॥

 सृष्टिसंहारलीलाविलासाततं पुष्टषाड्गुण्यसद्विग्रहोल्लासिनम् ।

दुष्टनिःशेषसंहारकर्म्मोद्यतं हृष्टपुष्टातिशिष्टप्रजासंश्रयम् ॥

प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डानम् प्रीणयामो वासुदेवम्  ॥2॥

उन्नतप्रार्थ्थिताशेषसंसाधकं सन्नतालौकिकानन्ददश्रीपदम् ।

भिन्नकर्म्माशयाप्राणिसम्प्रेरकम् तन्न किं नेति विद्वत्सु मीमांसितम् ।

प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डानम् प्रीणयामो वासुदेवम् ॥3॥

विप्रमुख्यैः सदा वेदवादोन्मुखैः सुप्रतापैः क्षितीशेश्वरैश्चार्च्चितम् ।

अप्रतर्क्क्योरुसंविद् गुणं निर्म्मलं सत्प्रकाशाजरानन्दरूपं परम् ॥

प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डानम् प्रीणयामो वासुदेवम् ॥4॥

 अत्ययो यस्य केनापि न क्वापि हि प्रत्ययो यद् गुणेषूत्तमानां परः ।

सत्यसङ्कल्प एको वरेण्यो वशी मत्यनूनैः सदा वेदवादोदितः ॥

प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डानम् प्रीणयामो वासुदेवम् ॥5॥

पश्यतां दुःखसन्ताननिर्मूलनं दृष्यतां दृश्यतामित्यजेशार्च्चिम् । नश्यतां दूरगं सर्वदाऽप्यात्मकं वश्यतां स्वेच्छया सज्जनेष्वागतम् ॥

प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डानम्  प्रीणयामो वासुदेवम् ॥6॥

अग्रजं यः ससर्ज्जाजमग्र्याकृतिं विग्रहो यस्य सर्वे गुणा एव हि ।

उग्र अद्योऽपि यस्याऽत्मजाग्र्यात्मजः सद्गृहीतः सदा यः परं दैवतम् ।

प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डानम्  प्रीणयामो वासुदेवम् ॥7॥

अच्युतो यो गुणैर्न्नित्यमेवाखिलैः प्रच्युतोऽशेषदोषैः सदा पूर्त्तितः ।

उच्यते सर्ववेदोरुवादैरजः स्वर्च्यते ब्रह्मरुद्रेन्द्र पूर्वैः सदा ॥

प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डानम्  प्रीणयामो वासुदेवम् ॥8॥

धार्यते येन विश्वं सदाऽजादिकं वार्यतेऽशेषदुःखं निजाद्ध्यायिनाम् ।

पार्यते सर्वमन्यैर्न्न यत् पार्यते कार्यते चाखिलं सर्वभूतैः सदा।

प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डानम्  प्रीणयामो वासुदेवम् ॥9॥

सर्वपापानि यत् संस्मृतेः सङ्क्षयं सर्वदा यान्ति भक्त्या विशुद्धात्मनाम्।

शर्वगुर्वादिनिर्बाणसंस्थानदः कुर्वते कर्म्म यत् प्रीतये सज्जनाः ॥

प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डानम्  प्रीणयामो वासुदेवम् ॥10

अक्षयं कर्म्म यस्मिन् परे स्वर्प्पितं प्रक्षयं यान्ति दुःखानि यन्नामतः ।
अक्षरो योऽजरः  सर्वदैवामृतः कुक्षिगं यस्य विश्वं सदाऽजादिकम् ॥
प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डानम्  प्रीणयामो वासुदेवम्॥11॥

नन्दितीर्थ्थोरुसन्नामिनो नन्दिना सन्दधानाः सदानन्ददेवे मतिम् ।

मन्दहासारुणापाङ्गदत्तोन्नतिं नन्दिताशेषदेवादिवृन्दं सदा ॥

प्रीणयामो वासुदेवं देवतामण्डलाखण्डमण्डनम्  प्रीणयामो वासुदेवम् ॥12॥

 -8-

 देवकिनन्दन नन्दकुमारा वृन्दवनाञ्जन गोकुलचन्द्र 01

 कन्दफलाशन सुन्दररूपा नन्दितगोकुल वन्दितपाद 02

 इन्द्रसुतावक नन्दकहस्ता चन्दनचर्च्चित सुन्दरिनाथ 03

 इन्दिवरोदरदळनयनाऽऽमन्दरधारा गोविन्द वन्दे 04

 मत्स्यकरूप लयोदविहारिन् वेदविनेत्र चतुर्मुखवन्द्य 05

 कूर्मस्वरूपक मन्दरधारिन् लोकविधारक देववरेण्य ॥ 06 ॥

 सूकररूपक दानवशत्रो भूमिविधारक यङ्ञवराङ्ग 07

 देव नृसिंह हिरण्यकशत्रो सर्वभयान्तक दैवतबन्धो 08

 वामनवामन माणववेषा दैत्यकुलान्तक कारणभूत 09

 राम भृगूद्वह सूर्ज्जितदीप्ते क्षत्रकुलान्तक शम्भुवरेण्य ॥ 10 ॥

 राघवराघव राक्षसशत्रो मारुतिवल्लभ जानकिकान्त 11

 देवकिनन्दन सुन्दररूपा रुग्मिणिवल्लभ पाण्डवबन्धो 12

 दैत्यविमोहक नित्यसुखादे देवसुबोधक बुद्धस्वरूप 13

 दुष्टकुलान्तक कल्किस्वरूपा धर्म्मविवर्द्धन मूलयुगादे 14

 आनन्दतीर्त्थकृता हरिगाथा पापहरा शुभनित्यसुखार्त्था 15

-9-

 अतिमत तमॊगिरि समितिविभेदन पितमहविभूतिद गुणगणनिलय

शुभतमकथशय परम सदोदित जगदॆककारण रम रमरमणा01

 विधिभवमुखसुरसततसुवन्दितरममनॊवल्लभ भव मम शरणम्

शुभतमकथशय परम सदोदित जगदॆककारण रम रमरमणा02

अपरिमितगुणगणमयशरीर हॆ विगतगुणेतर भव मम शरणम्

शुभतमकथशय परम सदोदित जगदॆककारण रम रमरमणा03

अगणितसुखनिधिविमलसुदेह हॆ विगतसुखेतर भव मम शरणम्
शुभतमकथशय परम सदोदित जगदॆककारण रम रमरमणा04

 प्रचलितलयजलविहरण शाश्वत सुखमय मीन हॆ भव मम शरणम्

शुभतमकथशय परम सदोदित जगदॆककारण रम रमरमणा05

 सुरदितिजसुबलविलुळितमन्दरधर परकूर्म्म हॆ भव मम शरणम्

शुभतमकथशय परम सदोदित जगदॆककारण रम रमरमणा 06

सगिरिवरधरतळवह सुसूकर परमविबोध हॆ भव मम शरणम्

शुभतमकथशय परम सदोदित जगदॆककारण रम रमरमणा07

अतिबलदितिसुतहृदयविभेदन जय नृहरेमल भव मम शरणम्

शुभतमकथशय परम सदोदित जगदॆककारण रम रमरमणा08

बलिमुखदितिसुतविजयविनाशन जगदवनाजित भव मम शरणम्

शुभतमकथशय परम सदोदित जगदॆककारण रम रमरमणा09

अविजितकुनृपतिसमितिविखण्डन रमवर वीरप भव मम शरणम्

शुभतमकथशय परम सदोदित जगदॆककारण रम रमरमणा10

खरतरनिशिचरदहन परामृत रघुवर मानद भव मम शरणम्

शुभतमकथशय परम सदोदित जगदॆककारण रम रमरमणा11

सुलळिततनुवर वरद महाबल यदुवर पार्त्थप भव मम शरणम्

शुभतमकथशय परम सदोदित जगदॆककारण रम रमरमणा12

दितिसुतविमॊहन विमलविबोधन परगुणबुद्ध हॆ भव मम शरणम्

शुभतमकथशय परम सदोदित जगदॆककारण रम रमरमणा13

कलिमलहुतवह सुभग महोत्सव शरणद कल्किश भव मम शरणम्

शुभतमकथशय परम सदोदित जगदॆककारण रम रमरमणा14

इति तव नुतिवरसततरतेर्भव शरणमुरुसुखतीर्र्थमुनेर्भगवन्

शुभतमकथशय परम सदोदित जगदॆककारण रम रमरमणा15

 -10-

 केशवकेशव शासक वन्दे पाशधरार्च्चित शूर परेश ।

नारायणामरतारण वन्दे कारणकारण पूर्ण्ण वरेण्य ॥ 01 ॥

 माधवमाधव शोधक वन्दे बाधक बोधक शुद्धसमाधे ।

गोविन्दगोविन्द पुरन्दर वन्दे स्कन्दसनन्दनवन्दितपाद ॥ 02 ॥

 विष्णु सृजिष्णु ग्रसिष्णु वि वन्दे कृष्ण सदुष्णवधिष्ण स्वधृष्णो ।

मधुसूदन दानवसादन वन्दे दैवतमोदन वेदितपाद ॥ 03 ॥

त्रिविक्रम निष्क्रम विक्रम वन्दे सुक्रम सङ्क्रमहुङ्कृतवक्त्र
वामनवामन भामन वन्दे सामन सीमन शामन सानो 04

श्रीधरश्रीधर शन्धर वन्दे भूर्द्धर वार्द्धर कन्धरधारिन्

हृषीकेश सुकेश परेश वि वन्दे शरणेश कलेश बलेश सुखेश 05

पद्मनाभ शुभोद्भव वन्दे सम्भृतलोकभराभर भूरे ।

दामोदर दूरतरान्तर वन्दे दारितपारक पार परस्मात् ॥ 06 ॥

आनन्दसुतीर्त्थमुनीन्द्र कृता हरिगीतिरियं परमादरतः ।

परलोकविलोकनसूर्यनिभा हरिभक्तिविवर्द्धनशौण्डतमा ॥ 07 ॥

 -11-

अवन श्रीपतिरप्रतिरधिकेशादिभवादे

करुणापूर्ण्ण वरप्रद चरितं ङ्ञापय मे ते 01

सुरवन्द्याधिप सद्वर भरिताशेषगुणालम्

करुणापूर्ण्ण वरप्रद चरितं ङ्ञापय मे ते 02

सकलध्वान्तविनाशन परमानन्दसुधाहो

करुणापूर्ण्ण वरप्रद चरितं ङ्ञापय मे ते 03

त्रिजगत् पोत सदार्च्चितचरणाशापतिधातो
करुणापूर्ण्ण वरप्रद चरितं ङ्ञापय मे ते 04

त्रिगुणातीत विधारक परितो देहि सुभक्तिम्

करुणापूर्ण्ण वरप्रद चरितं ङ्ञापय मे ते 05

मरणप्राणद पालक जगदीशाव सुभक्तिम्

करुणापूर्ण्ण वरप्रद चरितं ङ्ञापय मे ते 06

शरणं कारण भावन भव मे तात सदालम्

करुणापूर्ण्ण वरप्रद चरितं ङ्ञापय मे ते 07

तरुणादित्यसवर्ण्णक चरणाब्जामलकीर्त्ते
करुणापूर्ण्ण वरप्रद चरितं ङ्ञापय मे ते 08

सलिलप्रोत्थसरागकमणिवर्ण्णोच्चनखादे

करुणापूर्ण्ण वरप्रद चरितं ङ्ञापय मे ते 09

कजतूणीनिभपावनवरजङ्घामितशक्ते

करुणापूर्ण्ण वरप्रद चरितं ङ्ञापय मे ते 10

असनोत्फुल्लसुपुष्पकसमवर्ण्णावरणांन्ते

करुणापूर्ण्ण वरप्रद चरितं ङ्ञापय मे ते 11

शतमोदोद्भवसुन्दरवरपद्मोत्थितनाभे

करुणापूर्ण्ण वरप्रद चरितं ङ्ञापय मे ते 12

इभहस्तप्रभशोभनपरमोरुस्थरमाळे

करुणापूर्ण्ण वरप्रद चरितं ङ्ञापय मे ते 13

जगदागूहकपल्लवसमकुक्षे शरणादे

करुणापूर्ण्ण वरप्रद चरितं ङ्ञापय मे ते 14

जगदम्बामलसुन्दरिगृहवक्षोवरयोगिन्

करुणापूर्ण्ण वरप्रद चरितं ङ्ञापय मे ते 15

दितिजान्तप्रदचक्रधरगदायुग्वरबाहो

करुणापूर्ण्ण वरप्रद चरितं ङ्ञापय मे ते 16
परमज्ञानमहानिधिवदनश्रीरमणेन्दो

करुणापूर्ण्ण वरप्रद चरितं ङ्ञापय मे ते 17

निखिलाघौघविनाशकपरसौख्यप्रददृष्टे

करुणापूर्ण्ण वरप्रद चरितं ङ्ञापय मे ते 18

परमानन्दसुतीर्त्थसुमुनिराजो हरिगाथाम्

कृतवान् नित्यसुपूर्ण्णकपरमानन्दपदैषिन् 19

 -12-

उदीर्ण्णमजरं दिव्यममृतस्यन्द्यधीशितुः

आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् 01

सर्ववेदपदोद्गीतमिन्दिराधारमुत्तमम्

आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् 02

सर्वदेवादिदेवस्य विदारितमहत्तमः

आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् 03

उदारमादरान्नित्यमनिन्द्यं सुन्दरीपतेः

आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् 04

इन्दीवरोदरनिभं सुपूर्ण्णं वादिमोहनम्

आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् 05

दातृ सर्वामरैश्वर्यविमुक्त्यादेरहो वरम्

आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् 06

दूराद् दूरतरं यत्तु तदेवान्तिकमन्तिकात्

आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् 07

पूर्ण्णसर्वगुणैकार्ण्णमनाद्यन्तं सुरेशितुः
आनन्दस्य पदं वन्दे ब्रह्मेन्द्राद्यभिवन्दितम् 08

आनन्दतीर्थमुनिना हरेरानन्दरूपिणः

कृतं स्तोत्रमिदं पुण्यं पठन्नानन्दमाप्नुयात् 09

 -13-

आनन्द मुकुन्द अरविन्दनयन आनन्दतीर्त्थपरानन्दवरद 01

सुन्दरिमन्दिर गोविन्द वन्दे आनन्दतीर्त्थपरानन्दवरद 02

चन्द्रकमन्दिरनन्दक वन्दे आनन्दतीर्त्थपरानन्दवरद 03

चन्द्रसुरेन्द्र सुवन्दित वन्दे आनन्दतीर्त्थपरानन्दवरद 04

वृन्दारवृन्दसुवन्दित वन्दे आनन्दतीर्त्थपरानन्दवरद 05

इन्दिरस्यन्दनस्यन्दक वन्दे आनन्दतीर्त्थपरानन्दवरद 06

इन्दिरानन्दक सुन्दर वन्दे आनन्दतीर्त्थपरानन्दवरद 07

मन्दारस्यन्दितमन्दिर वन्दे आनन्दतीर्त्थपरानन्दवरद 08

आनन्दचन्द्रिकास्यन्दक वन्दे आनन्दतीर्त्थपरानन्दवरद 09

-14-

रामोऽखिलानन्दतनुः स एव भीमोऽतिपापेषु दुरन्तवीर्यः ।

कामः स एवाजितकामिनीषु सोमः स एवाऽत्मपदाश्रितेषु 01

 -15-

अम्बरगङ्गाचुम्बितपादः पदतलविदलितगुरुतरशकटः

कालियनागक्ष्वेळनिहन्ता सरसिजनवदळविकसितनयनः 01

 कालघनालीकर्बुरकायः शरशतशकलितरिपुशतनिवहः

सन्ततमस्मान् पातु मुरारिः सततगसमजवखगपतिनिरतः 02

  मुख्यप्राण वशे सर्वं विष्णोर्वशगः सदा

 


9 Comments

  1. Srinivas Sridharmurthy says:

    Nothing came close to attaining peace in the evening other than “Dwadasha” recital has really helped me cope up with anxiousness, stress and attain equilibrium between inside and outside the body. Hare Srinivasa!

  2. venkata annaji rao says:

    Namasthe, I am in need of Dwadasha sthothra with TELEUGU meaning for each shloka/verse in TELEUGU script Pdf format. Any person having web link/URL may kindly send it to me. My email With Regards

  3. DNR RAO says:

    Namasthe, I am in need of Dwadasha sthothra with kannada meaning for each shloka/verse in kannada script Pdf format. Any person having web link/URL may kindly send it to me. My email With Regards

  4. Shrinivas says:

    Thank you v v much

  5. Balachandra says:

    Dear Srinivas ji. You have given the filenames as “bhakhi gaatha”. It should be “bhakthi gaatha”. “t” is missing.

  6. Murali R Rao says:

    Namaskara Need Dwadasa Stotra in english please for recitation.

  7. hanumantha rao gopinathan says:

    can i get word for word in English Dwadasha Stotra. for the purpose of recitation

    • Raghu Rao says:

      Namaskara. If you are in Chennai, you can get a book in SRS Matha, T Nagar or you can go to a Ramakrishna Mission book store and get the book on Dwadasha Stotra. Both these books are in English with meanings. I also have a Word document on this subject. Make a posting on MYP board and I will send the files to you.
      Note: How wierd it is that an Advaitin book store has a book on Dwadasha Stotra 🙂

      No

Leave a comment