SRIMADHVYASA

Home » Brahmasutra Bhashya Of Srimad AnandaTheertha -Searchable-Unicode-sanskrit

Brahmasutra Bhashya Of Srimad AnandaTheertha -Searchable-Unicode-sanskrit

ब्रह्मसूत्रभाष्यम् (ब्रह्मसूत्रसमेतम् )
प्रथमाद्यायः (समन्वयाध्यायः) ॥ 01-01 ॥
प्रथमः पादः ॥ 01-01 ॥
नारायणं गुणैः सर्वैरुदीर्णं दोषवर्जितम् ।
ज्ञेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते ॥
द्वापरे सर्वत्र ज्ञान आकुलीभूते तन्निर्णयाय ब्रह्मरुद्रेन्द्रादिभिरर्थितो भगवान् नारायणो व्यासत्वेनावततार । अथेष्टानिष्टप्राप्तिपरिहारेच्छूनां तद्योगमविजानतां तज्ज्ञापनार्थं वेदमुत्सन्नं व्यञ्जयंश्चतुर्धा व्यभजत्। चतुर्विंशतिधैकशतधा सहस्रधा द्वादशधा च । तदर्थनिर्णयाय ब्रह्मसूत्राणि चकार ।
तच्चोक्तं स्कान्दे –
नारायणाद्विनिष्पन्नं ज्ञानं कृतयुगे स्थितम् ।
किञ्चित् तदन्यथा जातं त्रेतायां द्वापरेऽखिलम् ॥

गौतमस्य ऋषेः शापार्ज्ज्ञाने त्वज्ञानतां गते ।
सङ्कीर्णबुद्धयो देवा ब्रह्मरुद्रपुरस्सराः ॥

शरण्यं शरणं जग्मुर्नारायणमनामयम् ।
तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः॥

अवतीर्णो महायोगी सत्यवत्यां पराशरात् ।
उत्सन्नान् भगवान् वेदानुज्जहार हरिः स्वयम् ॥

चतुर्धा व्यभजत् तांश्च चतुर्विंशतिधा पुनः ।
शतधा चैकधा चैव तथैव च सहस्रधा ॥

कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये ।
चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा ॥

अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् ।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥

निर्विशेषितसूत्रत्वं ब्रह्मसूत्रस्य चाप्यतः ।
यथा व्यासत्वमेकस्य कृष्णस्यान्ये विशेषणात् ॥

सविशेषणसूत्राणि ह्यपराणि विदो विदुः ।
मुख्यस्य निर्विशेषेण शब्धोऽन्येषां विशेषतः ॥

इति वेदविदः प्राहुः शब्धतत्त्वार्थवेदिनः ।
सूत्रेषु येषु सर्वेऽपि निर्णयाः समुदीरिताः ॥

शब्दजातस्य सर्वस्य यत्प्रमाणश्च निर्णयः ।
एवं विधानि सूत्राणि कृत्वा व्यासो महायशाः ॥

ब्रह्मरुद्रादिदेवेषु मनुष्यपितृपक्षिषु ।
ज्ञानं संस्थाप्य भगवान् क्रीडते पुरुषोत्तमः ।’इत्यादि ।
ॐ ॐअथातो ब्रह्मजिज्ञासा ॐ ॥ 01-01 ॥
‘अथ’ शब्धो मङ्गळार्थोऽधिकारानन्तर्यार्थश्च ।
‘अतः’ शब्दो हेत्वर्थः।
उक्तं च गारुडे –
अथातः शब्धपूर्वाणि सूत्राणि निखिलान्यपि ।
प्रारभन्ते नियत्यैव तत् किमत्र नियामकम् ॥

कश्चार्थश्च तयोर्विद्वन् कथमुत्तमता तयोः ।
एतदाख्याहि मे ब्रह्मन् यथा ज्ञास्यामि तत्त्वतः ॥

एवमुक्तो नारदेन ब्रह्मा प्रोवाच सत्तमः ।
आनन्तर्येऽधिकारस्य मङ्गळार्थे तथैव च ॥

अतशब्दस्त्वतः शब्दो हेत्वर्थे समुदीरितः ।
परस्य ब्रह्मणो विष्णोः प्रसादादिति वा भवेत् ॥

स हि सर्वमनोवृत्तिप्रेरकः समुदाहृतः ।
सिसृक्षोः परमाद्विष्णोः प्रथमं द्वौ विनिःसृतौ ॥

ओङ्कारश्चाथशब्दश्च तस्मात् प्राथमिकौ क्रमात् ।
तद्धेतुत्वं वदंश्चापि तृतीयोऽत उदाहृतः॥

अकारः सर्ववागात्मा परब्रह्माभिधायकः ।
तथौ प्राणात्मकौ प्रोक्तौ व्याप्तिस्थितिविधायकौ ॥

अतश्च पूर्वमुच्चार्याः सर्व एते सतां मताः ।
अथातःशब्धयोरेवं वीर्यमाज्ञाय तत्त्वतः ॥

सूत्रेषु तु महाप्राज्ञास्तावेवादौ प्रयुञ्जते’ इति॥
अधिकारश्चोक्तो भागवततन्त्रे –
मन्दमध्योत्तमत्वेन त्रिविधा ह्यधिकारिणः ।
तत्र मन्दा मनुष्येषु य उत्तमगणा मताः ॥

मध्यमा ऋषिगन्धर्वा देवास्तत्रोत्तमा मताः ।
इति जातिकृतो भेदस्तथाऽन्यो गुणपूर्वकः ॥

भक्तिमान् परमे विष्णौ यस्त्वध्ययनवान् नरः ।
अधमः शमादिसंयुक्तो मध्यमः समुदाहृतः ॥

आब्रह्मस्तम्बपर्यन्तमसारं चाप्यनित्यकम् ।
विज्ञाय जातवैराग्यो विष्णुपादैकसंश्रयः ॥

स उत्तमोऽधिकारी स्यात् सन्न्यस्ताखिलकर्मवान् इति ।
‘अध्ययनमात्रवतः’ ,’नाविशेषात्’ इति चोपरि ।
‘शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽत्मानं पश्येत्’
“परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् । नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् । ”
“ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥” इत्यादि श्रुतिभ्यश्च ॥
व्योमसंहितायां च –
अन्त्यजा अपि ये भक्ता नामज्ञानाधिकारिणः ।
स्त्रीशूद्रब्रह्मबन्धूनां तन्त्रज्ञानेऽधिकारिता ॥

एकदेशे परोक्ते तु न तु ग्रन्थपुरस्सरे ।
त्रैवर्णिकानां वेदोक्ते सम्यग्भक्तिमतां हरौ ॥

आहुरप्युत्तमस्त्रीणामधिकारं तु वैदिके ।
यथोर्वशी यमी चैव शच्याद्याश्च तथाऽपरा ॥ इति ॥

यतो नारायणप्रसादमृते न मोक्षः, न च ज्ञानं
विनाऽत्यर्थप्रसादः, अतो ब्रह्मजिज्ञासाकर्तव्या ।
यत्रानवसरोऽन्यत्र पदं तत्र प्रतिष्ठितम् ।
वाक्यं वेति सतां नीतिः सावकाशे न तद्भवेत् ॥ इति ब्रह्मसंहितायाम् ।
‘तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते’ ॥
‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः’ ।
‘यमेवैष वृणुते तेन लभ्यः’ ।
‘आत्मावाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निधिध्यासितव्यः’ – इत्यादिश्रुतिस्मृतिभ्यः ।
‘कर्मणात्वधमः प्रोक्तः प्रसादः श्रवणादिभिः ।
मध्यमो ज्ञानसम्पत्त्या प्रसादस्तूत्तमो मतः ॥

प्रसादात्त्वधमाद्विष्णोः स्वर्गलोकः प्रकीर्तितः ।
मध्यमाज्जनलोकादिरुत्तमस्त्वेव मुक्तिधः ॥

श्रवणं मननं चैव ध्यानं भक्तिस्तथैव च ।
साधनं ज्ञानसम्पत्तौ प्रधानं नान्यदिष्यते ॥

न चैतानि विना कश्चिज्ज्ञानमाप कुतश्चन’। इति नारदीये ।
‘ब्रह्म’ शब्दश्च विष्ण्वावेव –
‘यमन्तः समुद्रे कवयोऽवयन्ति तदक्षरे परमे प्रजाः ।
यतः प्रसूता जगतः प्रसूती तोयेन जीवान्व्यससर्ज भूम्याम्’ – इत्युक्त्वा’
‘तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्’ इति हि शृतिः ॥
‘तन्नो विष्णुः’ इति वचनाद्विष्णुरेव हि तत्रोच्यते ॥
न चेतरशब्दात् तत्प्राप्तिः –
‘नामानि विश्वाऽभि न सन्ति लोके यदाविरासीदनृतस्य सर्वम् ।
नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति’ – इति भाल्लवेयश्रुतिः ॥
‘यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या’ इत्येवशब्दान्नान्येषां सर्वनामता ।
‘अजस्य नाभावध्येकमर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः’
-इति विष्णोर्हि लिङ्गम् ।
न च प्रसिद्धार्थं विनाऽन्योऽर्थो युज्यते ॥
‘अजस्य नाभाविति यस्य नाभेरभूच्छ्रुतेः पुष्करं लोकसारम् ॥
तस्मै नमो व्यस्तसमस्तविश्वविभूतये विष्णवे लोककर्त्रे’
इति स्कान्दे ।
‘परो दिवा पर एना पृथिव्या’ इति समाख्याश्रुतौ ॥
‘यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्’ इत्युक्त्वा ‘मम योनिरप्स्वन्तः समुद्रे’ इत्याह ।
उग्रो रुद्रः । समुद्रेऽन्तर्नारायणः । प्रसिद्धत्वात् सूचितत्वाच्चास्यार्थस्य । न चाविरोधे प्रसिद्धः परित्यज्यते । उक्तान्यायेन च श्रुतय एतमेव वदन्ति ।
‘वेदे रामायणे चैव पुराणे भारते तथा ।
आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते’
इति हरिवंशेषु ॥
न चेतरग्रन्थविरोधः .
‘एषं मोहं सृजाम्याशु यो जनान् मोहयिष्यति ।
त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ॥
अतथ्यानि वितथ्यानि दर्शयस्व महाभुज ।
प्रकाशं कुरु चात्मानामप्रकाशं च मां कुरु’ इति वाराह वचनात् ॥
शैव च स्कान्दे –
‘श्वपचादपि कष्टत्वं ब्रह्मेशानादयः सुराः ।
तदैवाच्युत यान्त्येव यदैव त्वं पराङ्मखः’ इति ॥
ब्राह्मे च ब्रह्मवैवर्ते –
‘नाहं न च शिवोऽन्ये च तच्छक्त्येकांशभागिनः ।
बालः क्रीडनकैर्यद्वत् क्रीडतेऽस्माभिरच्युतः’ इति ॥
न च वैष्णवेषु तथा । तच्च’एष मोहम्’ इत्युक्तम् ॥

॥ इति जिज्ञासाधिकरणम् ॥
ॐ जन्माद्यस्य यतः ॐ ॥ 02-02 ॥
सृष्टिस्थितिसंहारनियमनज्ञानाज्ञानबन्धमोक्षा यतः ।
‘उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृतिः ।
बन्धमोक्षौ च पुरुषाद्यस्मात् स हरिरेकराट्’ इति स्कान्दे ।
‘यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति ।
यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्म’ इति ।
य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा ।
चतुर्भिस्साकं नवतिं च नामभिश्चक्रं न वृत्तिं व्यतीरँ वीविपत् ।
‘परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति ।
न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप’।
‘यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा’
इत्यादि च ॥02॥
॥ इति जन्माधिकरणम् ॥
अनुमानतोऽन्ये न कल्पनीयाः –
ॐ शास्त्रयोनित्वात् ॐ ॥ 03-03 ॥
‘नावेदविन्मनुते तं बृहन्तं सर्वानुभूमात्मानं साम्पराये’ ॥
‘औपनिषदः पुरुषः’ इत्यादिश्रुतिभ्यः ॥
न चानुमामस्य नियतप्रामाण्यम् ॥
‘श्रुतिसाहाय्यरहितमनुमानं न कुत्रचित् ।
निश्चयात् साधयेदर्थं प्रमाणान्तरमेव च ॥
श्रुतिस्मृतिसहायं यत् प्रमाणान्तरमुत्तमम् ।
प्रमाणपदवीं गच्छेन्नात्र कार्याविचारणा ॥
पूर्वोत्तराविरोधेन कोऽत्रार्थोऽभिमतो भवेत् ।
इत्याद्यमूहनं तर्कः शुष्कतर्कं तु वर्जयेत्’ इत्यादि कौर्मे॥
शक्यत्वाच्चानुमानानां सर्वत्र ।
‘सर्वत्र शक्यते कर्तुमागमं हि विनाऽनुमा ।
तस्मान्न सा शक्तिमती विनागममुदीक्षितुम् ।’ इति वाराहे ।
‘रेतो धातुर्वटकणिका घृतधूमाधिवासनम् ।
जातिस्मृतिरयस्कान्तः सूर्यकान्तोऽम्बुभक्षणम् ॥
प्रेत्य भूताप्ययश्चैव देवताभ्युपयाचनम् ।
मृते कर्मनिवृत्तिश्च प्रमाणमिति निश्चयः ॥’
-इति मोक्षधर्मवचनान्न नास्तिक्यवादो युज्यते ।
दर्शनाच्च तप आधिफलस्य ॥
‘ऋग्यजुःसामाथर्वाश्च भारतं पञ्चरात्रकम् ।
मूलरामायणं चैव शास्त्रमित्यभिदीयते ॥
यच्चानुकूलमेतस्य तच्च शास्त्रं प्रकीर्तितम् ।
अतोऽन्यो ग्रन्थविस्तारो नैव शास्त्रं कुवर्त्म तत्’॥इति स्कान्दे ॥
‘साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च’।
इत्यारभ्य, वेदपञ्चरात्रयोरैक्याभिप्रायेण पञ्चरात्रस्यैव प्रामाण्यमुक्तम्, इतरेषां भिन्नमतत्वं प्रदर्श्य मोक्षधर्मेष्वपि । शास्त्रं योनिः प्रमाणमस्येति शास्त्रयोनि ॥ 03 ॥
॥ इति शास्त्रयोनित्वाधिकरणम् ॥ 03 ॥
अज्ञानां प्रतीयमानमपि नेतरेषां शास्त्रयोनित्वम् , कुतः ? ।
ॐ तत्तु समन्वयात् ॐ ॥ 04-04 ॥
अन्वय उपपत्यादि लिङ्गम् ।
उक्तं च बृहत्संहितायाम् –
‘उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम्
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये’ इति ॥
‘उपक्रमादितात्पर्यलिङ्गैः सम्यङ् निरूप्यमाणे तदेव शास्त्रगम्यम् ।
‘मां विधत्तेऽभिदत्ते मां विकल्प्योऽपोह्य इत्यहम् ।
इत्यस्या हृदयं साक्षान्नान्यो मद्वेद कश्चन’ इति भागवते ॥ 04 ॥
॥ इति समन्वयाधिकरणम् ॥ 04 ॥
ननु’यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’॥
‘अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्’ ॥
‘अवचनेनैव प्रोवाच’ ॥
‘यद्वाचाऽनभ्युदितम् । येन वागभ्युद्यते ॥
यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम्’
इत्यादिभिर्न तच्छब्दगोचरम् । नेत्याह –
ॐ ईक्षतेर्नाशब्धम् ॐ ॥ 05-05 ॥
‘स एतस्माज्चीवघनात्परात्परं पुरिशयं पुरुषमीक्षते’॥
‘आत्मन्येवात्मनं पश्येत् – विज्ञाय प्रज्ञां कुर्वीत’
इत्यादिवचनैरीक्षणीयत्वाद्वाच्यमेव । औपनिषदत्वान्नावचनेनेक्षणम् ॥
‘सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति’ ॥
‘वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम्’ इत्यादि शृतिस्मृतिभ्यश्च ॥
अवाच्यत्वादिकं त्वप्रसिद्धत्वात् ॥
‘न तदीदृगिति ज्ञेयं न वाच्यं न च तर्क्यते ।
पश्यन्तोऽपि न पश्यन्ति मेरो रूपं विपश्चितः’ इतिवत् ॥
अप्रसिद्धेरवाच्यं तद्वाच्यं सर्वागमोक्तितः ।
अतर्क्यं तर्क्यमज्ञेयं ज्ञेयमेवं परं स्मृतम्’ इति गारुडे ॥
न चाशब्दत्वमितरसिद्धम् ॥05॥
ॐ गौणश्चेन्नात्मशब्दात् ॐ ॥ 06-06 ॥
न च गौण आत्मा दृश्यो वाच्यश्च न निर्गुण इति युक्तम् । आत्मशब्दात्॥
‘यो गुणैः सर्वतोहीनो यश्च दोषविवर्जितः ।
हेयोपादेयरहितः स आत्मेत्यभिधीयते ॥
एतदन्यस्वभावो यः सोऽनात्मेति सतां मतम् ॥
अनात्मन्यात्मशब्दस्तु सोपचारः प्रयुज्यते’ इति वामने ॥
‘द्वे वाव ब्रह्मणो रूपे आत्मा चैवानात्मा च ।
तत्र यः स आत्मा स नित्यः शुद्धः केवलो निर्गुणश्च ।
अथ ह योऽनीदृशः सोऽनात्मा’ इति तलवकारब्राह्मणम् ।
न च मुख्ये सत्यमुख्यं युज्यते ॥ 06 ॥
ॐ तन्निष्ठस्य मोक्षोपदेशात् ॐ ॥ 07-07 ॥
न हि गौणात्मनिष्ठस्य मोक्षः ।
‘यस्यानुवित्तः प्रतिबुद्ध आत्माऽस्मिन् सन्दोहे गहने प्रविष्टः ।
स विश्वकृत् स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव’
इत्यात्मनिष्ठस्य मोक्ष उपदिश्यते ।
‘अयमात्मा ब्रह्म’॥
‘ब्रह्मेति परमात्मेति भगवानिति शब्द्यते’।
‘दत्तं दूर्वाससं सोममात्मेशब्रह्मसम्भवान्’॥
‘चेतनस्तु द्विधा प्रोक्तो जीव आत्मेति च प्रभो ।
जीवा ब्रह्मादयः प्रोक्ता आत्मैकस्तु जनार्दनः ॥
इतरेष्वात्मशब्दस्तु सोपचारोऽभिधीयते ॥
तस्यात्मनो निर्गुणस्य ज्ञानान्मोक्ष उदाहृतः ॥
सगुणास्त्वपरे प्रोक्तास्तज्ज्ञानान्नैव मुच्यते ।
परो हि पुरुषो विष्णुस्तस्मान्मोक्षस्ततः स्मृतः’ इति पाद्मे ॥ 07 ॥
ॐ हेयत्वावचनाच्च ॐ ॥ 08-08 ॥
‘तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ । अमृतस्यैष सेतुः’
इत्यन्येषां हेयत्ववचनादस्याहेयत्ववचनान्न गौण आत्मा ॥ 08 ॥
ॐ स्वाप्ययात् ॐ ॥ 09-09 ॥
‘पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते’॥
‘स आत्मन आत्मानमुद्धृत्यात्मन्येव विलापयत्यथात्मैव भवति’।
स देवो बहुधा भूत्वा निर्गुणः पुरुषोत्तमः॥
एकीभूय पुनः शेते निर्दोषो हरिरादिकृत्’
इति स्वस्यै व स्वस्मिन्नप्ययवचनात् ।
न हि गौणात्मनि निर्दोषस्य लयः ॥ 09 ॥
न च कासुचिच्छाखास्वन्यथोच्यते ।
ॐ गतिसामान्यात् ॐ ॥ 10-10 ॥
‘सर्वे वेदा युक्तयः सुप्रमाणा ब्राह्मं ज्ञानं परमं त्वेकमेव । प्रकाशयन्ते न विरोधः कुतश्चिद्वेदेषु सर्वेषु तथेतिहासे’
इति पैङ्गिश्रुतेर्गतेर्ज्ञानस्य साम्यमेव ॥ 10 ॥
ॐ श्रुतत्वाच्च ॐ ॥ 11-11 ॥
‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूतादिवासः साक्षी चेता केवलो निर्गुणश्च’ इति ॥
न ह्यशब्दः श्रूयते । न चाप्रसिद्धं कल्प्यम् । सर्वशब्दावाच्यस्य लक्षणाऽयुक्तेः ॥ 11 ॥
॥ इति ईक्षत्यधिकरणम् ॥
‘तमेव समन्वयं प्रकटयत्यानन्दमयोऽभ्यासादित्यादिना समस्तेनाध्यायेन प्रायेण ।
प्रायेणान्यत्र प्रसिद्धानां शब्दानां परमात्मनि समन्वयः प्रदर्श्यतेऽस्मिन् पादे । नान्यथा तददृष्टेः ।
ब्रह्मजिज्ञासा कर्तव्येत्युक्तम् । तच्च ब्रह्म ‘ब्रह्म पुच्छं प्रतिष्ठा’ इत्यानन्दमयावयवरूपं प्रतीयते । न ह्यवयविनं विना अवयवमात्रस्य ज्ञेयतेत्यत आह –
ॐ आनन्दमयोऽभ्यासात् ॐ ॥ 12-12 ॥
आनन्दमयो ब्रह्मादिः प्रकृतिर्विष्णुर्वा । ब्रह्मशब्दाद्धिरण्यगर्भस्य प्राप्तिः शतानन्दनाम्ना च । अष्टमूर्तित्वात्सूर्ये प्रोक्तत्वाच्च रुद्रस्य । एनमन्येषामपि।’मम योनिर्महद्ब्रह्म’ इति ब्रह्मशब्दाद्बहुभावाच्च प्रकृतेः ।
‘बृह जातिजीवकमलासनशब्दराशिषु’ इति ब्रह्मशब्दादेव सर्वजीवानाम्।अन्नमयत्वादेश्च ।
तथाऽपि न त आनन्दमयशब्देनोच्यन्ते । किन्तु विष्णुरेव ।’तदेव ब्रह्म परमं कवीनाम्’ ‘एतमेव ब्रह्मेत्याचक्षते’ ।
‘ब्रह्मशब्धः परे विष्णौ नान्यत्र क्वचिदिष्यते ।
असम्पूर्णाः परे यस्मादुपचारेण वा भवेत्’ ॥
‘ब्रह्मेति परमात्मेति भगवानिति शब्द्यते’।
‘वासुदेवात्मकं ब्रह्म मूलमन्त्रेण वा यतिः’॥
इत्यादिषु तस्मिन्नेव प्रसिद्धब्रह्मशब्दाभ्यासात् ॥ 12 ॥
ॐ विकारशब्दान्नेति चेन्न प्राचुर्यात् ॐ ॥ 13-13 ॥
विकारात्मकत्वात्तदभिमानित्वाच्च युज्यते प्रकृत्यादीनां मयट् शब्दः न तु परमात्मन इति मा भूत् । प्रचुरानन्दत्वाद्द्यानन्दमयः । न तु तद्विकारत्वात् । अन्नादीनां च प्राचुर्यमेव ॥ ‘अद्यतेऽत्ति च’ इति व्याखानात् तत्प्राचुर्यं च युज्यते ॥
उपजीव्यत्वमेवाद्यत्वम् ॥ ‘स वा एषः’ इत्यन्यप्रारम्भात् ॥ ‘योऽन्नं ब्रह्मोपासते’ इत्यादिब्रह्मशब्दाद्बहुरूपत्त्वाच्च न विकारित्वमविरोधश्च । न च पृथक्कल्पना युक्ता । स्वरूपे च युज्यते प्रचुरप्रकाशो रविरितिवत् ॥13॥
ॐ तद्धेतुव्यपदेशाच्च ॐ ॥ 14-14 ॥
‘को ह्येवान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्’ इति ॥14॥
ॐ मान्त्रवर्णिकमेव च गीयते ॐ ॥ 15-15 ॥
‘ब्रह्मविदाप्नोति परम्’ इति सूचयित्वा‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति मन्त्रवर्णलक्षितं परमेव ब्रह्मशब्दानुसन्धानाद्गीयते । न चावयवत्वविरोधः ॥
‘स शिरः स दक्षिणः पक्षः स उत्तरः पक्षः स आत्मा स पुच्छम्’
इति तस्यै वावयवत्वोक्तेश्चतुर्वेदशिखायाम्
शिरो नारायणः पक्षो दक्षिणः सव्य एव च ।
प्रद्युम्नश्चानिरुद्धश्च सन्दोहो वासुदेवकः ॥
नारायणोऽथ सन्दोहो वासुदेवः शिरोऽपि वा ।
पुच्छं सङ्कर्षणः प्रोक्त एक एव तु पञ्चधा ॥
अङ्गाङ्गित्वेन भगवान् क्रीडते पुरुषोत्तमः ॥
ऐश्वर्यान्न विरोधश्च चिन्त्यस्तस्मिन् जनार्दने ।
अतर्क्ये हि कुतस्तर्कस्त्वप्रमेये कुतः प्रमा’ –इति बृहत्संहितायाम् ॥
रसशब्देन विशेषणात् तत्सारभूतं चिन्मात्रमेवोच्यते । इदमिति च दृश्यमानसन्निहितत्वात् ।
‘अनन्योऽप्यन्यशब्देन तथैको बहुरूपवान् ।
प्रोच्यते भगवान् विष्णुरैश्वर्यात् पुरुषोत्तमः’ ॥ इति ब्रह्माण्डे ।
न चोक्तप्राप्त्या विरिञ्चादिरुच्यते ॥ 15 ॥
ॐ नेतरोऽनुपपत्तेः ॐ ॥ 16-16 ॥
न ह्यन्यज्ञानान्मोक्ष उपपद्यते ।
‘तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते’ इति ह्युक्तम् ॥16॥
ॐ भेदव्यपदेशाच्च ॐ ॥ 17-17 ॥
‘ते ये शतं प्रजापतेरानन्दाः’॥
‘अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते’ ।
‘अथ सोऽभयं गतो भवति’ ।
‘स यश्चायं पुरुषे’ इत्यादिभेदव्यपदेशात् ।
न च’तत्त्वमसि’’अहं ब्रह्मास्मि’ इत्यादिश्रुतिविरोधः ॥
‘नामानि सर्वाणि यमाविशन्ति’ इति तत्तच्छब्दवाच्यत्वोक्तेः ॥
‘इदं हि विश्वं भगवानिवेतरो यतो जगत्स्थाननिरोधसम्भवः’॥
‘असर्वः सर्व इत्यपि’,’विद्याऽऽत्मनि भिदाभोधः’
‘भेददृष्ट्वाऽभिमानेन निस्सङ्गेनापि कर्मणा’ ।
‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ।
‘असर्वः सर्व इवात्मैव सन्ननात्मेव प्रत्यङ् पराङ् वैक ईयते
बहुधेयते’’स पुरुषः’स ईश्वरः स ब्रह्म’ ।
‘सर्वान्तर्यामको विष्णुः सर्वनाम्नाऽभिधीयते ।
एषोऽहं त्वमसौ चेति न तु सर्वस्वरूपतः’ ॥
‘नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह’ इत्यादेश्च’ ।
उक्ता च प्राप्तिः ।’ब्रह्मैव सन्’ इत्यपि जीव एव ब्रह्मशब्दः ।
उपपद्यते च विरोधे । प्रमादात्मकत्वाद्बन्धस्य विमुक्तत्वं च युज्यते ।
‘मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यवस्थितिः’ इति हि भागवते ॥17॥
न च तत्तदनुमानविरोधः ।
ॐ कामाच्च नानुमानापेक्षा ॐ ॥ 18-18 ॥
यथाकामं ह्यनुमातुं शक्यते । अतो न तत्त्वे पृथगनुमानमपेक्ष्यते । उक्तं च स्कान्दे –
‘यथाकामाऽनुमा यस्मात् तस्मात् साऽनपगा श्रुतेः ।
पूर्वापराविरोधाय चेष्यते नान्यथा क्वचित्’ इति ॥
‘नैषा तर्केण मतिरापनेया’ इति च ॥ 18 ॥
ॐ अस्मिन्नस्य च तद्योगं शास्ति ॐ ॥ 19-19 ॥
अस्य जीवस्य । युक्तिसमुच्चये चशब्दः ।
‘सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता’ ।
‘अनिलयनेऽभयं प्रतिष्ठां विन्दते’ ।
‘एतमानन्दमयमात्मानमुपसङ्क्रामति’ इत्यादि ॥19॥
॥इति आनन्दमयाधिकरणम्॥ 06 ॥
‘अदृश्येऽनात्म्ये’ इत्युक्तम् । तच्चादृष्यत्वम्,
‘अन्तः प्रविष्टं कर्तारमेतमन्तश्चन्द्रमसि मनसा चरन्ततम् ।
सहैव सन्तं न विजानन्ति देवाः’
इत्यन्तःस्थस्य कस्यचिदुच्यते ।
स च’इन्द्रो राजा’’सप्तयुञ्जन्ति’ इत्यादिभिरन्यः प्रतीयते ।
तस्मात् स एवानन्दमय इति न मन्तव्यम् ।
ॐ अन्तस्तद्धर्मोपदेशात् ॐ ॥ 20-20 ॥
अन्तः श्रूयमाणो विष्णुरेव ।
‘अन्तः स्समुद्रे मनसा चरन्तम् । ब्रह्मान्वनिन्दद्दशहोतारमर्णे’ ।
‘समुद्रेऽन्तः कवयो विचक्षते मरीचीनां पदमिच्छन्ति वेधसः’
यस्याण्डकोशं शुष्ममाहुः’ इत्यादि तद्दर्मोपदेशात् ।
स हि क्षीरसमुद्रशायी । तस्य च वीर्यमण्डकोशः ।
‘सोऽबिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः ।
अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥
तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ।
यस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः’ इति व्यासस्मृतेः ।
‘अहं तत्तेजो रश्मीन्नारायणम् पुरुषं जातमग्रतः ।
‘पुरुषात् प्रकृतिर्जगदण्डम्’ इति चतुर्वेदशिखायाम् ॥ 20 ॥
ॐ भेदव्यपदेशाच्चान्यः ॐ ॥ 21-21 ॥
‘इन्द्रस्यात्मानिहितः पञ्च होता’ ‘वायोरात्मानं कवयो निचिक्युः’
‘अन्तरादित्ये मनसा चरन्तम्, देवानां हृदयं ब्रह्मान्वविन्दत्’ इत्यादिभेदव्यपदेशात् ॥ 21 ॥
॥इति अन्तःस्तत्थ्वाधिकरणम् ॥ 07 ॥
‘को ह्येवान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात् इति’ इत्याकाशस्यानन्दमयत्वे हेतुरुक्तः, न तु विष्णोरिति न मन्तव्यम् । यतः –
ॐ आकाशस्तल्लिङ्गात् ॐ ॥ 22-22 ॥
‘अस्य लोकस्य का गतिरित्याकाश इति होवाच’
इत्यत्र भूताकाशस्य प्राप्तिः । न चासौ युज्यते, किन्तु विष्णुरेव ।
‘स एष परोवरीयानुद्गीथः स एषोऽनन्तः’ इत्यादि तल्लिङ्गात् ।-
‘विष्णोर्नु कं वीर्याणि प्रोवोचं यः पार्थिवानि विममे रजांसि, परो मात्रया तन्वा वृधान’ इत्यादिना तस्यैव हि तल्लिङ्गम् ।
‘अनन्तो भगवान् ब्रह्म आनन्देत्यादिभिः पदैः ।
प्रोच्यते विष्णुरेवैकः परेषामुपचारतः’ इति ब्राह्मे ।
‘नामानि सर्वाणि यमाविशन्ति’ इति चोक्तम् ॥ 22 ॥
॥ इति आकाशाधिकरणम् ॥
ॐ अत एव प्राणः ॐ ॥ 23-23 ॥
‘तद्वैत्वं प्राणो अभवः महान् भोगः प्रजापतेः ।
भुजः करिष्यमाणः यद्देवान् प्राणयो न वा ॥
इति महाभोगशब्देन परमानन्दत्वं प्राणस्योक्तम् । स च प्राणः प्रसिद्धेर्वायुरित्यापतति । न चैवं यतो विष्णुरेव प्राणः । अत एव ‘श्रीश्च ते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे’ इत्यादि तल्लिङ्गादेव ॥ 23 ॥
॥ इति प्राणाधिकरणम् ॥ 9 ॥
‘यो वेद निहितम् गुहायाम्’ इत्युक्तम् । तच्च गुहानिहितम् –
‘वि मे कर्णा पतयतो विचक्षुर्वीदं ज्योतिर्हृदय आहितं यत् ।
विमे मनश्चरति दूर आधीः किंस्विद्वक्ष्यामि किमु नो मनिष्ये’
इति ज्योतिरुक्तम् ।
तच्च ज्योतिरग्निसूक्तत्वात् प्रसिद्धेश्चाग्निरेवेति प्राप्तम् । अत आह –
ॐ ज्योतिश्चरणाभिधानात् ॐ ॥ 24-24 ॥
विष्णुरेव ज्योतिः । कर्णादीनां विचरणाभिधानात् । स हि’परो मात्रया तन्वावृधान’ इत्यादिना कर्णादिविदूरः ॥ 24 ॥
॥ इति ज्योतिरधिकरणम् ॥ 10 ॥
ॐ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम् ॐ
॥ 25-25 ॥
‘अथ यदतः परो दिवो ज्योतिर्दीप्यते’ इत्युक्तस्य ज्योतिषो’गायत्री वा इदं सर्वम्’ इति गायत्र्या समारम्भः कृतः । तस्मान्न विष्णुरिति चेन्न ।
तथा चेताऽर्पणार्थं हि निगद्यते अग्नि गायत्र्यादिशब्दार्थरूपोऽसाविति चेतोऽर्पणार्थं हि निगद्यते ।
तथा हि दर्शनं’गायति त्रायति च’ इत्यादि ।
‘सर्वच्छन्दोऽभिधो ह्येषः सर्वदेवाभिधो ह्यसौ ।
सर्वलोकाभिधोह्येषः तेषां तदुपचारतः’ इति वामने ॥ 25 ॥
ॐ भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॐ ॥ 26-26 ॥
‘तावानस्य महिमा ततो ज्यायांश्च पुरुषः ।
पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ इति ।
‘सुवर्णं कोशं रजसा परीवृतम् देवानां वसुधानीं विराजम् । अमृतस्य पूर्णां तामु कलां विचक्षते पादं षड्ढोतुर्न किलाविवित्स’ इति श्रुतेः । पाद इति एकदेशपरिमितं चतुर्भागबल इतिवद्भिन्नं च शब्दात् । स हि पुरुषसूक्ताभिधेयः’यज्ञेन यज्ञमयजन्त’ इति यज्ञशब्दात् ।
‘यज्ञो विष्णुर्देवता’ इति हि श्रुतिः ।
तस्मिन् काले महाराज राम एवाभिधीयते ।
यथा हि पौरुषे सूक्ते विष्णुरेवाभिधीयते’। इति च स्कान्दे ॥ 26 ॥
ॐ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॐ ॥ 27-27॥
त्रिपादस्यामृतं दिवि इति पूर्वोपदेशः ।
‘परो दिवः’ इति पञ्चम्यन्तः पश्चिमः ।
तस्मान्नैकं वस्त्वत्रोच्यत इति चेन्न ।
त्रिसप्तलोकापेक्षयोभयस्मिन्नप्यविरोधात् ॥ 27 ॥
॥इति गायत्र्यधिकरणम् ॥ 11 ॥
‘प्राणो विष्णुरित्युक्तम् । तत्र
‘ता वा एताः शीर्षन् श्रियः श्रिताश्चक्षुश्र्योत्रं मनो वाक्प्राणः ।
इत्यत्र प्राणस्य विष्णुत्वं न विद्यते । इन्द्रियैः सहाभिधानादिति । अत आह-
ॐ प्राणस्तथाऽनुगमात् ॐ ॥ 28-28 ॥
‘तं देवाः प्राणयन्त’ ‘स एषोऽसुः स एष प्राणः’
‘प्राण ऋच इत्येव विद्यात्’ ,’तदयं प्राणोऽधिष्ठति’
इत्याद्यनुगमात्, अत्रापि प्राणो विष्णुरेव ।
‘विष्णुमेवानयन् देवा विष्णुं भूतिमुपासते ।
स एव सर्ववेदोक्तस्तद्रथो देह उच्यते’ इति स्कान्दे । ब्रह्मशब्दानुगमाच्च ॥ 28 ॥
ॐ न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्भन्धभूमा ह्यस्मिन् ॐ ॥ 29-29 ॥
‘प्राणो वा अहमस्मृषे’ इति वक्तरात्मोपदेशादिन्द्र एवेति चेन्न,’प्राणस्त्वं प्राणः सर्वाणि भूतानि’
इति बह्वध्यात्मसम्भन्धो ह्यत्र विद्यते ॥ 29 ॥
ॐ शास्त्रदृष्ट्यातूपदेशो वामदेववत् ॐ ॥ 30-30 ॥
शास्त्रमन्तर्यामि ।‘संविच्छास्त्रं परं पदम्’ इति हि भागवते ।
‘तत्तन्नाम्नोच्यते विष्णुः सर्वशास्त्रत्वहेतुतः ।
न क्वापि किञ्चिन्नामास्ति तमृते पुरुषोत्तमम्’इति पाद्मे ।
‘अहं मनुरभवं सूर्यश्च’ इत्यादिवत् ॥ 30 ॥
ॐ जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॐ
॥ 31-31 ॥
तावन्ति शतसंवत्सरस्याह्नां सहस्राणि भवन्ति’ इति जीवलिङ्गम् ।
प्राणसंवादादि मुख्यप्राणलिङ्गम् । तस्मान्नेति चेन्न । अन्तर्बहिः सर्वगतत्वेनेत्युपासात्रैविध्यादिहाश्रितत्वाच्च ।
‘स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत’
‘स एतमेव पुरुषं ब्रह्म ततममपश्यत्’
‘एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः’ इत्यादिना ।
‘महिदासाभिधो जज्ञे इतरायास्तपोबलात् ।
साक्षात् स भगवान् विष्णुर्यस्तन्त्रं वैष्णवं व्यधात्’ इति ब्रह्माण्डे ।
तत्तदुपासनायोग्यतया च पुरुषाणाम् ।
‘केषांचित् सर्वगत्वेन केषांचिद्धृदये हरिः ।
केषांचिद्बहिरेवासावुपास्यः पुरुषोत्तमः’ इति ब्राह्मे ॥
‘अग्नौ क्रियावतां विष्णुर्योगिनां हृदये हरिः ।
प्रतिमास्वप्रबुद्धानां सर्वत्र विदितत्मानाम्’ इति च ॥ 31 ॥
॥ इति पादान्त्यप्राणाधिकरणम् ॥ 12 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिते श्रीमद्ब्रह्मसूत्र भाष्ये प्रथमाध्यायस्य प्रथमः पादः ॥01-01 ॥
द्वितीयपादः ॥ 01-02 ॥
लिङ्गात्मकानां शब्दानां विष्णौ प्रवृत्तिं दर्शयत्यस्मिन् पादे प्राधान्येन ।’ब्रह्म ततमम्’इति सर्वगतत्वमुक्तं विष्णोः ।
तच्च’तस्यैतस्यासावादित्यो रसः’ इत्यादिनाऽऽदित्यस्य प्रतीयत इत्यतोऽब्रवीत् ।
ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ ॥ 01-32 ॥
‘स यश्चायमशरीरः प्रज्ञात्मा’इत्यादिना सर्वत्रोच्यमानो नारायण एव ।
‘तदेव ब्रह्म परमं कवीनाम्’ । ‘परमं यो महद्ब्रह्म’ ।
‘वासुदेवात् परः को नु ब्रह्मशब्दोदितो भवेत् ।
स हि सर्वगुणैः पूर्णस्तदन्ये तूपचारतः’ ॥
इति तस्मिन्नेव प्रसिद्धब्रह्मशब्दोपदेशात् ॥ 01 ॥
ॐ विवक्षितगुणोपपत्तेश्च ॐ ॥ 02-33 ॥
‘स योऽतोऽश्रुतः’ इत्यादि ।
स हि ‘न ते विष्णो जायमानः’ इत्यादिनाऽश्रुतत्वादिगुणकः ।
‘स सविता स वायुः स इन्द्रः, सोऽश्रुतः सोऽदृष्टो यो हरिर्यः परमो यो विष्णुर्योऽनन्तः’ इत्यादि चतुर्वेदशिखायाम् ॥02॥
न चादित्शशब्दाच्चक्षुर्मयत्वादेश्च जीव इति वाच्यम् ।
ॐ अनुपपत्तेस्तुन शारीरः ॐ ॥ 03-34 ॥
एकस्य सर्वशरीरस्थत्वानुपपत्तेरेव ॥ 03 ॥
ॐ कर्मकर्तृव्यपदेशाच्च ॐ ॥ 04-35 ॥
‘आत्मानां परस्मैशंसति’ इत्यादि ॥04॥
ॐ शब्दविशेषात् ॐ ॥ 05-36 ॥
‘एतमेव ब्रह्मेत्याचक्षते’ इति । न हि जीवमेव ब्रह्मेत्याचक्षते ।
‘एष उ एव ब्रह्मैष उ एवात्मैष उ एव सवितैष उ एवेन्द्र एष उ एव हरिर्हरति परः परानन्दः’ इति चेंद्रद्युम्नशाखायाम् ॥ 05 ॥
ॐ स्मृतेश्च ॐ ॥ 06-37 ॥
‘अहमात्मा गुडाकेश सर्वभूताशयस्थितः’
‘गामाविश्य च भूतानि धारयाम्यहमोजसा’ इत्यादि ।
न चा प्रामाणिकं कल्प्यम् ॥ 06 ॥
ॐ अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॐ
॥07-38 ॥
सर्वेषु भूतेष्वित्यल्पौकस्त्वाच्चक्षुर्मयत्वादिना जीवव्यपदेशाच्च नेति चेन्न । अर्भकौकस्त्वेन चक्षुर्मयत्वादिरूपेण च तस्यैव विष्णोर्निचाय्यत्वात् । सर्वगतत्वेऽप्यल्पौकस्त्वं च युज्यते व्योमवत् ।
‘सर्वेन्द्रियमयो विष्णुः सर्वप्राणिषु च स्थितः ।
सर्वनामाभिधेयश्च सर्ववेदोदितश्च सः’ इति स्कान्दे ॥ 07 ॥
ॐ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॐ ॥ 08-39 ॥
जीवपरयोरेकशरीरस्थत्वे समानभोगप्राप्तिरिति चेन्न ।सामर्थ्य वैशेष्यात् । उक्तं च गारुडे –
‘सर्वज्ञाल्पज्ञताभेदात् सर्वशक्त्यल्पशक्तितः ।
स्वातन्त्र्यपारतन्त्र्याभ्यां सम्भोगो नेशजीवयोः’ इति च ॥08॥
॥ इति सर्वगतत्वाधिकरणम् ॥ 01 ॥
‘जन्माद्यस्य यतः’ इत्युक्तम् । तत्रात्तृत्वं,
‘स यद्यदेवासृजत तत्तदत्तुमध्रियत । सर्वां वा अत्तीति तददितेरदितित्वम्’ इत्यदितेः प्रतीयते ।
‘स यद्यदेवासृजत’ इति पुल्लिङ्गम् च ‘कूटस्थोऽक्षर उच्यते’इत्यादिवत् । अत्रोच्यते –
ॐ अत्ताचराचरग्रहणात् ॐ ॥ 09-40 ॥
न हि चराचरस्य सर्वस्यात्तृत्वमदितेः ।
‘स्रष्टा पाता तथैवात्ता निखिलस्यैक एव तु ।
वासुदेवः परः पुंसामितरेऽल्पस्य वा न वा’इति स्कान्दे ।
‘एकः पुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः ।
यमप्येति भुवनं साम्पराये स नो हरिर्घृतमिहायुषेऽत्तु देवः’
इति श्रुतिः ॥ 09 ॥
ॐ प्रकरणाच्च ॐ ॥ 10-41 ॥
अप्संवत्सरसृष्ट्यादिना तत्प्रकरणाच्च ।
‘नेहासीत् किञ्चनाप्यादौ मृत्युरासीद्धरिस्तदा ।
सो त्मनो मनसाऽस्राक्षीदप एव जनार्दनः ॥
शयानस्तासु भगवान्निर्ममेऽण्डं महत्तरम् ।
तत्र संवत्सरं नाम ब्रह्माणमसृजत् प्रभुः ॥
तमत्तुं व्याददादास्यं तदाऽसौ विरुराव ह ॥
अथं तं कृपया विष्णुः सृष्टिकर्मण्ययोजयत् ।
सोऽसृजद्भुवनं सर्वमद्यार्थ्यं हरये विभुः ॥
इति ब्रह्मवैवर्ते ॥ 10 ॥
॥ इति अत्तृत्वाधिकरणम् ॥ 02 ॥
सर्वात्रैकः परः उक्तः ।
‘ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे ।
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिनाचिकेताः’ । इति पिबन्तौ प्रतीयेते । तौ काविति । उच्यते ।
ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ ॥ 11-42 ॥
गुहां प्रविष्टौ पिबन्तौ विष्णुरूपे एव ।
‘घर्मा समन्ता त्रिवृतं व्यापतुस्तयोर्जुष्टिं मातरिश्वा जगाम’ इत्यादिना तद्दर्शनात् ।
‘आत्माऽन्तरात्मेति हरिरेक एव द्विधा स्थितः ।
निविष्टो हृदयेनित्यं रसं पिबति कर्मजम्’॥ इति बृहत्संहितायाम् ।
‘शुभं पिबत्यसौ नित्यं नाशुभं स हरिः पिबेत् ।
पूर्णानन्दमयस्यास्य चेष्टा न ज्ञायते क्वचित्’ ॥इति पाद्मे ॥
‘यो वेद निहितं गुहायाम्’
इत्यादिना प्रसिद्धं हिशब्देन दर्शयति ॥ 11 ॥
ॐ विशेषणाच्च ॐ ॥ 12-43 ॥
‘यः सेतुरीजानानामक्षरं ब्रह्म तत्परम्’ इति ।
‘पृथग् वक्तुं गुणास्तस्य न शक्यन्तेऽमितत्वतः ।
यतोऽतो ब्रह्मशब्देन सर्वेषां ग्रहणं भवेत् ॥
एतस्माद्ब्रह्मशब्दोऽयं विष्णोरेव विशेषणम् ।
अमिता हि गुणा यस्मान्नान्येषां तमृते विभुम्’ ॥ इति पाद्मे ।
न च जीवे समन्वयोऽभिधीयते ।
‘सत्य आत्मा सत्यो जीवः सत्यं भिदा सत्यं भिदा सत्यं भिदा मैवारुवण्यो मैवारुवण्यो मैवारुवण्यः’ इति भाल्लवेयश्रुतिः ।
‘आत्मा हि परमः स्वतन्त्रोऽधिगुणो ऽऽल्पशक्तिरस्वातन्त्रोऽवरः’
इति च भाल्लवेयश्रुतिः ।
‘यथेश्वरस्य जीवस्य भेदः सत्यो विनिश्चयात् ।
एवमेव हि मे वाचं सत्यां कर्तुमिहार्हसि’ ॥
‘यथेश्वरश्च जीवश्च सत्यभेदौ परस्परम् ।
तेन सत्येन मां देवास्त्रायन्तु सहकेशवाः ॥’
इत्यदेर्नासत्यो भेदः ॥ 12 ॥
॥ इति गुहाधिकरणम् ॥ 03 ॥
आदित्ये विष्णुरित्युक्तम् ।
‘य एष आदित्ये पुरुषः सोऽहमस्मि स एवाहमस्मि’
इत्यादावग्नीनामेवादित्यस्थत्वमुच्यते । अतोऽक्ष्यादित्ययोरैक्याद्
‘य एषोऽन्तरक्षिणि पुरुषो दृश्यत’ इत्यत्राप्यग्निरेवोच्यते । अतः
‘तद्यथा पुष्करफलाश आपो न श्लिष्यन्त
एवमेवंविधि पापं कर्म न श्लिष्यते’
इत्यग्निज्ञानादेव सर्वपापश्लेषान्मोक्षोपपत्तिरिति । अतो ब्रवीति –
ॐ अन्तर उपपत्तेः ॐ ॥ 13-44 ॥
चक्षुरन्तस्थो विष्णुरेव।‘त्रिपादस्यामृतं दिवि’इत्यादिना तस्यैवामृतत्वाद्युपपत्तेः।ब्रह्मशब्दाद्युपपत्तेश्च ।
‘सोऽहमस्मि’ इत्यादि त्वन्तर्याम्यपेक्षया ।
‘अन्तर्यामिणमीशेशमपेक्ष्याहं त्वमित्यपि ।
सर्वे शब्दाः प्रयुज्यन्ते सति भेदेऽपि वस्तुषु’ इति महाकौर्मे ॥ 13 ॥
ॐ स्थानादिव्यपदेशाच्च ॐ ॥ 14-45 ॥
‘तद्यदस्मिन् सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति’
इत्यादिस्थानशक्तिः वामनिर्भामनिरित्याद्यात्मशक्तिश्चोच्यते । तस्य ह्येत्यल्लिङ्गम् ।‘स ईशः सोऽसपत्नः स हरिः स परः स परोवरीयान् यदिदं चक्षुषि सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति स वामनः स भामनः स आनन्दः सोऽच्युतः’ इति चतुर्वेदशिखायाम् ।
‘यत्स्थानत्वादिदं चक्षुरसङ्गं सर्ववस्तुभिः ।
स वामनः परोऽस्माकं गतिरित्येव चिन्तयेत्’ इति वामने ॥ 14 ॥
ॐ सुखविशिष्टाभिधानादेव च ॐ ॥ 15-46 ॥
‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ इति,‘विज्ञानमानन्दं ब्रह्म’
‘आनन्दो ब्रह्मेति व्यजानात्’
इत्यादेस्तस्यैव हि लक्षणम्
‘लक्षणं परमानन्दो विष्णोरेव न संशयः ।
अव्यक्तादितृणान्तास्तु विप्लुडानन्दभागिनः’ इति ब्रह्मवैवर्ते ॥
न च मुख्ये सत्यमुख्यं युज्यते ॥ 15 ॥
ॐ श्रुतोपनिषत्कगत्यभिधानाच्च ॐ ॥ 16-47 ॥
‘स एनान् ब्रह्म गमयति’ इति । न ह्यन्यविद्यया अन्यगतिर्युक्ता ॥16॥
ॐ अनवस्थितेरसम्भवाच्च नेतरः ॐ ॥ 17-48 ॥
जीवस्य जीवान्तरनियामकत्वेऽनवस्थितेः, साम्यादसम्भवाच्च न जीवः । नियमप्रमाणाभावात् । अनीश्वरापेक्षत्वाच्च ॥ 17 ॥
॥ इत्यन्तराधिकरणम् ॥
‘यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः’ इत्याद्यन्तर्याम्युच्यते ।
तत्र च ‘एतदमृतम्’ इत्युक्तममृतत्वमुच्यते । स च‘यस्य पृथिवी शरीरम्’ इत्यादिना सर्वात्मकत्वात् प्रकृतिस्तत्तज्जीवो वा युक्तः ।
न हि विष्णोः पृथिव्यादिशरीरत्वमङ्गीक्रियत इत्यत आह –
ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ ॥ 18-49 ॥
‘यं पृथिवी न वेद’ ‘यः पृथिव्या अन्तर’- , इत्यादिना अधिदैवादिषु तद्धर्मव्यपदेशाद्विष्णुरेवान्तर्यामी ।
स हि ‘न ते विष्णो चायमानो न जातः’।
‘स योऽतोऽश्रुतोऽगतोऽमतोऽनतोऽदृष्टोऽविज्ञातोऽनादिष्टः सर्वेषां भूतामन्तरपुरुष’ इत्यादिनाऽविदितोऽन्तरश्च ॥ 18 ॥
ॐ न च स्मार्तमतद्धर्माभिलापात् ॐ ॥ 19-50 ॥
त्रिगुणत्वादिप्रधानधर्मानुक्तेर्न स्मृत्युक्तं प्रधानमन्तर्यामि ॥19॥
ॐ शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॐ ॥ 20-51 ॥
‘य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा
शरीरं य आत्मानमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः’
‘यो विज्ञाने तिष्ठन् विज्ञानादन्तरो
यं विज्ञानं न वेद यस्य विज्ञानं शरीरं’
इत्युभयेऽपि हि शाखिनो भेदेनैनं जीवमधीयते ।
‘शीर्यते नित्यमेवास्माद्विष्णोस्तु जगदीदृशम् ।
रमते च परो ह्यस्मिन् शरीरं तस्य तज्जगत्’ ॥
इति वचनान्न शरीरत्वविरोधः ॥20॥
॥ इत्यन्तर्याम्यधिकरणम् ॥ 05 ॥
अदृश्यत्वादिगुणा विष्णोरुक्ताः । तत्र –
‘यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुः श्रोत्रं तद् पाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः’इत्युक्त्वा,
‘यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति।
यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् सम्भवतीह विश्वम्’ इत्युक्त्वा तस्माच्च ‘अक्षरात्परतः परः’ इति परः प्रतीयत इत्यतोऽब्रवीत्-
ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ ॥ 21-52 ॥
पृथिव्यादि दृष्टान्तमुक्त्वा‘अक्षरात् सम्भवतीह विश्वम्’ इत्यतः परं तत्परतः पराभिधानात्,‘कूटस्थोऽक्षर उच्यते’ इति स्मृतेश्च प्रकृतेः प्राप्तिः ।
ब्रह्मशब्दात् तत्परतः पराभिध्यानादेव च हिरण्यगर्भस्य ।
‘तमेवं विद्वानमृत इह भवति’ ।
‘तत्कर्म हरितोषं यत् सा विद्या तन्मतिर्यया’
‘अथ द्वे वाव विद्ये वेदितव्ये परा चैवापरा च’।
तत्र यो वेदा यान्यङ्गानि यान्युपाङ्गानि यानि प्रत्यङ्गानि साऽपरा । अथ परा यया स हरिर्वेदितव्यो योऽसावदृश्यो निर्गुणः परः परमात्मा’इत्यादिना तद्धर्मत्वेनावगतपरविद्या¬विषयत्वोक्तेर्विष्णुरेवादृश्यत्वादि गुणकः ॥ 21 ॥
ॐ विशेषणभेदव्यपदेशाभ्यां नेतरौ ॐ ॥ 22-53 ॥
‘यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तप’ इति विशेषणान्न प्रकृतिः ।’ तस्मातेतत्ब्रह्म नाम रूपमन्नं च जायते’ इति भेदव्यपदेशान्न विरिञ्चः ।
‘अपरं त्वक्षरं या सा प्रकृतिर्जडरूपिका ।
श्रीः परा प्रकृतिः प्रोक्ता चेतना विष्णुसंश्रया ॥
तामक्षरं परं प्राहुः परतः परमक्षरम् ।
हरिमैवाखिलगुणमक्षरत्रयमीरितम्’॥
इति स्कान्दे त्र्यक्षराभिधानात्’ अक्षरात् परतः परः’ इत्यपि विशेषणमेव ।
‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’
इति भेदव्यपदेशादीशपदप्राप्तोऽपि न रुद्रः ॥ 22 ॥
ॐ रूपोपन्यासाच्च ॐ ॥ 23 ॥
‘यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्’ इति
“एको नारायण आसीन्न ब्रह्मा न च शङ्करः । स मुनिर्भूत्वासमचिन्तयत् । तत एते व्यजायन्त विश्वो हिरण्यगर्भोऽग्निर्यमो वरुणरुद्रेन्द्राः” इति ।
तस्य हैतस्य परमस्य नारायणस्य चत्वारि रूपाणि शुक्लं रक्तं रौक्मं कृष्णमिति । स एतान्येतेभ्योऽभ्यचीक्लृपत् । विमिश्राणि व्यमिश्रयत् । अत एतादृगेतद्रूपमिति तस्यैव हि रूपाण्यभिधीयन्ते ॥ 32 ॥
॥ इति अदृश्यत्वाधिकरणम् ॥
अदृश्यत्वादिगुणेषु सर्वगतत्वं
‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते’ इति वैश्वानरस्योक्तमित्यत आह –
ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ ॥ 24-55॥
अग्नाविष्ण्वोः साधारणस्य वैश्वानरशब्दस्य विष्णावेव प्रसिद्धात्म शब्देन विशेषणाद्वैश्वानरो विष्णुरेव ॥ 24 ॥
ॐ स्मर्यमाणमनुमानं स्यादिति ॐ ॥25-56॥
‘अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः’
इति स्मर्यमाणमत्रापि स एवोच्यत इत्यस्यानुमापकम् । समाख्यानात् । इति शब्दः समाख्याप्रदर्शकः ॥ 25 ॥
ॐ शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात् पुरुषविधमपि चैनमधीयते ॐ ॥ 26-57 ॥
‘अयमग्निर्वैश्वानरः’‘वैश्वानरमृत आजातमग्निम्’ इत्यादिशब्दः ।
‘वैश्वानरे तद्दुतं भवति’ ‘हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः’ इत्याद्यग्निलिङ्गमादिशब्दोक्तम्।
‘येनेदमन्नं पच्यते’’तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्’
इत्यादिना पाचकत्वेनान्तः प्रतिष्ठानं च प्रतीयते । तस्मान्न विष्णुरिति चेन्न ।
‘अथ हेममात्मानमणोरणीयांसं परतः परं विश्वं हरिमुपासीतेति । सर्वनामा सर्वकर्मा सर्वलिङ्गः सर्वगुणः सर्वकामः सर्व धर्मः सर्वरूप इति’।
‘स य एतमेवमात्मानं विश्वं हरिमारादरमुपास्ते तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेषु देवेषु सर्वषु वेदेषु कामचारो भवति’
इति तत्तन्नामलिङ्गादिना तस्यैव दृष्ट्युपदेशान्महोपनिषदि ॥
अनात्तत्वादनात्मान ऊनत्वाद्गुणराशितः ।
अब्रह्माणः परे सर्वे ब्रह्मात्म विष्णुरेव हि’ ॥
इत्यादिना ‘को न आत्मा किं ब्रह्म’ इत्यारम्भाच्च अन्येषामसम्भवाद्विष्णुरेव वैश्वानरः ।
‘चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत’– इत्यादिना यः पुरुषाख्यो विष्णुरभहितस्तद्विधमेवात्र
‘मूर्दैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मा’
इत्यादिनैनं वैश्वानरमधीयते । चशब्देन सकलवेदतन्त्रपुराणादिषु विष्णुपरत्वं पुरुषसूक्तस्य दर्शयति ।तथा च ब्राह्मे –
‘यथैव पौरुषं सूक्तं नित्यं विष्णुपरायणम् ।
तथैव मे मनो नित्यं भूयाद्विष्णुपरायणम्’ इति ॥
चतुर्वेदशिखायां च –
‘सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्’ इति । ‘एष ह्येवाचिन्त्यः परः परमो हरिरादिरनादिरनन्तोऽनन्तशीर्षोऽनन्ताक्षोऽनन्तबाहुरनन्त गुणोऽनन्तरूपः’ इति । बृहत्संहितायां च –
‘यथा हि पौरुषं सूक्तं विष्णोरेवाभिधायकम् ।
न तथा सर्ववेदाश्च वेदाङ्गानि च नारद’ इत्यादि ॥
‘यस्माद्यज्जायते चाङ्गाल्लोकवेदादिकं हरे ।
तन्नामवाच्यमङ्गं तद्यथा ब्रह्मादिकं मुखम्’
॥ इति नारदीयवचनान्नाभेदोक्तिविरोधः ॥ 26 ॥
ॐ अत एव न देवता भूतं च ॐ ॥ 27-58॥
अग्निवैश्वानरादिशब्दस्तेजसि भूते अग्निदेवतायां च प्रसिद्धोऽप्यतः पूर्वोक्तहेतुत एवात्र न सा तच्चाभिधीयते ॥ 27 ॥
ॐ साक्षादप्यविरोधं जैमिनिः ॐ ॥ 28-59 ॥
नाग्न्यादयः शब्दा अग्न्यादिवाचकास्तथापि साक्षादेवानन्ययोगेन ब्रह्मवाचकैश्यब्दैः व्ववहारार्थमनभिज्ञानाच्चान्यत्र व्यवहारन्तीत्यभ्युपगमेऽविरोधं जैमिनिर्वक्ति ।
‘व्यासचित्तस्थिताकाशादवच्छिन्नानि कानिचित् ।
अन्ये व्ववहरन्त्येतान्यूरीकृत्य गृहादिवत्’ ॥
इति स्कान्दवचनान्न मतानां परस्परविरोधः ॥ 28 ॥
ॐ अभिव्यक्तेरित्याश्मरथ्यः ॐ ॥ 29-60 ॥
तत्र तत्र प्रसिद्धावप्यग्न्यादिषु ब्रह्मणोऽभिव्यक्तेरग्न्यादिसूक्तनियम इत्याश्मरथ्यः ॥ 29 ॥
ॐ अनुस्मृतेर्बादरिः ॐ ॥ 30-61 ॥
तत्र तत्रोक्तस्य विष्णोरग्न्यादिष्वनुस्मर्यमाणत्वात् तन्नियमः – इति बादरिः ॥ 30 ॥
ॐ सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॐ ॥ 31-62 ॥
साक्षादप्यविरोधं वदन् जैमिनिः सूक्तादिनियममग्न्यादि सम्प्राप्त्या मन्यते।
‘तं यथा यथोपासते तदेव भवति’ इति दर्शयति ॥ 31 ॥
न ह्यन्योपासकोऽन्यं प्राप्नुत इति युज्यत इत्यत आह –
ॐ आमनन्ति चैनमस्मिन् ॐ ॥ 32-63 ॥
एनं विष्णुमस्मिन्नग्न्यादावामनन्ति ।
‘योऽग्नौ तिष्ठन्’‘य एष एतस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषः’ इत्यादिना ॥ 32 ॥
॥ इति वैश्वानराधिकरणम् ॥ 07 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये प्रथमाध्यायस्य द्वितीयः पादः ॥ 01-02 ॥

तृतीयः पादः ॥ 01-03 ॥
तत्र चान्यत्र च प्रसिद्धानां शब्दानां विष्णौ समन्वयं प्रायेणास्मिन् पादे दर्शयति ।
विष्णोः परविद्याविषयत्वमुक्तम् । तत्र
‘यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्चसर्वैस्तमेवैकं जानथ आत्मानम्’ इत्यत्र,
‘प्राणानां ग्रन्थिरसि रुद्रोऽमाऽऽविशान्तकः’
‘प्राणेश्वरः कृत्तिवासाः पिनाकी’
इत्यादिना रुद्रस्य प्राणाधारत्वप्रतीतेः ।
‘स एषोऽन्तरश्चरते बहुधा जायमानः’
इति जीवलिङ्गाच्च तयोः प्राप्तिरित्यत उच्यते –
ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ ॥ 01-64 ॥
‘तमेवैकं जानथ आत्मानम्’इत्यात्मशब्दात् द्युभ्वाद्याश्रयो विष्णुरेव ।
‘आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।
न सम्भवन्ति यस्मात् तैर्नैवाप्तागुणपूर्णता’ इति ब्रह्मवैवर्ते ॥ 1 ॥
ॐ मुक्तोपसृप्यव्यपदेशात् ॐ ॥ 02-65 ॥
‘अमृतस्यैष सेतुः’ इति ‘ब्रह्मविदाप्नोति परम्’,‘नारायणं महाज्ञेयं विश्वात्मानं परायणम्’ ,‘मुक्तानां परमा गतिः’ ‘एतमानन्दमयमात्मानमुपसङ्क्रामति’ इत्यादिना तस्यैव मुक्तप्राप्यत्वव्यपदेशात् ।
‘बहुनाऽत्र किमुक्तेन यावच्छ्वेतं न गच्छति ।
योगी तावन्न मुक्तः स्यादेष शास्त्रनिर्णयः’॥ इत्यादित्यपुराणे ॥ 2 ॥
ॐ नानुमानमतच्छब्दात् ॐ ॥ 03-66 ॥
नानुमानात्मकागमपरिकल्पितरुद्रोऽत्र वाच्यः । भस्मधरोग्रत्वादितच्छब्दाभावात् ।
‘सोऽन्तकः स रुद्रः स प्राणभृत् स प्राणनायकः स ईशो यो हरिर्योऽनन्तो यो विष्णुर्यः परः परोवरीयान्’
इत्यादिना प्राणग्रन्थिरुद्रत्वादेर्विष्णोरेवोक्तत्वात् । ब्रह्माण्डे च –
‘रुजं द्रावयते यस्माद्रुद्रस्तस्माज्जनार्दनः ।
ईशानादेव चेशानो महैदेवो महत्त्वतः ॥
पिबन्ति ये नरा नाकं मुक्ताः संसारसागरात् ।
तदाधारो यतो विष्णुः पिनाकीति ततः स्मृतः॥
शिवः सुखात्मकत्वेन शर्वः शंरोधनाद्धरिः ।
कृत्यात्मकमिदं देहं यतो वस्ते प्रवर्तयन् ॥
कृत्तिवासास्ततो देवो विरिञ्चश्च विरेचनात् ।
बृंहणाद्ब्रह्मनामाऽसावैश्वर्यादिन्द्र उच्यते ॥
एवं नानाविधैः शब्दैरेक एव त्रिविक्रमः ।
वेदेषु सपुराणेषु गीयते पुरुषोत्तमः’ इति ।
वामने च –
‘न तु नारायणादीनां नाम्नामन्यत्र सम्भवः ।
अन्यनाम्नां गतिर्विष्णुरेक एव प्रकीर्तितः’ इति ॥
स्कान्दे च –
‘ऋते नारायणादीनि नामानि पुरुषोत्तमः ।
प्रादादन्यत्र भगवान् राजेवर्ते स्वकं पुरम्’इति
‘चतुर्मुखः शतानन्दो ब्रह्मणः पद्मभूरिति ।
उग्रो भस्मधरो नग्नः कपालीति शिवस्य च ।
विशेषनामानि ददौ स्वकीयान्यपि केशवः’इति च ब्राह्मे ॥ 3 ॥
ॐ प्राणभृच्च ॐ ॥ 04-67 ॥
एतैरेव हेतुभिर्न जीवो वायुश्च ।
‘अजायमानो बहुधा विजायत’ इति तस्यैव बहुधा जन्मोक्तेः ॥ 04॥
ॐ भेदव्यपदेशात् ॐ ॥ 05-68 ॥
न चैक्यं वाच्यम् ।
‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानम्’ इति भेद व्यपदेशात् ॥ 05 ॥
ॐ प्रकरणात् ॐ ॥ 06-69 ॥
‘द्वे विद्ये वेदितव्ये’ इति तस्य ह्येतत् प्रकरणम् ॥ 06 ॥
ॐ स्थित्यदनाभ्यां च ॐ ॥ 07-70 ॥
‘द्वासुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्ननन्यो अभिचाकशीति’ इति ईशजीवयोः स्धित्यदनोक्तेः ॥ 07 ॥
॥ इति द्युभ्वाधिकरणम् ॥ 01 ॥
‘प्राणो व अशाया भूयान्’ इत्युक्त्वा’ यो वै भूमा तत्सुखम्’ । इत्युक्तेस्यैव भूमत्वप्राप्तिः ।
‘उत्क्रान्तप्राणान्’ इत्यादिलिङ्गात् प्राणशब्दश्च वायुवाचीत्यतो वक्ति –
ॐ भूमा सम्प्रसादादध्युपदेशात् ॐ ॥ 08-71 ॥
‘सम्प्रसादात्’ पूर्णसुखरूपत्वात् ‘अध्युपदेशात्’ सर्वेशामुपर्युपदेशाच्च विष्णुरेव भूमा ।
‘सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् ।
विश्वं नारायणं देवमक्षरं परमं पदम् ॥
विश्वतः परमां नित्यम्’ इति श्रुतिः
‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति’
इत्यादिना नोत्क्रमणादिलिङ्गविरोधोऽपि ॥08॥
ॐ धर्मोपपत्तेश्च ॐ ॥ 09-72 ॥
सर्वगतत्वादिधर्मोपपतेश्च ॥09॥
इति भूमाधिकरणम् ॥ 02 ॥
अदृश्यत्वादिगुणा विष्णोरुक्ताः’ अदृष्टं द्रष्ट्रश्रुतं श्रोतृ’ इत्यादिना ।
‘अहं सोममाहनसं भिभर्मि’ इत्यादेस्तस्यापि सम्भवान्मध्यमाक्षरस्योक्ता इत्यतो ब्रूते –
ॐ अक्षरमम्बरान्तधृतेः ॐ ॥ 10-73 ॥
‘एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’
इत्यम्बरान्तस्य सर्वस्य धृतेर्ब्रह्मैवाक्षरम् ।
‘य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा’
‘भर्ता सन् भ्रियमाणो बिभर्ति । एको देवो बहुधा निविष्टः ।
यदा भारं तन्द्रयते स भर्तुम् । पराऽस्य भारं पुनरस्तमेति’ ।
‘यस्मिन्निदं सञ्च वि चैदि सर्वं यस्मिन् देवा अधि विश्वे निषेदुः’ इत्यादि श्रुतेः ।
‘पृथिव्यादिप्रकृत्यन्तं भूतं भव्यं भवच्च यत् ।
विष्णुरेको बिभर्तीदं नान्यस्तस्मात् क्षमो धृतौ’इति च स्कान्दे ॥ 10 ॥
ॐ सा च प्रशासनात् ॐ ॥ 11-74 ॥
सा च धृतिः प्रशासादुच्यते ।’ एतस्य वा अक्षरस्य प्रशासने गार्गी सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ इत्यादिना ।
तच्च प्रशासनं विष्णोरेव ।
‘सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि’ ।
‘चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीरवीविपत्’ इत्यादिश्रुतेः ।
‘एकः शास्ता न द्वितीयोऽस्ति शास्ता’।
‘यो हृच्छयस्तमहमिह ब्रवीमि’
‘न केवलं मे भवतश्च राजन्
स वै बलं बलीनां चापरेषाम्’इत्यादेश्च ॥ 11 ॥
ॐ अन्यभावव्यावृत्तेश्च ॐ ॥ 12-75 ॥
‘अस्थूलमनणु’ इत्यादिना स्थूलाण्वादीनामन्यवस्तुस्वभावानां व्यावृत्तेश्च।
‘अस्थूलोऽनणुरमध्यमो मध्यमोऽव्यापको व्यापको
योऽसौ हरिरादिरनादिरविश्वो विश्वः सगुणो निर्गुणः’
इत्यादेर्विष्णोरेव ते धर्माः ।
‘अस्थूलोऽनणुरूपोऽसावविश्वो विश्व एव च ।
विरुद्दधर्मरूपोऽसावैश्वर्यात् पुरुषोत्तमः’ । इति च ब्राह्मे ॥ 12 ॥
॥ इति अक्षराधिकरणम् ॥ 03 ॥
‘सदेव सोम्येदमग्र आसीत्’ इत्यादिना सतः स्रष्टृत्वमुच्यते । तच्चसत्’बहुस्यां प्रजायेय’ इति परिणामप्रतीतेर्न विष्णुः । स हि
‘अविकारः सदा शुद्धो नित्य आत्मा सदा हरिः’
इत्यादिनाऽ तस्यैव हि तल्लक्षणम् ।
बहुत्वं चाविकारेणैवोक्तं’ अजायमानो बहुधा विजायत’ इति ॥ 13 ॥
ॐ ईक्षतिकर्मव्यपदेशात् सः ॐ ॥ 13-76 ॥
‘तदैक्षत’ इतीक्षतिकर्मव्यपदेशात् स एव विष्णुरत्रोच्यते ।
‘नान्योऽतोऽस्ति द्रष्टा’,’नान्यदतोऽस्ति द्रष्ट्रु’
इत्यादिना तस्यै व हि तल्लक्षणम् ।
बहुत्वं चानिकारेणैवोक्तं’अजायमानो बहुधा विजायत’ इति ॥13॥
॥इति सदधिकरणम् ॥ 04 ॥
चन्द्रादित्याद्याधारत्वं विष्णोरुक्तम् । तच्च’अथ यदिदमस्मिन् ब्रह्म पुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशः’……’ किं तदत्र विद्यते…..’
‘उभे अस्मिन् द्यावा पृथिवी अन्तरेव समाहिते ।
उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ ।
विद्युन्नक्षत्राणि’इत्यादिनाऽऽकाशस्य प्रतीयते ।
स चाकाशो न विष्णुः ।
तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम्’ इति श्रुतेरित्यत आह- .
ॐ दहर उत्तरेभ्यः ॐ ॥ 14-77 ॥
‘य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्य स विजिज्ञासितव्यः’
इत्यादिभ्य उत्तरेभ्यो गुणेभ्यो दहरे विष्णुरेव ।
‘योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति’
‘स एष सर्वेभ्यः पाप्मभ्य उदितः’
इत्यादिना विष्णोरेव हि ते गुणाः ।
‘नित्यतीर्णाशनायादिरेक एव हरिः स्वतः ।
अशनायादिकानन्ये तत्प्रसादात् तरन्ति हि’ इति पाद्मे ।
सापेक्षनिरपेक्षयोश्च निरपेक्षं स्वीकर्तव्यम् ॥
‘सत्यकामोऽअपरो नास्ति तमृते विष्णुमव्ययम् ।
सत्यकामत्वमन्येषां भवेत् तत्काम्यकामिता’ इति च स्कान्दे ॥ 14 ॥
ॐ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॐ ॥ 15-78 ॥
अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’
इति सुप्तस्य तद्गतिर्ब्रह्मशब्दश्चोच्यते ।
‘सता सोम्य तदा सम्पन्नो भवति’ इति श्रुतेस्तं हि सुप्तो गच्छिति ।
‘अरश्च ह वैण्यश्चार्णवौ ब्रह्मलोके’ इति लिङ्गं च तथा दृष्टम् ।
‘अरश्च वै ण्यश्च सासमुद्रौ तत्रैव सर्वाभिमतप्रदौ द्वौ’
इत्यादिना तस्यैव हि तल्लक्षणत्वेनोच्यते ॥ 15 ॥
ॐ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॐ ॥ 16-79 ॥
‘एष सेतुर्विधृतिः’ इति धृतेः’एष भूताधिपतिरेण भूतपालः’इत्याद्यस्य महिम्नोऽस्मिन्नुपलब्धेः ।
‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’
‘एतस्य वा अक्षरस्य प्रशासने गार्गी’
‘स हि सर्वाधिपतिः स हि सर्वकालः स ईशः स विष्णुः’
‘पतिं विश्वस्यात्मेश्वरम्’
इत्यादि श्रतिभ्यस्तस्य ह्येष महिमा ।
‘सर्वेशो विष्णुरेवैको नान्योऽस्ति जगतः पतिः’ इति स्कान्दे ॥16॥
ॐ प्रसिद्धेश्च ॐ ॥ 17-80 ॥
‘तत्रापि दह्रं गगनं विशोकस्तस्मिन् यदन्तस्तुदुपासितव्यम्’ इति प्रसिद्धेश्च । तदन्तस्थापेक्षत्वान्न सुषिरश्रुतिविरोधः ॥17॥
ॐ इतरपरामर्शात् स इति चेन्नासम्भवात् ॐ ॥ 18-81 ॥
‘परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्टद्यते’
‘एष आत्मेति होवाच’ इति जीवपरामर्शात् स इति चेन्न ।
तस्य स्वतोऽपहतपाप्मत्वाद्यसम्भवात् ॥ 18 ॥
ॐ उत्तराच्चेदाविर्भूतस्वरूपस्तु ॐ ॥ 19-82 ॥
‘स तत्र पर्येति जक्षन् क्रीडन् रममाणः’ इत्यादुत्तरवचनाज्जीव एवेति चेन्न । तत्र हि परमेश्वरप्रसादादाविर्भूतस्वरूपो मुक्त उच्यते।यत्प्रसादात् स मुक्तो भवति स भगवान् पूर्वोक्तः॥19 ॥
ॐ अन्यार्थश्च परामर्शः ॐ ॥ 20-83 ॥
‘यं प्राप्य स्वेन रूपेण जीवोऽभिनिष्पद्यते स एष आत्मा’ इति परमात्मार्थश्च परामर्शः ॥ 20 ॥
ॐ अल्पश्रुतेरिति चेत् तदुक्तम् ॐ ॥ 21-84 ॥
‘दहर’ इत्यल्पश्रुतेर्नेति चेन्न ।’निचाय्यत्वादेवं व्योमवच्च’ इत्युक्व्तात् ‘एष म आत्माऽन्तर्हृदये ज्यायन्’ इति श्रुत्युक्तत्वाच्च ॥ 21 ॥
॥इति दहराधिकरणम् ॥
अदृश्यत्वादयः परमेश्वरगुणा उक्ताः ।
‘तेषां सुखं शाश्वतं नेतरेषाम्’
‘तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम्’
इत्यादिना ज्ञानिसुखस्याप्यनिर्देश्यत्वमज्ञेयत्वं चोच्यत इत्यतो वक्ति-
ॐ अनुकृतेस्तस्य च ॐ ॥ 22-85 ॥
‘तमेव भान्तमनुभाति सर्वम्’ इत्यनुकृतेः,
‘तस्य भासा सर्वमिदं विभाति’
इति वचनाच्च परमात्मैवानिर्देश्यसुखरूपः ।
न हि ज्ञानिसुखमनुभाति सर्वम् । न च तद्भासा ।
‘अहं तत्तेजो रश्मीन्’ इति नारायणभासा हि सर्वं भाति ॥ 22 ॥
ॐ आपि स्मर्यते ॐ ॥ 23-86 ॥
‘यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्’ इति
‘न तद्भासयते सूर्यो न शशाङ्को न पावकः।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम’ इति च ॥ 23 ॥
॥ इति अनुकृत्यधिकरणम् ॥ 06 ॥
विष्णुरेव जिज्ञास्य इत्युक्तम् । तत्र
‘ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति।
मध्ये वामनमासीनं विश्वेदेवा उपासते’
इति सर्वदेवोपास्यः कश्चित् प्रतीयते । स च
‘एवमेवैष प्राण इतरान् प्राणान् पृथगेव सन्निधत्ते’
‘योऽयं मध्यमः प्राणः’’कुविदङ्ग’
इत्यादिना प्राणव्यवस्थापकत्वान्मध्यमत्वात् सर्वदेवोपास्यत्वाच्च वायुरेवेति प्रतीयते । अतोऽब्रवीत् ॥
ॐ शब्दादेव प्रमितः ॐ ॥ 24-87 ॥
वामनशब्दादेव विष्णुरिति प्रमितः । न हि श्रुतेर्लिङ्गं बलवत् ।
‘श्रुतिर्लिङ्गं समाख्या च वाक्यं प्रकरणं तथा ।
पूर्वं पूर्वं बलीयः स्यादेवमागमनिर्णय’ इति स्कान्दे ॥
तच्चलिङ्गं विष्णोरेव।तस्मैव प्राणत्वोक्तेः’तद्वैत्वं त्वं प्राणो अभवः’ इति ॥ 24 ॥
ॐ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॐ ॥ 25-88 ॥
सर्वगतस्यापि तस्याङ्गुष्ठमात्रत्वं हृद्यवकाशापेक्षया युज्यते । इतरप्राणिनामङ्गुष्ठाभावेऽपि मनुष्याधिकारत्वान्न विरोधः ॥ 25 ॥
॥ इति वामनाधिकरणम् ॥ 07 ॥
मनुष्याणामेव वेदविद्यायामधिकार इत्युक्तम् ।
तिर्यगाद्यपेक्षयैव मनुष्यत्वविशेषणमुक्तं, न तु देवाद्यपेक्षयेत्याह-
ॐ तदुपर्यपि बादरायणः सम्भवात् ॐ ॥ 26-89 ॥
तदुपरि मनुष्याणां सतां देवादित्वप्राप्युपरि । सम्भवति हि तेषां विशिष्टबुद्ध्यादिभावात् । तिर्यगादीनां तदभावादभावः । तेषामपि यत्र विशिष्टबुद्ध्यादिभावस्तत्राविरोधः । निषेदभावात् । दृश्यन्ते हि जरितार्यादयः ॥ 26 ॥
ॐ विरोधः कर्मणेति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॐ॥ 27-90 ॥
मानुषा एव देवादयो भवन्तीति तदुपरीत्युक्तम् । तत्र यदि मनुष्याः सन्तो देवादयो भवन्ति तत्पूर्वं देवताभावाद्देवतोद्दिष्टकर्मणि विरोध इति चेन्न । अनेकेषां देवतापदप्राप्तेर्दर्शनात् ।
‘ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः’ इति ॥27॥
ॐ शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् ॐ ॥ 28-91 ॥
‘वाचा विरूप नित्यया’ इत्यादिश्रुतेराप्त्यनिश्चयान्नित्यत्वापेक्षत्वाच्च मूलप्रमाणस्य, स्वतः प्रामाण्यप्रसिद्धेश्च नित्यत्वाद्वेदस्य तदुदितानां देवानामनित्यत्वात् पुनरन्यभावनियमाभावाच्च शब्दे विरोध इति चेन्न ।
‘सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयत्’
‘यथैव नियमः काले सुरादिनियमस्तथा ।
तस्मान्नानीदृशं क्वापि विश्वमेतद्भविष्यति’ ॥
इत्यादेरत एव शब्दात् तेषां प्रभवनियमात्,महतां प्रत्यक्षात् । यथेदानीं तथोपर्यपि देवा भविष्यन्तीतीतरेषामनुमानाच्च ॥ 28 ॥
ॐ अत एव च नित्यत्वम् ॐ ॥ 29-92 ॥
अत एव शब्दस्य नित्यत्वादेव च देवप्रवाहनित्यत्वं युक्तम् ॥ 29 ॥
ॐ समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च ॐ ॥ 30-93 ॥
अतीतानागतानां देवानां समाननामरूपत्वात् प्राप्तपदानां मुक्त्याऽवृत्तावप्यविरोधः ।
‘यथापूर्वम्’ इति दर्शनात् ।
‘अनादि निधना नित्या वागुत्सृष्टा स्वयम्भुवा ।
ऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः ।
वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः’ इति स्मृतेश्च ॥30॥
ॐ मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॐ ॥ 31-94॥
‘वसूनामेवैको भूत्वा’ इत्यादिना प्राप्यफलत्वात् प्राप्तपदानां देवानां मध्वादिविद्यास्वनधिकारं जैमिनिर्मन्यते ॥ 31 ॥
ॐ ज्योतिषि भावाच्च ॐ ॥ 32-95॥
ज्योतिषि सर्वज्ञत्वे भावाच्च। आदित्यप्रकाशेऽन्तर्भाववत् तज्ज्ञाने सर्ववस्तूनामान्तर्भावात् । नित्यसिद्धत्वाच्च विध्यानाम् ॥ 32 ॥
ॐ भावं तु बादरायणोऽस्ति हि ॐ ॥33-96॥
फलविशेषभावात् प्राप्तपदानामपि देवानां मध्वादिष्वप्यधिकारं बादरायणो मन्यते । अस्ति हि प्रकाशविशेषः ।
‘यावत्सेवा परे तत्वे तावत्सुखविशेषता ।
सम्भवाच्च प्रकाशस्य परमेकमृते हरिम् ॥
तेषां सामर्थ्ययोगाच्च देवानामप्युपासनम्।
सर्वं विधीयते नित्यं सर्वयज्ञादिकर्म च’ इति स्कान्दे ॥
उक्तफलानधिकारमात्रं जैमिनिमतम् । अतो न मतविरोधः ।
‘सर्वज्ञस्यैव कृष्णस्य त्वेकदेशविचिन्तितम् ।
स्वीकृत्य मुनयो ब्रूयुस्तन्मतं न विरुध्यते’ इति ब्राह्मे ॥ 33 ॥
॥इति देवताधिकरणम् ॥ 08 ॥
मनुष्याधिकारत्वादित्युक्तेऽविशेषाच्छूद्रस्यापि’अह हारे त्वा शूद्र’ इति पौत्रायणोक्तेरधिकार इत्यत आह –
ॐ शुगस्य तदनादरश्रवणात् तदाऽऽद्रवणात् सूच्यते हि ॐ ॥34-97॥
नासौ पौत्रायणः शूद्रः, शुचाऽऽद्रवणमेव शूद्रत्वम् ।
‘कम्वर एनमेतत्सन्तम्’ इत्यनादरश्रवणात् ।
‘स ह सञ्ञिहान एव क्षत्तारमुवाच’ इति सूच्यते हि ॥ 34 ॥
ॐ क्षत्रियत्वावगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॐ ॥ 35-98 ॥
अयमश्वतरीरथ इति चित्ररथसम्बन्दित्वेन लिङ्गेन पौत्रायणस्य क्षत्रियत्वावगतेश्च ।
‘रथस्त्वश्वतरीयुक्तश्चित्र इत्यभिधीयते’ इति ब्राह्मे ।
‘यत्र वेदो रथस्तत्र न वेदो यत्र नो रथः’ इति ब्रह्मवैवर्ते ॥ 35 ॥
ॐ संस्कारपरामर्शात् तदभावाभिलापाच्च ॐ ॥ 36-99 ॥
‘अष्टवर्षं ब्राह्मणमुपनयीत, तमध्यापयीत’
इत्यद्ययनार्थं संस्कारपरामर्शात् ।
‘नाग्निर्न यज्ञो न क्रीया न संस्कारो न व्रतानि शूद्रस्य’ इति पैङ्गिश्रुतौ संस्काराभावाभिलापाच्च ।
उत्तमस्त्रीणां तु न शूद्रवत् ।
‘सपत्नीं मे पराधम’ इत्यादिष्वधिकारदर्शनात् ।
संस्काराभावेनाभावस्तु सामान्येन । अस्ति च तासां संस्कारः ।
‘स्त्रीणां प्रदानकर्मैव यथोपनयनं तथा’ इति स्मृतेः ॥ 36 ॥
ॐ तदभावनिर्धारणे च प्रवृत्तेः ॐ ॥ 37-100 ॥
‘नाहमेतद्वेद भो यद्गोत्रोऽहमस्मि’ इति सत्यवचनेन सत्यकामस्य शूद्रत्वाभावनिर्धारणे हारिद्रुमतस्य’नैतदब्राह्मणो विवक्तुमर्हति’ इति तत्संस्कारे प्रवृत्तेश्च ॥ 37 ॥
ॐ श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॐ ॥ 38-101 ॥
‘श्रवणे त्रपुजतुभ्यां श्रोत्रपरिपूरणम् । अध्ययने जिह्वाच्छेदः अर्थावधारणे हृदयविदारणम्’ इति प्रतिषेधात् ।
‘नाग्निर्न यज्ञः शूद्रस्य तथैवाद्ययनं कुतः ।
केवलैव तु शुश्रूषा त्रिवर्णानां विधीयते’ इति स्मृतेश्च ।
विधुरादीनां तूत्पन्नज्ञानत्वात् कश्चिद्विशेषः ॥ 38 ॥
इति अपशूद्राधिकरणम् ॥ 09 ॥
‘यदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम् ।
महद्बयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति’
इत्युद्यतवज्रज्ञानान्मोक्षः श्रूयत इत्यतोऽब्रवीत् ।
ॐ कम्पनात् ॐ ॥ 39-102 ॥
एजतीति कम्पनवचनादुद्यतवज्रो भगवानेव ।
‘को ह्येवान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्’तथा चेतोऽर्पणार्थं हि निगत्यते इति हि श्रुतिः ।
‘प्राणस्य प्राणमुत चक्षुषश्चक्षुः’ इति च
‘नभस्वतोऽपि सर्वाः स्युश्चेष्टा भगवतो हरेः ।
किमुतान्यस्य जगतो यस्य चेष्टा नभस्वतः’ इति स्कान्दे ॥
‘चक्रं चङ्क्रमणादेष वर्जनाद्वज्रमुच्यते ।
खण्डनात् खड्ग एवैष हेतिनामा स्वयं हरिः’ इति ब्रह्म वैवर्ते ॥ 39 ॥
इति कम्पनाधिकरणं ॥ 10 ॥
हृदय आहितं ज्योतिः परमात्मेत्युक्तम् । तत्र’योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः’ इत्यत्र’उभौ लोकावनुसञ्चरति’ इति वचनाज्जीव इति प्रतीयत इत्यत उच्यते –
ॐ ज्योतिर्दर्शनात् ॐ ॥ 40-103 ॥
‘विष्णुरेव ज्योतिर्विष्णुरेव ब्रह्म विष्णुरेवात्मा विष्णुरेव बलं विष्णुरेव यशो विष्णुरेवानन्दः’ इति दर्शनाच्चतुर्वेदशिखायां ज्योतिर्विष्णुरेव ।’प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जद्याति’ इति वचनात् सस्यापि लोकसञ्चरणमस्त्येव ॥ 40 ॥
इति ज्योतिरधिकरणं ॥ 11 ॥
सर्वाधारत्वम् विष्णोरुक्तम् । तच्च’आकाशो वै नाम नामरूपयोर्निर्वहिता’ इत्यत्राकाशस्य प्रतीयते । वै नामेति प्रसिद्धोपदेशात् । प्रसिद्धाकाशश्चाङ्गीकर्तव्य इत्यत उच्यते –
ॐ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॐ ॥ 41-104 ॥
‘ते यदन्तरा तद्ब्रह्म’ इत्यर्थान्तरत्वादिव्यपदेशाकाशो हरिरेव।
‘आवर्णं यतो वाचो निवर्तन्ते’ इत्यादिश्रुतेस्तस्यैव हि तलक्षणम्।
‘अनामासोऽप्रसिद्धत्वादरूपो भूतवर्जनात्’ इति ब्राह्मे ॥ 41 ॥
इति आकाशाधिकरणम् ॥ 12 ॥
असङ्गत्वं परमात्मन उक्तम् । तच्च
‘स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुषः’
इति स्वप्नादिद्रष्टुः प्रतीयते । स च जीवः प्रसिद्धेरित्यतो वक्ति –
ॐ सुषुप्त्युत्क्रान्त्योर्भेदेन ॐ ॥ 42-105 ॥
‘प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेदनान्तरम्’
‘प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जद्याति’
इति भेदव्यपदेशान्न जीवः, पर एवासङ्गः । स्वप्नादिद्रष्ट्रुत्वं च सर्वज्ञत्वात् तस्यैव युज्यते ॥ 42 ॥
॥ इति सुषुप्त्यधिकरणम् ॥ 13 ॥
‘एष नित्यो महिमा ब्राह्मणस्य’ इति ब्राह्मणस्यापि नित्यमहिमा प्रतीयते । स च ब्राह्मणः ‘स वा एष महानज आत्मा’ इत्यजशब्दाद्विरिञ्च इति प्राप्तम् । देवानां च विद्याकर्मणोः पदप्राप्तिः सूचिता तदुपर्यपीति । अतो ब्रवीति –
ॐ पत्यादिशब्देभ्यः ॐ ॥ 43-106 ॥
‘सर्वस्याधिपतिः सर्वस्येशानः …. स वा एष नेति नेति’
इत्यादि शब्देभ्यो नित्यमहिमा विष्णुरेव ।
‘उतामृतत्वस्येशानः । यदन्नेनादतिरोहति’
‘सप्तार्धगर्भाभुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि’
‘स योऽतोऽश्रुतः’
इत्यादि श्रुतिभ्यस्तस्यैव हि ते शब्दाः ॥ 43 ॥
॥इति ब्राह्मणाधिकरणम् ॥ 14 ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्र भाष्ये प्रथमाध्यायस्य तृतीयः पादः
॥ 01-03 ॥
चतुर्थ पादः ॥ 01-04 ॥
॥ ॐ श्रुतिलिङ्गादिभिरन्यत्रैव प्रसिद्धनामापि शब्दानां सामस्त्येन विशेषहेतुभिर्विष्णावेव प्रवृत्तिं दर्शयत्यस्मिन् पादे ।
ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दशर्यति च ॐ
॥ 01-107 ॥
‘तत्तु समन्वयात्’ इति सर्वशब्दानां परमेश्वरे समन्वय उक्तः । तन्न युज्यते । यतो ‘अव्यक्तात् पुरुषः परः’ इति साङ्ख्यानुमानपरिकल्पितं प्रधानमप्येकेषां शाखिनामुच्यत इति चेन्न, तस्यैव पारतन्त्र्याच्छिररीररूपके ऽव्यक्ते विन्यस्तस्य परमात्मन एवाव्यक्तशब्देन गृहीतेः । कप्रत्ययः कुत्सने । परमात्मना एवाव्यक्तॆशब्दः । । तत्तन्त्रत्वेन तच्छरीररूपत्वादितरस्याप्यव्यक्तशब्दः ।
‘तुच्छेनाभ्वपिहितं यदासीत्’ इति दर्शयति च ।
‘अव्यक्तमचलं शान्तं निष्कलं निष्क्रियं परम् ।
यो वेद हरिमात्मानं स भयादनुमुच्यते’ ।
इति पिप्पलादशाखायाम्।
‘अक्षरं ब्रह्म परमम्’ इत्युक्त्वा‘अव्यक्तो ऽक्षर इत्युक्तः’इति वचनाच्च ॥ 01 ॥
ॐ सूक्ष्मं तु तदर्हत्वात् ॐ ॥ 02-108 ॥
सूक्ष्ममेवाव्यक्तश्यब्देनोच्यते । तद्द्यव्यक्ततामर्हति । सूक्ष्मत्वं च मुख्यं तस्यैव ।
‘यत्तत्सूक्ष्मं परमं वेदितव्यं नित्यं पदं वैष्णवं ह्यामनन्ति ।
यत्तल्लोका न विदुर्लोकसारं विन्दन्त्येतत् कवयो योगनिष्ठाः’ ॥
इति च पिप्पलादशाखायाम् ।
मुख्ये च विद्यमाने नामुख्यं युक्तम् ॥ 02 ॥
ॐ तदधीनत्वादर्थवत् ॐ ॥ 03-109 ॥
तददीनत्वाच्चाव्यक्तादीनां तस्यैवाव्यक्तत्वपरावरत्वादिकमर्थवत् ।
‘यदधीनो गुणो यस्य तद्गुणी सोऽभिधीयते ।
यथा जीवः परात्मेति यथा राजा जयीत्यपि’ इति च स्कान्दे ॥ 03 ॥
ॐ ज्ञेयत्वावचनाच्च ॐ ॥ 04-110 ॥
अन्यस्य न वाच्यत्वं युज्यते ॥ 04 ॥
ॐ वदतीती चेन्न प्राज्ञो हि ॐ ॥ 05-111 ॥
‘महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते’
इति ज्ञेयत्वं वदतीती चेन्न । प्राज्ञः परमात्मा हि तत्रोच्यते ।
‘अणोरणीयान्महतो महीयान्’ इति तस्यैव हि महतो महत्वम् ।
सर्वस्मात् परस्य महतोऽपि परत्वं युज्यते ॥ 05 ॥
ॐ प्रकरणात् ॐ ॥ 06-112 ॥
‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमम् पदम्’ इति तस्य ह्येतत् प्रकरणम् ॥ 06 ॥
ॐ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॐ ॥ 07-113 ॥
त्रयाणामेव पितृसौमनस्यस्वर्ग्याग्निपरमात्मनां प्रश्न उपन्यासश्च ।
‘अविज्ञातप्रार्थनं च प्रश्न इत्यभिधीयते’ ॥ इति वचनान्न विरोधः ॥ 07 ॥
ॐ महद्वच्च ॐ ॥ 08-114 ॥
यथा महच्छब्दो महत्तत्वे प्रसिद्धोऽपि परममहत्त्वात् परमात्मन एव मुख्यः एवमितरेऽपि ॥ 08 ॥
ॐ चमसवदविशेषात् ॐ ॥ 09-115 ॥
यथा चमशब्दोऽन्यत्र प्रसिद्धोऽपि ‘इदं तच्छिर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुद्नः’ इति श्रुतेः शिरोवाचकः एवमव्यक्तादिशब्दाः सर्वेऽन्यत्र प्रसिद्धा अपि,
‘नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति’
इत्यादि श्रुतेः परमात्माभिधायका एव । अविशेषाच्छ्चुतेः ॥ 09 ॥
॥ इति अनुमानिकाधिकरणम् ॥ 01 ॥
‘वसन्ते वसन्ते ज्योतिषा यजेत’ इत्यादि कर्माभिधायकस्य क्रमादि विरोधान्न युज्यत इत्यत आहा –
ॐ ज्योतिरुपक्रमात् तु तथा ह्यधीयत एके ॐ॥ 10-116 ॥
ज्योतिरादिकर्मवाचकत्वेन प्रसिद्धाभिधेयोऽपि स एव । ‘एष इमं लोकमभ्यार्चत्’ इत्युपक्रम्य ‘ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषाः एकैव व्याहृतिः प्राण एव प्राण ऋच इत्येव विद्यात्’
इति ह्यधीयते एके ॥ 10 ॥
ॐ कल्पनोपदेशाच्च मध्वादिवदविरोधः ॐ ॥ 11-117 ॥
मधुविद्यादिवत् सर्वशब्दार्थत्वेन परस्य कल्पनोपदेशाच्च न कर्मक्रमादिविरोधः ॥ 11 ॥
॥ इति ज्योतिरुपक्रमाधिकरणम् ॥ 02 ॥
ॐ न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॐ॥ 12-118 ॥
‘यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः’
इत्यादिषु बहुसङ्ख्योपसङ्ग्रहेऽपि न विरोधः ।
तस्यैवाकाशादिषु नानाभावात् तदतिरिक्तस्वरूपत्वाच्च ॥12॥
पञ्च पञ्चजनानाह –
ॐ प्राणादयो वाक्यशेषात् ॐ ॥ 13-119 ॥
‘प्राणस्य प्राणमुत चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो मनः’ इति वाक्यशेषात् ॥ 13 ॥
ॐ ज्योतिषैकेषामसत्यन्ने ॐ ॥ 14-120 ॥
‘तद्देवा ज्योतिषां ज्योतिः’ इत्यनेन काण्वानां पञ्चकम् । । 14 ॥
॥ इति नसङ्ख्योपसङ्ग्रहाधिकरणम् ॥ 03 ॥
अवान्तरकारणत्वेनापि एवोच्यत इति वक्ति-
ॐ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॐ ॥ 15-121 ॥
आकाशादिष्ववान्तरकारणत्वेन स एव स्थितः । यथाव्यपदिष्टस्यैव परस्य ‘य आकाशे तिष्ठन्’ इत्यादिना आकाशादिषूक्तेः ॥ 15 ॥
॥ इति आकाशाधिकरणम् ॥ 04 ॥
सर्वशब्दानां परमात्मवाचकत्वे कथमन्यत्र व्यवहार इत्यतो ब्रवीति-
ॐ समाकर्षात् ॐ ॥ 16-122 ॥
परमात्मवाचिनः शब्दा अन्यत्र समाकृष्य व्ववह्रियन्ते ।
‘परस्य वाचकाः शब्दा समाकृष्येतरेष्वपि ।
व्यवह्रियन्ते सततं लोकवेदानुसारतः’ इति पाद्मे ॥ 16 ॥
तर्हि कथं तेषां शब्दानां जगति प्रसिद्धिः ?-
ॐ जगद्वाचित्वात् ॐ ॥ 17-123 ॥
जगति व्यवहारो लोकस्य । न तु परमात्मनि तथा । अतो जगति प्रसिद्धिः शब्दानाम् ॥ 17 ॥
ॐ जीवमुख्यप्राणलिङ्गादिति चेत् तद्व्याख्यातम् ॐ ॥ 18-124 ॥
तदधीनत्वात् तच्छब्दवाच्यत्वमित्युक्तम् । तज्जीवमुख्यप्राणयोर्लिङ्गम् ।
‘अस्य यदैकां शाखां जीवो जहात्यथ सा शुष्यति’
‘वायुना हि लोका नेनीयन्ते’
इत्यादि श्रुतिभ्य इति चेन्न । उपासात्रैविध्यादिति व्याख्यातत्वात् ॥ 18 ॥
ॐ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॐ ॥ 19-125 ॥
परमात्मज्ञानार्थं कर्मादिकमपि वदतीति जैमिनिः ।
‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ।
तस्म्यै स होवाच द्वे विद्ये वेदितव्ये’
‘कथं नु भगवः स आदेशो भवतीति । यथा सौम्यैकेन मृत्पिण्डेन’
इत्यादिप्रश्नव्याख्यानाभ्याम् ।
एवमपि चैके पठन्ति’यस्तन्न वेद किमृचा करिष्यति’ इति ॥ 19 ॥
ॐ वाक्यान्वयात् ॐ ॥ 20-126 ॥
वाक्यस्याप्येवमन्वयो युज्यते पृथक्पृथक् स्थितस्यापि परमात्मना ॥ 20 ॥
ॐ प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॐ ॥ 21-127 ॥
‘नान्यः पन्था अयनाय विद्यते’ इति प्रतिज्ञासिद्धेर्लिङ्गत्वेन कर्मादिकमुच्यत इत्याश्मरथ्यः । यस्मादेवमनित्यफलमन्यत् तस्मान्नान्यः पन्था इति ॥ 21 ॥
ॐ उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ॐ ॥ 22-128 ॥
उत्क्रमिष्यतो मुमुक्षोः कर्मादिना भाव्यं साधनसाधनत्वेन । अतस्तद्व्यक्तीत्यौडुलोमिर्मन्यते ॥ 22 ॥
ॐ अवस्थितेरिति काशकृत्स्नः ॐ ॥ 23-129 ॥
सर्वं परमात्मन्यवस्थितमिति वक्तुं तद्वचनमिति काशकृत्स्नः ।
‘कृष्णद्द्वैपायनमतादेकदेशविदः परे ।
वदन्ति ते यथाप्रज्ञं न विरोधः कथञ्चन’ इति पाद्मे ॥ 23 ॥
॥ इति समाकर्षाधिकरणम् ॥ 05 ॥
स्त्रीशब्दा अपि तस्मिन्नेवेत्याह-
ॐ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॐ ॥ 24-130 ॥
‘हन्तैतमेव पुरुषं सर्वाणि नामान्यभिवदन्ति यथा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रमभिविशन्त्येवमेवैतानि नामानि सर्वाणि पुरुषमभिविशन्ति’
इति प्रतिज्ञादृष्टान्तानुपरोधात् प्रकृतिशब्दवाच्योऽपि स एव ॥ 24 ॥
ॐ अभिध्योपदेशाच्च ॐ ॥ 25-131 ॥
‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’।
‘महामायेत्यविद्येति नियतिर्मोहिनीति च ।
प्रकृतिर्वासनेत्येवं तवेच्छाऽनन्त कथ्यते’ ॥
इति वचनात् तदभिद्यैव प्रकृतिशब्देनोच्यते ।
‘सोऽभिध्या स जूतिः स प्रज्ञा स आनन्दः’
इति श्रुतेरभिध्या च स्वरूपमेव ।
‘ध्यायति ध्यानरूपोऽसौ सुखी सुखमतीव च ।
परमैश्वर्ययोगेन विरुद्धार्थतयेष्यते’ इति ब्रह्माण्डे ॥ 25 ॥
ॐ साक्षाच्चोभयाम्नानात् ॐ ॥ 26-132 ॥
‘एष स्त्र्येष पुरुष एष प्रकृतिरेष आत्मैष ब्रह्मैष लोक एष अलोको योऽसौ हरिरादिरनादिरनन्तोऽन्तः परमः पराद्विश्वरूपः’
इति पैङ्गिश्रुतौ साक्षादेव प्रकृतिपुरुषत्वाम्नानात् ॥ 26 ॥
ॐ आत्मकृतेः परिणामात् ॐ ॥ 27-133 ॥
प्रकर्षेण करोतीति प्रकृतिरिति योगाच्च । प्रकृतावनुप्रविश्य तां परिणाम्य तत्परिणामकत्वेन तत्र स्थित्वाऽऽत्मनो बहुधाकरणात् ।
‘अथ हैष आत्मा प्रकृतिमनुप्रविश्यात्मानं बहुधा चकार ।
तस्मात् प्रकृतिस्तस्मात् प्रकृतिरित्याचक्षते’ इति भाल्लवेयश्रुतिः ।
‘अविकारोऽपि परमः प्रकृतिं तु विकारिणीम् ।
अनुप्रविश्य गोविन्दः प्रकृतिश्चाभिधीयते’ इति नारदीये ।
नचान्यत् कल्प्यम्, अप्रमाणिकत्वात् ॥ 27 ॥
ॐ योनिश्च हि गीयते ॐ ॥ 28-134 ॥
अव्यवधानेनोत्पत्तिद्वारत्वं प्रकृतित्वम् । तच्चास्यैव गीयते
‘यद्बूतयोनिं परिपश्यन्ति धीराः’ इति ।
‘व्यवधानेन सूतिस्तु पुंस्त्वम् विद्वद्बिरुच्यते ।
सूतिरव्यवधानेन प्रकृतित्वमिति स्थितिः ॥
उभयात्मकसूतित्वाद्वासुदेवः परः पुमान् ।
प्रकृतिः पुरुषश्चेति शब्दैरेकोऽभिधीयते’ इति ब्रह्माण्डे ॥ 28 ॥
॥इति प्रकृत्यधिकरणम् ॥ 06 ॥
ॐ एतेन सर्वे व्याख्याता व्याख्याताः ॐ ॥ 29-135 ॥
एतेन सर्वे शून्यादिशब्दा अपि व्याख्याताः ।
‘एष ह्येव शून्य एष ह्येव तुच्छ एष ह्येवाभाव एष ह्येवाव्यक्तोऽदृश्योऽचिन्त्यो निर्गुणश्च’ इति महोपनिषदि।
‘शमूनं कुरुते विष्णुरदृश्यः सन् परः स्वयम् ।
तस्माच्छून्यमिति प्रोक्तस्तोदनात्तुच्छ उच्यते ॥
नैष भावयितं योग्यः केनचित् पुरुषोत्तमः ।
अतोऽभावं वदन्त्येनं नाश्यत्वान्नाश इत्यपि ॥
सर्वस्य तदधीनत्वात् तत्तच्छब्दाभिधेयता ।
अन्येषां व्यवहारार्थ मिष्यते व्यवहर्तृभिः’
इति महाकौर्मे।
एतेन तदधीनत्वाद्युक्तयुक्तिसमुदायेन ।
‘अवधारणार्थं सर्वस्याप्युक्तस्याध्यायमूलतः ।
द्विरुक्तिं कुर्वते प्राज्ञा अध्यायान्ते विनिर्णये’
इति वराहसंहितायाम् ॥ 29 ॥
एतेन सर्वेव्याख्याताधिकरणम् ॥
॥ इति श्री मद्ब्रह्मसूत्रभाष्ये प्रथमाध्यायस्य चतुर्थ पादः ॥01-04 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिते श्रीमद्ब्रह्मसूत्रभाष्ये प्रथमाध्यायः (समन्वयाध्यायः) ॥ 01 ॥

द्वितीयोऽध्यायः (अविरोधाध्यायः) ॥ 02 ॥
प्रथमः पादः॥ 02-01 ॥
उक्तेऽर्थेऽविरोधं दर्शयत्यनेनाध्यायेन ।
प्रथमपादे युक्त्यविरोधम् । प्रथमतः स्मृत्यविरोधं दर्शयति-
ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ
॥ 01-136 ॥
सर्वज्ञा हि रुद्रादयः । अतस्तेषां वचनविरोधेऽप्रामाण्यमेव स्यादिति चेन्न। अन्यस्मृतीनां विष्ण्वादिभिर्नितरां सर्वर्ज्ञैरेव कृतत्वाच्छृतेराधिक्यं सिद्ध्यति॥ 01 ॥
ॐ इतरेषां चानुपलब्धेः ॐ ॥ 02-137 ॥
इतरेषां तासु स्मृतिषूक्तानां फलादीनां प्रत्यक्षतोऽनुपलब्धेरप्रमाण्यं तासां युक्तम् । चशब्देन भागोपलब्धिरङ्गीकृता ॥ 02 ॥
ॐ एतेन योगः प्रत्युक्तः ॐ ॥ 03-138 ॥
योगफलं प्रत्यक्षोपलभ्यमिति न मन्तव्यम् । उक्ताभ्यासे तत्काल एव फलादृष्टेः ॥ 03 ॥
॥ इति स्मृत्यधिकरणम् ॥ 01 ॥
ॐ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॐ ॥ 04-139 ॥
नैवं श्रुतेस्तदनुसारिस्मृतेश्च तदुक्तानुपलब्देरप्रामाण्यम् । विलक्षणत्वात् नित्यत्वात् तदनुसारित्वाच्च । न हि नित्ये दोषाः कल्प्याः । स्वतश्च प्रमाण्यम् । अन्यथाऽनवस्थितेः ।
‘न चक्क्षुर्न श्रोत्रं न तर्को न स्मृतिर्वेधा ह्येवैनं वेदयन्ति’
इति भाल्लवेयश्रुतेश्च ।
नित्यत्वं च शब्दादेव प्रतीयते’वाचा विरूप नित्यया’ इत्यादेः ।
‘अनादिनिधना नित्या’ इति च स्मृतिः ॥ 04 ॥
ॐ दृश्यते तु ॐ ॥ 05-140 ॥
अधिकारिणां फलम् । भविष्यत्पुराणे च
‘ऋग्यजुः सामाथर्वाख्या मूलरामायणं तथा।
भारतं पञ्चरात्रं च वेदा इत्येव शब्दिताः ॥
पुराणानि च यानीह वैष्णवानि विदो विदुः ।
स्वतः प्रामाण्यमेतेषां नात्र किञ्चिद्विचार्यते ॥
यत् तेषूक्तं न दृश्येत पूर्वकर्मात्र कारणम् ।
नाप्रामाण्यं भवेत् तेषां दृश्यते ह्यधिकारतः॥
इतः प्रामाण्यमन्येषां न स्वतस्तु कथञ्चन ।
अदृश्योक्तौ ततस्तेषामप्रमाण्यं न संशयः’ इति ॥ 05 ॥
॥ इति नविलक्षणत्वाधिकरणं ॥ 02 ॥
‘मृदब्रवीत्’’आपोऽब्रुवन्’ इत्यादिवचनाद्युक्तिविरुद्धो वेद इत्यतोऽब्रवीत् य-
ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ ॥ 06-141 ॥
मृदाद्यभिमानिदेवता तत्र व्यपदिश्यते । तासां चेतरेभ्यो विशिष्टं
सामर्थ्यमनुगतिश्च सर्वत्र । अतस्तासां सर्वमुक्तं युज्यते ॥ 06 ॥
ॐ दृश्यते च ॐ ॥ 07-142 ॥
तासां सामर्थ्यं महद्भिः । भविष्यत्पुराणे च –
‘पृथिव्याद्यभिमानिन्यो देवताः प्रथितौजसः।
अचिन्त्याः शक्तयस्तासां दृश्यन्ते मुनिभिश्च ताः ।
ताश्च सर्वगता नित्यं वासुदेवैकसंश्रयाः’ इति ॥ 07 ॥
॥ इति अभिमान्यधिकरणम् ॥ 03 ॥
‘असदेवेदमग्र आसीत्’’असतः सदजायत’
इत्यादिनाऽसतः कारणत्वोक्तेर्विरोध इत्यतो वक्ति-
ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ ॥ 08-143 ॥
प्रतिषेधमात्रत्वान्नासतः कारणत्वं युक्तम् । असतः कारणत्वाद्युक्तिविरुद्धं वेदवाक्यमित्येतदत्र निषिद्यते । सर्वशब्दानां ब्रह्मणि समन्वयेऽपि’तदधीनत्वादर्थवत्’ इत्यादिनाऽमुख्यत्वेनान्यस्यापि वाच्यत्वेनाङ्गिकारादसतः प्राप्तिः।तथा श्रुतिप्राप्तमेवासन्मतमत्र निषिध्यते ।समयस्योपरि निषेधात् । अर्थाद्युक्तिविरोधोऽपि निराक्रियते ॥ 08 ॥
ॐ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॐ ॥ 09-144 ॥
असत उत्पत्तौ प्रलयेऽपि सर्वासत्त्वमेव स्यात् ॥ 09 ॥
ॐ न तु दृष्टान्तभावात् ॐ ॥ 10-145 ॥
प्रलये सर्वासत्त्वं भावे दृष्टान्तभावादेव न युज्यते।सत उत्पत्तिः, सशेषविनाशश्च हि लोके दृष्टः॥10 ॥
ॐ स्वपक्षदोषाच्च ॐ ॥ 11-146 ॥
दृष्टान्ताभावादेव ॥ 11 ॥
ॐ तर्काप्रतिष्ठानादप्यन्यथाऽनुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ॐ
॥ 12-147 ॥
एतावानेव तर्क इति प्रतिष्ठापकप्रमाणाभावादुक्तादन्यथाऽप्यनुमेयमिति चेन्न, एवं सति प्रमाणसिद्धेऽपि मोक्षेऽन्यथाऽनुमेयत्वादनिर्मोक्ष प्रसङ्गः । अतो यावत्प्रमाणसिद्धं तावदेवाङ्गीकर्तव्यम् । नातोऽन्यच्छङ्क्यम् ।
‘यावदेव प्रमाणेन सिद्धं तावदहापयन् ।
स्वीकुर्यान्नैव चान्यत्र शङ्क्यं मानमृते क्वचित्’ इति वामने ॥ 12 ॥
ॐ एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॐ ॥ 13-148 ॥
एतेन दृष्टान्तभावेनाभावेन चावशिष्टा अप्यपरिग्रहा विरुद्धसिद्धान्ता अकर्तृकत्वाचेतनकर्तृकत्वजीवकर्तृकत्वादयोऽपि ।
‘अकस्माद्दीदमाविरासीदकस्मात् तिष्ठत्यकस्माल्लयमभ्युपैति’
‘प्रधानादिदमुत्पन्नं प्रधानमधितिष्ठति ।
प्रधाने लयमभ्येति न ह्यन्यत् कारणं मतम्’॥
‘जीवाद्भवन्ति भूतानि जीवे तिष्ठन्त्यचञ्चलाः ।
जीवे तु लयमृच्छन्ति न जीवात् कारणं परम्’
इत्यादि श्रुतिप्राप्ता निराकृताः । यथा दुःखादिषु जीवस्यास्वातन्त्र्यमेवमन्येष्वपीति दृष्टान्तः । श्रुतिगतिस्तु ब्रह्मवाचकत्वेन प्रदर्शिता । यत्रान्यवाचकत्वेऽप्यविरोधस्तत्रान्यदप्यमुख्यतयोच्यते, यत्र विरोधस्तत्र ब्रह्मैवोच्यत इति नियमः ॥ 13 ॥
॥ इति असदधिकरणम् ॥ 04 ॥
ॐ भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत् ॐ ॥ 14-149 ॥
‘कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति’
इति मुक्तजीवस्य परापत्तिरुच्यते । अतस्तयोरविभागः । अतः पूर्वमपि स एव । न हन्यस्यान्यत्वं युज्यत इति चेन्न । स्याल्लोकवत् । यथा लोके उदके उदकान्तरस्यैकीभावव्यवहारेऽप्यन्तर्भेदोऽस्त्येव, एवं स्यादत्रापि । तथा च श्रुतिः
‘यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति’ इति ।
स्कान्दे च –
‘उदकं तूदके सिक्तं मिश्रमेव यथा भवेत् ।
न चैतदेव भवति यतो वृद्धिः प्रदृश्यते ॥
एवमेव हि जीवोऽपि तादात्म्यं परमात्मना ।
प्राप्तोऽपि नासौ भवति स्वातन्त्र्यादिविशेषणात्’ इति ।
‘ब्रह्मेशानादिभिर्देवैर्यत् प्राप्तुं नैव शक्यते ।
तद्यत्स्वभावः कैवल्यं स भवान् केवलो हरे’ इति च ।
‘न ते महित्वमन्वश्नुवन्ति’’न ते विष्णो जायमानो न जातः’ इत्यादि च फलत्वेऽपि युक्तिविरोधेऽन्तर्भावादत्रोक्तम् ॥ 14 ॥
॥ इति भोक्त्राधिकरणम् ॥ 05 ॥
ॐ तदनन्यत्वमारम्भणशब्दादिभ्यः ॐ ॥ 15-150 ॥
स्वतन्त्र बहुसाधना सृष्टिर्लोके दृष्टा । नैवं ब्रह्मणः । स्वरूपसामर्थ्यादेव तस्य सृष्टिः ।
‘किं स्विदासीदधिष्ठानमारम्भणं कतमत्स्वित्कथाऽऽसीत्’
इति ह्याक्षेपः । अधिष्ठानाद्यनुक्तेः । आदिशब्दाद्युक्तिभिश्च ।
‘परतन्त्रो ह्यपेक्षेत स्वतन्त्रः किमपेक्ष्यते ।
साधनानां साधनत्वं यतः किं तस्य साधनैः’ इत्यादिभिः ॥ 15 ॥
ॐ भावे चोपलब्देः ॐ ॥ 16-151 ॥
स्वतन्त्रसाधनभावे प्रमाण्यैरुपलभ्येत ।
‘अनुक्तं पञ्चभिर्वैदैर्न वस्त्वस्तिकुतश्चन ।
अतो वेदत्वमेतेषां यतस्ते सर्ववेदकाः’ इति स्कान्दे ॥ 16 ॥
‘अद्ब्यः सम्भूतः पृथिव्यैरसाच्च’ इत्यादिना साधनान्तरप्रतीतेः कथमनुपलब्धिरित्यत आह ।
ॐ सत्वाच्चावरस्य ॐ ॥ 17-152 ॥
अवरस्य तदधीनस्य साधनस्य सत्त्वात् ।
‘काल आसीत् पुरुष आसीत् परम आसीत् तद्यदासीत् तदावृतमासीत् ततधीनमासीदथ ह्येक एव परम आसीद्यस्यैतदासीन्न ह्येतदासीत्’ इति हि काषायणश्रुतिः ॥ 17 ॥
ॐ असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॐ ॥ 18-153॥
‘नासदासीन्नो सदासीत्’ इति सर्वस्यासत्त्वव्यपदेशान्नेति चेन्न । अव्यक्तत्वपारतन्त्र्यादिधर्मान्तरेण हि तदुच्यते ।’तम आसीत्’ इति वाक्यशेषात् । न चान्यत्र प्रमाणमस्ति ।
‘अजे ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः’।
‘अनाद्यनन्तं जगदेतदीदृक् प्रवर्तते नात्र विचार्यमस्ति ।
न चान्यथा क्वाऽपि च कस्य चेदमभूत् पुरा नापि तथा भविष्यत्’॥
‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्’।
‘असत्यमाहुर्जगदेतदज्ञाः शक्तिं हरेर्ये न विदुःपरां हि’
‘यः सत्यरूपं जगदेतदीदृक् सृष्ट्वा त्वभूत् सत्यकर्मा महात्मा’।
‘अथैनमाहुः सत्यकर्मेति, सत्यं ह्येवेदं विश्वमसौ सृजते।
अथैनमार्हुनित्यकर्मेति नित्यं ह्येवासौ कुरुते’।
‘यच्चिकेत सत्यमित् तन्न मोघम्’ इत्यादि श्रुतिस्मृतिभ्यः ।
‘परस्परविरोधे तु वाक्यानां यत्र युक्तता।
तथैवार्थ परिज्ञेयो नावाक्या युक्तिरिष्यते’ इति बृहत्संहितायाम् ।
‘विरुद्धवत् प्रीतीयन्त आगमा यत्र वै मिथः ।
तत्र दृष्टानुसारेण तेषामर्थोऽन्ववेक्ष्यते’ इति च ।
‘ईशोऽनीशो जगन्मिथ्या न पूज्यो गुरुरित्यपि ।
इत्यादिवद्विरुद्धानि वचनान्यथ युक्तयः ।
प्रमाणैर्बहुभिर्ज्ञेया आभासा इति वैदिकैः ॥
वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना ।
अन्येषां तु विरुद्धानां विप्रलम्भोऽथवा भ्रमः’ इति भागवत तन्त्रे ।
‘शास्त्रार्थयुक्तोऽनुभवः प्रमाणं तूत्तमं मतम् ।
मध्यमं त्वागमो ज्ञेयः प्रत्यक्षमधमं स्मृतम् ॥
प्रत्यक्षयोरागमयोर्विरोधे निश्चयाय तु ।
अनुमाद्या न स्वतन्त्राः प्रमाणपदवीं ययुः’
इति पुरुषोत्तमतन्त्रे॥ 18 ॥
ॐ युक्तेः शब्दान्तराच्च ॐ ॥ 19-154 ॥
‘साधनानां साधनत्वं यदात्माधीनमिष्यते ।
तदा साधनसम्पत्तिरैश्वर्यद्योतिका भवेत्’
इत्यादेः साधनान्तरेण सृष्टिर्युक्ता ।
‘अद्भ्यः सम्भूतो हिरण्यगर्भ इत्यष्टौ’ इत्यादिशब्दान्तराच्च ॥ 19 ॥
ॐ पटवच्च ॐ ॥ 20-155 ॥
साधनान्तरेण हि पटादिसृष्टिर्दृष्टा ॥ 20 ॥
ॐ यथा प्राणादिः ॐ ॥ 21-156 ॥
तच्च साधनजातां तेनानुप्रविष्टमेव यथा शरीरेन्द्रियादिः।
‘प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः ।
क्षोभयामास भगवान् सृष्ट्यर्थं जगतो विभुः’ इति कौर्मे ॥ 21 ॥
॥ इति आरम्भणाधिकरणम् ॥
जीवकर्तृत्वपक्षः श्रुतिप्राप्तो विस्तरान्निराक्रियते ।
ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ ॥ 22-157 ॥
जीवकर्तृत्वपक्षे हिताकरणमहितकरणं च न स्यात् ॥ 22 ॥
ॐ अधिकं तु भेदनिर्देशात् ॐ ॥ 23-158 ॥
न च ब्रह्मणः श्रमचिन्तादिधोषप्राप्तिः ।अधिकशक्तित्वात् ।
‘श्रोता मन्ता द्रष्टाऽऽदेष्टाघोष्टा विज्ञाता
प्रज्ञता सर्वेषां भूतानामन्तरपुरुषः’
‘एष त आत्मा सर्वान्तरः’
‘योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति’
इत्यादिविशेषनिर्देशात् ॥ 23 ॥
ॐ अश्मादिवच्च तदनुपपत्तिः ॐ ॥ 24-159 ॥
चेतनत्वेऽप्यश्मादिवदस्वतन्त्रत्वात् स्वतः कर्तृत्वानुपपत्तिर्जीवस्य।
‘यथा धारुमयीं योषां नरः स्थिरसमाहितः।
इङ्गयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः’ इति भारते ॥ 24 ॥
ॐ उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॐ ॥ 25-160 ॥
जीवेन कार्योपसंहारदर्शनात् तस्य कर्तृत्वमिति चेन्न । यथा गोषु क्षीरं दृश्यमानमपि प्राणादेव जायते ,
‘अन्नं रसादिरूपेण प्राणः परिणयत्यसौ’ इति वचनात् ।
एवं जीवे दृश्यमानोऽपि कार्योपसंहारोऽस्वातन्त्र्यात् परकृत एव ।
‘य आत्मानमन्तरो यमयति’ ।
‘नाहं कर्ता न कर्ता त्वं कर्तायस्तु सदा प्रभुः’ इत्यादेः ॥ 25 ॥
ॐ देवादिवदपि लोके ॐ ॥ 26-161 ॥
न च कर्तुरीश्वरस्यादृष्टिविरोधः । देवादिवददृश्यत्वशक्तियोगात् । लोकेऽपि पिशाचादीनां तादृशी शक्तिर्दृष्टा किम्वीश्वरस्य ।
‘न युक्तियोगाद्वाक्यानि निराकार्याण्यपि क्वचित् ।
विरोध एव वाक्यानां युक्तयो न तु युक्तयः’
इति बृहत्संहितायाम् ॥ 26 ॥
ॐ कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॐ ॥ 27-162 ॥
अयं च दोषो जीवकर्तृत्वपक्षे । एकेनाङ्गुलिमात्रेण प्रवर्तमानोऽपि पूर्णप्रवृत्तिः स्यात् । न च तद्युच्यते, सामर्थैकदेशदर्शनात् । न चैकदेशेन, निरवयवत्वात् ।
‘अथ यः स जीवः स नित्यो निरवयवो ज्ञात्वाऽज्ञाता
सुखी दुःखी शरीरेन्द्रियस्थः’ इति भाल्लवेयश्रुतिः ।
न चोपाधिकृतोंऽशः स एवांश उपहित इति, द्वित्वापेक्षत्वात् न चान्यत् कल्प्यम् ।
‘यद्धि युक्त्या विरुध्येत तदीशकृतमेव हि’ इति गत्यन्तरोक्तेः ॥ 27 ॥
॥इति इतरव्यपदेशाधिकरणम् ॥ 07 ॥
ॐ श्रुतेस्तुशब्दमूलत्वात् ॐ ॥ 28-163 ॥
न चेश्वरपक्षेयं विरोधः ।
‘योऽसौ विरुद्धोऽविरुद्धो मनुरमनुरवाग्वागिन्द्रोऽनिन्द्रः
प्रवृत्तिरप्रवृत्तिः स परः परमात्मा’ इति पैङ्ग्यादिश्रुतेरेव ।
शब्दमूलत्वाच्च न युक्तिविरोधः ।
‘यद्वाक्योक्तं न तद्युक्तिर्विरोद्धुं शक्नुयात् क्वचित् ।
विरोधे वाक्ययोऽ क्वापि किञ्चित् साहाय्यकारणम्’ इति पुरुषोत्तमतन्त्रे ॥ 28 ॥
ॐ आत्मनि चैवं विचित्राश्च हि ॐ ॥ 29-164 ॥
परमात्मनो विचित्राश्च शक्तयः सन्ति, नान्येषाम् ।
विचित्र शक्तिः पुरुषः पुराणो न चान्येषां शक्तयस्तादृशाः स्युः ।
एको वशी सर्वभूतान्तरात्मा सर्वान् देवानेक एवानुविष्टः’॥
इति श्वेताश्वतरश्रुतिः ॥ 29 ॥
ॐ स्वपक्षदोषाच्च ॐ ॥ 30-165 ॥
ये दोषा इतरत्रापि ते गुणाः परमे मताः ।
न दोषः परमे कश्चिद्गुणा एव निरन्तराः’ ।
इति वचनाज्जीवपक्ष एव दोषो न परपक्षे ।
‘अथ यः सदोषः साञ्जनः सजनिः स जीवोऽथ
यः स निर्दोषो निष्कलः सगुणः परः परमात्मा’
इति काषायणश्रुतिः ॥ 30 ॥
ॐ सर्वोपेता च तद्दर्शनात् ॐ ॥ 31-166 ॥
‘सर्वैर्युक्ताशक्तिभिर्देवता सा परेति यां प्राहुरजस्रशक्तिम् ।
नित्यानन्दा नित्यरूपाऽजरा च या शाश्वताऽत्मेति च यां वदन्ति’
इति चतुर्वेदशिखायाम् ॥
अतो न केवलं विचित्रशक्तिः, किन्तु सर्वशक्तिरेव ॥ 31 ॥
ॐ विकरणत्वान्नेति चेत् तदुक्तम् ॐ ॥ 32-167 ॥
न च करणाभावादनुपपत्तिरिति युक्तम् ।
‘आपाणिपादो जवनो गृहीता पश्यत्यचक्षुः स श्रुणोत्यकर्णः।
स वेत्ति वेद्यं न च तस्यास्ति वेत्तातमाहुरग्र्यं पुरुषं महान्तम्’।
‘न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते ।
पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’
इत्यादि श्रतिभ्यः
‘सर्वोपेता च’ इति सामान्यपरिहारेऽपि विशेषयुक्त्यर्थं पुनराशङ्का ॥ 32 ॥
॥ इति शब्दमूलत्वाधिकरणं ॥ 08 ॥
यत्प्रयोजनार्थं सृष्ट्यादिस्तदूनत्वादपूर्णतेत्यत आह –
ॐ न प्रयोजनवत्त्वात् ॐ ॥ 33-168 ॥
‘अथैष एव परम आनन्दः’ इत्यादिना कृतकृत्यत्वान्न प्रयोजनाय सृष्टिः किन्तु ॥
ॐ लोकवत्तुलीलाकैवल्यम् ॐ ॥ 34-169 ॥
यथा लोके मत्तस्य सुखोद्रेकादेव नृत्तगानादिलीला न तु प्रयोजनापेक्षया, एवमेवेश्वरस्य । नारायणसंहितायां च-
‘सृष्ट्यादिकं हरिर्नैव प्रयोजनपेक्ष्य तु ।
कुरुते केवलानन्दाद्यथा मत्तस्य नर्तनम् ॥
पूर्णानन्दस्य तस्येह प्रयोजनमतिः कुतः ।
मुक्ता अप्याप्तकामाः स्युः किमु तस्याखिलात्मनः’ इति ॥
‘देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा’ इति च श्रुतिः ॥ 34 ॥
॥ इति नप्रयोजनाधिकरणम् ॥ 09 ॥
सर्वकर्तृत्वे वैषम्यनैर्घृण्ये तस्येत्यतो वक्ति-
ॐ वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति ॐ ॥ 35-170॥
कर्मापेक्षया फलदातृत्वान्न तस्य वैषम्यनैर्घृण्ये ।
‘पुण्येन पुण्यं लोकं नयति पापेन पापम्’ इति श्रुतिः ॥ 35 ॥
ॐ न कर्माविभागादिति चेन्नानादित्वात् ॐ ॥ 36-171 ॥
यदपेक्षयाऽसौ फलं ददाति न तत् कर्म ।
‘एष ह्येवैनं साधुकर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष उ एवासाधुकर्म कारयति तं यमधो निनीषते’
इति श्रुतेः कर्मणोऽपि तन्निमित्तत्वादिति चेन्न । तस्यापि पूर्वकर्म कारणमित्यनादित्वात् कर्मणः । भविष्यत्पुराणे च –
‘पुण्यपापादिकं विष्णुः कारयेत् पूर्वकर्मणा ।
अनादित्वात् कर्मणश्च न विरोधः कथञ्चन’ इति ॥ 36 ॥
ॐ उपपद्यते चाप्युपलभ्यते च ॐ॥ 37-172 ॥
न च कर्मापेक्षत्वेनेश्वरस्यास्वातन्त्र्यम् ।
‘द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया’ ॥
इत्यादिना कर्मादीनां सत्त्वस्यापि तदधीनत्वात् । न च पुनर्वैषम्याध्यापेते न दोषः । तादृशवैषम्यादेरुपलभ्यमानत्वात् ।
‘स कारयेत् पुण्यमथापि पापं न तावता दोषवानीशिताऽपि ।
ईशो यत्रो गुणदोषादिसत्त्वे स्वयं परोऽनादिरादिः प्रजानाम्’
इति चतुर्वेदशिखायाम् ॥ 37 ॥
॥ इति वैषम्यनैर्घृण्याधिकरणम् ॥ 10 ॥
अवशिष्टैरुपसंहरति-
ॐ सर्वधर्मोपपत्तेश्च ॐ ॥ 38-173 ॥
‘गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्र शङ्का ।
चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः ।’
इति सर्वगुणोपपत्तिश्रुतेश्च ॥ 38 ॥
॥ इति सर्वधर्मोपपत्यधिकरणम् ॥ 11 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिते श्रीमद्ब्रह्मसूत्रभाष्ये द्वितीयाध्यायस्य प्रथमः पादः ॥ 02-02 ॥
द्वितीय पादः ॥ 02-02 ॥
‘इतरेषां चानुपलब्धेः’ इति सामान्यतो निराकरणं समयानां कृतम्।विशेषतो निराकरोत्यस्मिन् पादे ।
अचेतनप्रवृत्तिमतं प्रथमतो निराकरोति –
ॐ रचनानुपपत्तेश्च नानुमानम् ॐ ॥ 01-174 ॥
अचेतनस्य स्वतः प्रवृत्त्यनुपपत्तेर्नानुमानपरिकल्पितं प्रधानं जगत्कर्तृ । चशब्देन प्रमाणाभावं दर्शयति ॥ 01 ॥
ॐ प्रवृत्तेश्च ॐ ॥ 02-175 ॥
चेतनस्य स्वतः प्रवृत्तिदर्शनाच्च ॥ 02 ॥
ॐ पयोऽम्बुवच्चेत् तत्रापि ॐ ॥ 03-176 ॥
पयोऽम्बुवदचेतनस्यापि प्रवृत्तिर्युज्यत इति न युक्तम् ।
‘एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते ,
याश्चश्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां य दिशमनु’
‘एतेन ह वाव पयो मण्डं भवति’
इत्यादिना तत्रापीश्वरनिमित्तप्रवृत्तिश्रुतेः ॥ 03 ॥
ॐ व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॐ ॥ 04-177 ॥
‘न ऋते त्वत्क्रियते किञ्चनारे’ इति तद्व्यतिरेकेण कस्यापि कर्मणोऽनवस्थितेरनपेक्षितमेवाचेतनवादिमतम् ॥ 04 ॥
॥ इति रचनानुपपत्त्यधिकरणम् ॥ 01 ॥
सेश्वरसाङ्ख्यमतं निराकरोति । यथा पृथिव्या एव पर्जन्यानुगृहीतं तृणादिकमुत्पद्यते, एवं प्रधानादीश्वरानुगृहीतं जगदित्यतो ब्रवीति-
ॐ अन्यत्राभावाच्च न तृणादिवत् ॐ॥ 05-178 ॥
‘यच्च किंचित् जगत्सर्वं दृश्यते श्रूयतेऽपि वा ।
अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणः स्थितः’
‘ब्रह्मण्येवेदमाविरासीद्ब्रह्मणि स्थितं ब्रह्मण्येव लयमभ्येति ।
ब्रह्मैवाधस्ताद्ब्रह्मैवोपरिष्ठाद्ब्रह्म मध्यतो ब्रह्म सर्वतः’ ॥
‘ब्रह्मैवेदं सर्वम्’
इत्यादिश्रुतिभ्योऽन्यत्र जगतोऽभावात् तृणादीनां पर्जन्यवन्नानुग्राहकत्वमात्रमीश्वरस्य ।
‘स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम् ।
अनामरूपात्मनि रूपनामनी विधित्समानोऽनुससार शास्तिकृत्’
इति भागवते ।
‘द्रव्यं कर्म च’ इत्यादि च । चशब्देन प्रकृतिसत्तादिप्रदत्वं चाङ्गीकृतम् ॥5॥
॥ इति अन्यत्रभावाधिकरणम् ॥ 02 ॥
लोकायतिकपक्षं निराकरोति
ॐ अभ्युपगमेऽप्यर्थाभावात् ॐ ॥ 06-179 ॥
यस्य धर्माधर्मौ न स्तः तत्सिद्धान्ते किं प्रयोजनम् । अतः स्वव्याहतेरेवोपेक्ष्यः ॥ 06 ॥
॥ इति अभ्युपगमाधिकरणम् ॥ 02 ॥
पुरुषोपसर्जनप्रकृतिकर्तृवादमपाकरोति –
ॐ पुरुषाश्मवदिति चेत् तथाऽपि ॐ ॥ 07-180 ॥
यथा चेतनसम्बन्धादचेतनमेव शरीरमश्मादिकमादाय गच्चति, एवमचेतनाऽपि प्रकृतिः पुरषसम्बन्धात् प्रवर्तत इति चेन्न । ‘न ऋते त्वत्क्रियते’ इति तत्रापि तथात्वे दृष्टान्ताभावात् ॥ 07 ॥
ॐ अङ्गीत्वानुपपतेः ॐ ॥ 08-181 ॥
शरीरप्रवृत्तौपुरषस्याङ्गित्वात् ।
‘अङ्गमङ्गी समादाय यथाकार्यं करोत्यसौ’ इत्यङ्गित्वव्यवहारोऽनुपपन्न ॥ 08 ॥
॥ इति पुरुषाश्माधिकरणम् ॥ 04 ॥
प्रकृत्युपसर्जनपुरुषकर्तृवादमपाकरोति –
ॐ अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात् ॐ ॥ 09-182 ॥
शरीरसम्बन्धात् पुरुषः प्रवर्तत इत्यङ्गीकारेऽपि स्वतस्तस्यासामर्थ्याच्चरीरसम्बन्ध एवायुक्तः ॥ 09 ॥
ॐ विप्रतिषेधाच्चासमञ्जसम् ॐ ॥ 10-183 ॥
सकलश्रुतिस्मृतियुक्तिविरुद्धत्वाच्चानीश्वरमतमसमञ्जसम् ।
‘श्रुतयः स्मृतयश्चैव युक्तयश्चेश्वरं परम् ।
वदन्ति तद्विरुद्धं यो वदेत् तस्मान्न चाधमः’ इति पाद्मे ॥ 10 ॥
॥ इति अन्यथानुमित्यधिकरणम् ॥ 05 ॥
परमाण्वारम्भवादमपाकरोति –
ॐ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॐ ॥ 11-184 ॥
महत्त्वाद्दीर्घत्वाच्च यथा कार्यमुत्पद्यते, एवं ह्रस्वत्वाद् पारिमण्डल्याच्चोत्पद्येत । वाशब्दादन्यथैतयोरपि न स्यात्, विशेषकारणाभावात् ॥ 11 ॥
ॐ उभयथाऽपि न कर्मातस्तदभावः ॐ ॥ 12-185 ॥
ईश्वरेच्छाया नित्यत्वे तद्भावेऽपि परमाणुकर्माभावान्नेदानीमपि स्यात् । अनित्यत्वे तत्कारणाभावात् । अतः परमाणुचेष्टाभावात् तत्कार्याभावः । वैदिकेश्वरस्य तु वेदेनैव सर्वशक्तित्वोक्तेः सर्वमुपपद्यते । स्वत एव काले विशेषाङ्गीकृतेश्च ॥ 12 ॥
ॐ समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॐ ॥ 13-186 ॥
कार्यकारणादीनां समवायसम्बन्दाङ्गीकारात् तस्य च भिन्नत्वसाम्यात् समवायान्तरापेक्षायामनवस्थितिः। न च तत्प्रमाणम् । प्रथमसम्बन्धा सिद्धैव च तदसिद्धिः । स्वनिर्वाहकत्वे समवाय एव न स्यात् ॥ 13 ॥
ॐ नित्यमेव च भावात् ॐ ॥ 14-187 ॥
नित्यत्वाच्च परमाणूनां समवायस्य च तस्यैव जनित्वाङ्गीकारान्नित्यमेव कार्यं स्यात् । अन्यथा न कदाचित् ॥ 14 ॥
ॐ रूपादिमत्त्वाच्चविपर्ययो दर्शनात् ॐ ॥ 15-188 ॥
रूपादिमत्त्वाच्च परमाणूनामनित्यत्वम् । तथा दृष्टत्वाल्लोके ॥ 15 ॥
ॐ उभयथा च दोषात् ॐ ॥ 19-189 ॥
नित्यत्वे परमाणूनां तद्वत् सर्वनित्यत्वं स्यात् । विशेषप्रमाणाभावात् अनित्यत्वे कारणाभावात् तदुत्पत्त्यभावः ॥ 16 ॥
ॐ अपरिग्रहाच्चात्यन्तमनपेक्षा ॐ ॥ 17-190। ।
सकलश्रुतिस्मृत्यपरिगृहीतत्वाच्चातिशयेनानपेक्षता ।
‘आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थकम्’ इति मोक्षधर्मे ॥ 17 ॥
॥ इति वैशेषिकाधिकरणम् ॥ 06 ॥
परमाणुपुञ्जवादिमतं निराकरोति-
ॐ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॐ ॥ 18-191 ॥
समुदायस्यैकहेतुकत्वं न युज्यते । उभयहेतुकेऽप्यन्योऽन्याश्रयात् तदप्राप्तिः । अन्यथा सर्वदा समुदायसत्त्वं स्यात् ॥ 18 ॥
ॐ इतरेतरप्रत्ययात्वादिति चेन्न उत्पत्तिमात्रनिमित्तत्वात् ॐ ॥ 19-192 ॥
सर्वदा विद्यमानोऽपि समुदाय परस्परापेक्षया व्यवह्रियत इति चेन्न । एकं कार्यमुत्पाद्य तस्य विनष्टत्वात् परस्परप्रत्ययस्तदपेक्षया व्यवहार इति न युज्यते । कारणे सति कार्यं भवत्येवेति हि तस्य नियमः ॥ 19 ॥
ॐ उत्तरोत्पादे च पूर्वनिरोधात् ॐ ॥ 20-193 ॥
कार्योत्पत्तावेव कारणस्य विनाशाच्च न विशेषकार्योत्पत्तिः ॥ 20 ॥
ॐ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॐ ॥ 21-194 ॥
कारणे विनष्टे कार्यमुत्पद्यते चेत् तत्कार्यमिति प्रतिज्ञाहानिः । तत्काले कारणमस्ति चेद्विनाशकारणाभावद्यौगपद्यं सर्वकार्याणाम् ॥ 21 ॥
ॐ प्रतिसङ्ख्याऽप्रतिसङ्ख्यानिरोधप्राप्तिरविच्छेदात् ॐ ॥ 22 -195 ॥
कारणे सति कार्यं भवत्येवेति नियमान्निस्संतानः ससन्तानश्च विनाशो न युज्यते ॥ 22 ॥
ॐ उभयथा च दोषात् ॐ ॥ 23-196 ॥
कारणे सति कार्यं भवत्येवेति नियमे सर्वदा कार्यभावान्न कार्यकारणविशेषः । अनियमे कार्यानुत्पत्तिः ॥ 23 ॥
ॐ आकाशे चाविशेषात् ॐ ॥ 24-197 ॥
दीपादिषु विशेषदर्शनात् क्षणिकत्वेनान्यत्रापि क्षणिकत्वमनुमीयते चेदाकाशादिष्वविशेषदर्शनादन्यत्रापि तदनुमीयते ॥ 24 ॥
ॐ अनुस्मृतेश्च ॐ ॥ 25-198 ॥
तदेवेदमिति प्रत्यभिज्ञानाच्च । प्रत्यभिज्ञाय ब्रान्तित्वे विशेषदर्शनस्यापि ब्रान्तित्वम् ॥ 25 ॥
॥ इति समुदायाधिकरणम्॥ 07 ॥
शून्यवादमपाकरोति-
ॐ नासतोऽदृष्टत्वात् ॐ ॥ 26-199 ॥
अदृष्टत्वादसतः कारणत्वं न युज्यते ॥ 26 ॥
ॐ उदासीनानामपि चैवं सिद्धिः ॐ ॥ 27-200 ॥
असतः कारणत्वे उदासीनानां हेयोपादेयबुद्धिवर्जितानां खपुष्पादीनामपि सकाशात् कार्यसिद्धिः । चशब्दान्न चेदन्यत्रापि न स्यादविशेषात् ॥ 27 ॥
ॐ नाभाव उपलब्धेः ॐ ॥ 28-201 ॥
न च जगदेव शून्यमिति वाच्यम् । दृष्टत्वात् ॥28॥
ॐ वैधर्म्याच्च न स्वप्नादिवत् ॐ ॥ 29-202 ॥
न च दृष्टस्यापि स्वप्नादिवदभावः। तस्योत्तरकाले’स्वप्नोयं’,’नायं सर्पः’ इत्याद्यनुभवात् । न चात्र तादृशं प्रमाणमस्ति ॥ 29 ॥
॥ इति असदधिकरणम्॥ 08 ॥
विज्ञानवादमपाकरोति-
ॐ न भावोऽनुपलब्धेः ॐ ॥ 30-203 ॥
न विज्ञानमात्रं जगत् । तथाऽनुभवाभावात् ॥ 30 ॥
ॐ क्षणिकत्वाच्च ॐ ॥ 31-204 ॥
ज्ञानं क्षणिकम् । अर्थानां च स्थायित्वमुक्तम् । आतश्च नैक्यम् ॥ 31 ॥
ॐ सर्वथाऽनुपपत्तेश्च ॐ ॥ 32-205 ॥
प्रमाणाभावात् सर्वश्रुतिस्मृतिर्युक्तिविरुद्धत्वाच्च नैते पक्षा ग्राह्याः ॥ 32 ॥
॥ इति अनुपलब्द्यधिकरणम् ॥ 09 ॥
स्याद्वादिमतं दूषयति-
ॐ नैकस्मिन्नसम्भवात् ॐ ॥ 33-206 ॥
सत् स्यादसत् स्यात् सदसत् स्यात् ततोऽन्यच्च स्यादित्येतन्नैकस्मिन् युज्यते । अदृष्टत्वेनासम्भवात् ॥ 33 ॥
ॐ एवंचात्माकार्त्स्न्यम् ॐ ॥ 34-207 ॥
जीवस्य शरीरपरिमितत्वाङ्गीकारेऽण्वादिशरीरस्थस्य हस्तादिशरीरेऽकार्त्स्न्यं स्यात् ॥34॥
ॐ न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ 35-208 ॥
तत्तच्छरीरस्थस्य तत्तत्परिमाणत्वमिति न मन्तव्यम् । विकारित्वादनित्यत्वप्रसक्तेः ॥ 35 ॥
ॐ अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषात् ॐ ॥ 36-209 ॥
परिमाणाभावे स्वरूपाभावप्राप्त्याऽन्त्यपरिमाणस्थितेस्तदर्थत्वेन शरीरस्थितेरुभयनित्यत्वादविशेषेण सर्वशरीरनित्यत्वं स्यात् ॥ 36 ॥
॥ इति नैकस्मिन्नधिकरणम् (स्याद्वाद्यधिकरणम्) ॥10॥
पाशुपतपक्षमपाकरोति-
ॐ पत्युरसामञ्जस्यात् ॐ ॥ 37-210 ॥
‘यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्’
‘अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ’।
‘अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।
विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत्’।
‘एको नारायण आसीन्न ब्रह्मा नेशानो नाग्नीषोमौ’
इत्यादि श्रुतेः पारतंत्र्येणासमञ्जसत्वान्न पशुपतीरीश्वरो जगत्कर्ता ॥ 37 ॥
ॐ सम्बन्धानुपपत्तेश्च ॐ ॥ 38-211 ॥
अशरीरत्वात् तस्य जगता सम्बन्धो न युज्यते कर्तृत्वेन मृतपुरुषवत् ॥38॥
ॐ अधिष्ठानानुपपत्तेश्च ॐ ॥ 39-212 ॥
पृथिव्याद्यधिष्ठाने स्थितो हि कुलालादिः कार्यं करोति । न चास्य तदस्ति ॥ 39 ॥
ॐ करणवच्चेन्न भोगादिभ्यः ॐ ॥ 40-213 ॥
इदमेव जगत् तस्य करणवदधिष्ठानादिरूपम् । नित्यस्यापि कस्यचिद्भावाद्युज्यत इति चेन्न भोगादिप्राप्तेः। उत्पत्तिविनाशौ सुखदुःखभोगाश्च प्राप्यन्ते तद्गताः ॥ 40 ॥
ॐ अन्तवत्त्वमसर्वज्ञता वा ॐ ॥ 41-214 ॥
देहवत्वेऽन्तवत्वम् । अन्यथा ज्ञानाभावः । शरीरिण एव हि ज्ञानोत्पत्तिर्दृष्टा । विष्णोस्तु श्रुत्यैव सर्वे विरोधाः परिहृताः ।
‘यदात्मको भगवांस्तदात्मिका व्यक्तिः ।
किमात्मको भगवान् ज्ञानात्मक ऐश्वर्यात्मकः शक्त्यात्मकः’इति ।
‘बुद्धिमनोऽङ्गप्रत्यङ्गवत्तां भगवतो लक्षयामहे ।
बुद्धिमान् मनोवानङ्गप्रत्यङ्गवान्’ इति
‘सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।
ज्ञानज्ञानः सुखसुखः स विष्णुः परमाक्षरः’ ॥ इत्यादिकया ॥ 41 ॥
॥ इति पत्युरधिकरणम् (पशुपत्यधिकरणम्) ॥ 11 ॥
शक्तिपक्षं दूषयति-
ॐ उत्पत्यसम्भवात् ॐ ॥ 42-215 ॥
न हि पुरुषाननुगृहीतस्त्रीभ्य उत्पत्तिर्दृश्यते ॥ 42 ॥
ॐ न च कर्तुः करणम् ॐ ॥ 43-216 ॥
यदि पुरुषोऽङ्गीक्रियेत तस्यापि करणाभावादनुपपत्तिः ॥ 43 ॥
ॐ विज्ञानादिभावे वा तदप्रतिषेधः ॐ ॥ 44-217 ॥
यदि विज्ञानादिकरणं तस्याङ्गीक्रियते तदा तत एव सृष्ट्याद्युपपत्तेरीश्वरवादान्तर्भावः ॥ 44 ॥
ॐ विप्रतिषेधाच्च ॐ ॥ 45-218 ॥
सकलश्रुत्यादिविरुद्धत्वाच्चासमञ्जसम् ॥ 45 ॥
॥ इति उत्पत्त्य(शक्त्य)धिकरणम् ॥ 12 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्र भाष्ये द्वितीयाध्यायस्य द्वितीयः पादः ॥ 02-02 ॥

तृतीयः पादः ॥ 02-03 ॥
जीवपरमात्माधिभूताधिदैवेषु श्रुतीनां परस्परं विरोधमपाकरोत्यनेन पादेन।
ॐ न वियदश्रुतेः ॥ 01-219 ॥
न वियदनुत्पत्तिमत् । तथाऽश्रुतेः ॥ 01 ॥
ॐ अस्तितु ॐ ॥ 02-220 ॥
अस्त्येव चोत्पत्तिश्रुतिः-
‘आत्मन आकाशः सम्भूतः’ इत्यादि ॥ 02 ॥
ॐ गौण्यसम्भवात् ॐ ॥ 03-221 ॥
‘अनादिर्वा अयमाकाशः शून्योऽलौकिकः’ इत्यादिश्रुतिर्गौणी ।
अन्यथोत्पत्तिश्रुतिबाहुल्यासम्भवात् ॥ 03 ॥
ॐ शब्दाच्च ॐ ॥ 04-222 ॥
‘अथ ह वाव नित्यानि पुरुषः प्रकृतिरात्मा काल इति । अथ यान्यनित्यानि प्राणः श्रद्धाभूतानि भौतिकानीति । यानि ह वा उत्पत्तिमन्ति तान्यनित्यानि।यानि ह वा अनुत्पत्तिमन्ति तानि नित्यानि । न ह्येतानि कदाचनोत्पद्यन्ते न विलीयन्ते पुरुषः प्रकृतिरात्मा काल इति । अथैतान्युत्पत्तिमन्ति चानुत्पत्तिमन्ति च प्राणः श्रद्धाऽऽकाश इति भागशो ह्युत्पद्यन्ते’ इति भाल्लवेयश्रुतेश्च ॥ 04 ॥
ॐ स्याच्चैकस्य ब्रह्मशब्दवत् ॐ ॥ 05-223 ॥
स्यादेवैकस्योत्पत्तिमत्त्वमनुत्पत्तिमत्त्वं च गौणमुख्यत्वापेक्षया । यथा ब्रह्मशब्दः ।
‘अथ कस्मादुच्यते परं ब्रह्म बृहति बृंहयति च’
इति श्रुतेः परे ब्रह्मणि मुख्योऽपि गौणत्वेन विरिञ्चादिष्वपि वर्तते । अत एवाब्रह्मत्वं च तेषाम् । एवमत्राप्यनुत्पत्तिमच्छब्दः ॥ 05 ॥
ॐ प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॐ ॥ 06-224 ॥
ब्रह्मणोऽन्यस्य नित्यत्वे’इदं सर्वमसृजत’ इत्यादि प्रतिज्ञाहानिः।आकाशस्यापि सर्वस्मादव्यतिरेकात्।
‘अत्मा वा इदमेक एवाग्र आसीत्’
‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’
‘इदं वा अग्रे नैव किञ्चनासीत्’ इत्यादिश्रुतिभ्यः ॥ 06 ॥
ॐ यावद्विकारं तु विभागो लोकवत् ॐ ॥ 07-225 ॥
विभक्तत्वाच्च विकारित्वं युक्तम् । विकारिण एव हि विभक्तालोके दृश्यन्ते ।
‘एकोऽविभक्तः परमः पुरुषो विष्णुरुच्यते ।
प्रकृतिः पुरुषः कालस्त्रय एते विभागतः ॥
चतुर्थस्तु महान् प्रोक्तः पञ्चमाऽहङ्कृतिर्मता ।
तद्विभागेन जायन्त आकाशाद्याः पृथक् पृथक् ॥
यो विभागी विकारः सः सोऽविकारः परो हरिः ।
अविभागात् परानन्दो नित्यो नित्यगुणात्मकः ।
विभागो ह्यल्पशक्तिः स्यान्न तदस्ति जनार्दने’इति बृहत्संहितायाम् ॥ 07 ॥
॥ इति वियदधिकरणम् ॥ 01 ॥
‘अथ ह नित्याश्चानित्याश्च तेजोऽबन्नान्याकाश इति तान्यनित्यानि वायुर्वाव नित्यो वायुना हि सर्वाणि भूतानि नेनीयन्ते’
‘अथ ह चेतनाश्चाचेतनाश्च तेजोऽबन्नान्याकाश इति तान्यचेतनानि वायुर्वाव चेतनो वायुना हि सर्वाणि भूतानि विज्ञायन्ते’ ।
‘कुविदङ्ग नमसा ये वृधासः पुरा देवा अनवद्यास आसन् ।
ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येण’।
‘सा वा एषा देवताऽनादिर्योऽयं पवते’ इति ।
‘यस्यानादिर्न मध्यं नान्तो नोदयो न निम्लोचः’।
इत्यादिश्रुतिभ्यो वायोरनुत्पत्तिरित्यतो ब्रवीति –
ॐ एतेन मातरिश्वा व्याख्यातः ॐ ॥ 08-226 ॥
एतेन मुख्यामुख्यानुत्पत्तिवचनेन विभक्तत्वाच्च वाय्वनुत्पत्तिश्रुतिरपि व्याख्याता ।
‘नित्यः परमनित्यश्च तथाऽनित्यः परस्तथा ।
चतुर्धैतज्जगत् सर्वं परानित्यं तु पार्थिवम्।
अनित्यानि तु भूतानि नित्यो वायुरुदाहृतः ।
परस्तु नित्यः पुरुषः प्रकृतिः काल एव च ।
एतच्चतुष्टयं विष्णुः स्वयं नित्यः परात्परः ।
प्रतिव्यूह्य व्यूह्य चासावतीत्या च जनार्दनः ।
धारयत्यनिशं देवो नित्यानन्दैकलक्षणः’ इति कौर्मे ॥ 08 ॥
॥ इति मातरिश्वाधिकरणम् ॥ 02 ॥
ॐ असम्भवस्तु सतोऽनुपपत्तेः ॐ ॥ 09-227 ॥
‘असद्वा इदमग्र आसीत्। ततो वै सदजायत’’असतः सदजायत’।
इत्यादि श्रुतिभ्यः सतोऽप्युत्पत्तिरिति चेन्न ।
अनुत्पत्तिरेव सतः । तुशब्देनोक्तव्यवस्थामपाकरोति ।
न ह्यसतः सदुत्पद्यते । अदृष्टत्वादनुपपत्तेः ।
‘तद्वा एतद्ब्रह्माहुर्बृहति बृंहयति चेति ।
तद्वा एतदसदाहुः न ह्यासादयति कश्चन ।
तद्वा एतत् परमाहुः परतो हि तदुदीक्ष्यते’
इति श्रुतेरसच्छब्दो ब्रह्मवाची ।
‘देवानां पूर्व्ये युगेऽसतः सदजायतेति ब्रह्मवा असत् सद्वाव प्राणः प्राणं वाव महान् सह ओजो बलमित्याचक्षते’
इति च पैङ्गीश्रुतिः।
‘त्वं देव शक्त्यां गुणकर्मयोनौ रेतस्त्वजायां कविरादधेऽजः ।
ततो वयं सत्प्रमुखा यदर्थे बभूविमात्मन् करवाम किं ते’
इति भागवते ॥
‘अजायमानो बहुधा विजायत’ इति च ।
‘प्रत्यक्षत्वं हरेर्जन्म न विकारः कथञ्चन ।
पुरुषः प्रकृतिः कालो महानित्यादिषु क्रमात् ॥
विकार एव जननं पुरुषे तद्विशेषणम् ।
परतन्त्रिविशेषो हि विकार इति कीर्तितः’ इति पाद्मे ॥
‘अविकारोऽपि भगवान् सर्वशक्तित्वहेतुतः ।
विकारहेतुकं सर्वं कुरुते निर्विकारवान् ॥
शक्तिशक्तिमतोश्चापि न विभागः कथञ्चन ।
अविभिन्नाऽपि सेच्छादिभेदैरपि विभाष्यते’इति भागवततन्त्रे ॥ 09 ॥
इति असम्भवाधिकरणम् ॥ 03 ॥
ॐ तेजोऽतस्तथा ह्याह ॐ ॥ 10-228 ॥
‘वायोरग्निः’इत्यादेर्नान्यत उत्पत्तिर्ग्राह्या । अत एव परात् तदपि जायते ।
‘तत् तेजोऽसृदजत’ इति ह्याह । कारणत्वेनेत्युक्तेऽप्यमुख्यतयाऽन्येषामपि शब्दोक्तत्वात् पुनरुक्तिरुभयकारणत्वनिवृत्यर्थम् ॥ 10 ॥
॥ इति तेजोऽधिकरणम् ॥ 04 ॥
ॐ आपः ॐ ॥ 11-229 ॥
‘ब्रह्मैवेदमग्र आसीत् तदपोऽसृजत तदिदं सर्वम्’ इति श्रुतेः, ‘अग्नेरापः’ इत्युक्तेऽपि ब्रह्मण एवाबादिसृष्टिः ।
‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’ इत्यादि च ।
‘कर्ता सर्वस्य वै विष्णुः एक एव न संशयः ।
इतरेषां तु सत्ताद्या यत एव तदाज्ञया’ इति भविष्यत्पुराणे॥
वामने च-
‘तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तीः प्रबोधयन् ।
एक एव महाशक्तिः कुरुते सर्वमञ्जसा’ इति ॥
घर्मात् स्वेदादिदृष्टेः पुनः प्रतिषेधः ॥ 11 ॥
॥ इति अबधिकरणम् ॥ 05 ॥
‘ता आप ऐक्षन्त बह्व्यः स्यामः प्रजायेमेहीति । ता अन्नमसृजन्त’ इत्यद्ब्द्योऽन्नसृष्टिः श्रूयते ।‘अद्ब्यः पृथिवी’ इति कुत्रचित् पृथिवीसृष्टिः । अतो विरुद्धत्वादप्रामाण्यमित्यतो वक्तिः –
ॐ पृथिव्यधिकाररूपशब्दान्तरादिभ्यः ॐ ॥ 12-230 ॥
पृथिवी तत्रान्नशब्देनोच्यते । भूताधिकारत्वात् । कार्ष्ण्यप्रचुरा च पृथिवी । नान्नस्य तथा विशेषः । ‘आपश्च पृथिवी चान्नम्’। ‘पृथिवी वा अन्नम्’ । ‘ता आपोऽन्नमसृजन्त पृथिवी वा अन्नम्’ इत्यादिशब्दान्तराच्च । आदिशब्दाद्युक्तिः अपौरुषेयत्वेनादोषस्य वाक्यस्य नाप्रामाण्यमित्यादि । कौर्मे च –
‘विरोधो वाक्ययोर्यत्र नाप्रामाण्यं तदेष्यते ।
यथा विरुद्धता न स्यात् तथाऽर्थः कल्प्य एतयोः’ इति ।
रक्तोऽग्निरुदकं शुक्लं कृष्णैव पृथिवी स्वतः ।
नाभिपद्माभिसम्बन्धात् पीता सेत्यभिधीयते ।
क्षत्ररक्ताभिसम्बन्धाद्रक्तोदकबहुत्वतः ।
शुक्लत्वेमेत्येवमेव वर्णान्तरगतिर्भवेत् ॥
विष्णुवीर्याभियोगाच्च पीतत्वं भुव इष्यते ।
स्वर्णवीर्यो हि भगवाननादिः पुरुषोत्तमः ॥
इति व्योमसंहितायाम् ॥ 12 ॥
॥ इति पृथिव्यधिकरणम् ॥
‘प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकस्तेनान्नेनाप्यायस्व’ इत्यादिनाऽन्यः संहर्ता प्रतीयत इत्यतो ब्रूते –
ॐ तदभिध्यानादेव तु तल्लिङ्गात् सः ॐ ॥ 13-231 ॥
‘तस्याभिध्यानाद्योजनात् तत्त्वभावाद्बूयश्चान्ते विश्वमायानिवृत्तिः’
इति बन्धलयस्य तदभिध्याननिमित्तत्त्वलिङ्गात् तत्कर्तृत्वं प्रतीयते, किमु सादेर्जगतः । इत्येतस्मादेव संहारकर्ता विष्णुरिति प्रतीयते, किमु
‘यमप्येते भुवनं साम्पराये
स नो हरिर्घृत मीहायुषेऽत्तु देवः’।
‘य इदं सर्वं विलापयति स हरिः परः परात्मा’
इत्यादि श्रुतिभ्यः इति एव शब्दः ।
‘स्रष्टा पाता च संहर्ता स एको हरिरीश्वरः ।
स्रष्टृत्वादिकमन्येषां दारुयोषावदुच्यते ॥
एकदेशक्रिया चात्र न तु सर्वात्मनेरितम् ।
सृष्ट्यादिकं समस्तं तु विष्णोरेव पराद्भवेत्’ इति च स्कान्दे ॥
‘निमित्तमात्रमीशस्य विश्वसर्गनिरोधयोः ।
हिरण्यगर्भः शर्वश्च कालाख्यारूपिणस्तव’ इति भागवते ॥
‘स ब्रह्मणा विसृजति स रुद्रेण विलापयति सोऽनुत्पत्तिरलय एक एव हरिः परः परानन्दः’ इति च महोपनिषदि ॥ 13 ॥
॥ इति तदभिध्यानाधिकरणम् ॥ 07 ॥
‘अत एव हीदं परात् क्रमादुत्पद्यते क्रमाद्विलीयते नासावुदेति नास्तमेति’ इति भाल्लवेयश्रुतौ क्रमाल्लयः प्रतीयते ।
‘अक्षरात् परमादेव सर्वमुत्पद्यते क्रमात् ।
व्युत्क्रमाद्विलयश्चैव तस्मिन्नेव परात्मनि’ ॥
इति चतुर्वेदशिखायां व्युत्क्रमाल्लयः प्रतीयते । अत आह
ॐ विपर्ययेण तु क्रमोऽत उपपद्यते च ॐ ॥ 14-232 ॥
क्रमवचनमपि विपरीतक्रमापेक्षया ।
‘कर्ता प्राणादिकस्यास्य हन्ता भूम्यादिकस्य च ।
यः क्रमाद् व्युत्क्रमाच्चैव स हरिः पर उच्यते’॥
इत्यत एव भाल्लवेयश्रुतिवचनात् ।
‘अनुरूपः क्रमः सृष्टौ प्रतिरूपो लये क्रमः ।
इति क्रमेण भगवान् सृष्टिसंहारकृद्धरिः’ इति च पाद्मे ।
पूर्वेषां पूर्वेषां सामर्थ्याधिक्यादुपपद्यते च । वामने च –
‘पूर्वे पूर्वे यतो विष्णोः सन्निधानं क्रमाधिकम् ।
सामर्थ्याधिक्यमेतेषां पश्चादेव लयस्तथा ।
व्याप्तिश्चाभ्यधिका तेषामत एव न संशयः’ ॥ इति॥ 14 ॥
॥ इति विपर्ययाधिकरणम् ॥
ॐ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॐ ॥ 15-233 ॥
‘प्राणान्मनो मनसश्च विज्ञानम्’ ।
‘यच्छेद्वाङ्मनसि प्राज्ञस्तद्यच्छेज्ञान आत्मनि’
इति लिङ्गाद्विज्ञानमनसी अन्तरा विपरीतक्रम इति चेन्न, विशेषप्रमाणाभावात् ॥15 ॥
ॐ चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ॐ
॥ 16-234 ॥
‘मनसश्च विज्ञानम्’ इति व्यपदेशश्चराचरेष्वालोचनाद्विज्ञानं भवतीति भागापेक्षया स्यात् । न विज्ञानतत्त्वापेक्षया । स्कान्दे च –
‘परादव्यक्तमुत्पन्नमव्यक्तात् तु महांस्तथा ।
विज्ञानतत्त्वं महतः समुत्पन्नं चतुर्मुखात् ॥
विज्ञानतत्त्वात् तु मनो मनस्तत्त्वाच्च खादिकम् ।
एवं बाह्या परा सृष्टिरन्तस्तद्व्यक्त्यपेक्षया ।
विपरीतक्रमो ज्ञेयो यस्मादन्ते हरेर्दृशिः’ ॥इति॥ 16 ॥
॥ इति अन्तराधिकरणम् ॥ 09 ॥
ॐ नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॐ ॥ 17-235 ॥
‘स इदं सर्वं विलाप्यान्तस्तमसि निलीनस्तद्विलाप्य व्युत्तिष्ठते स इदं सर्वं विसृजति विस्थापयति प्रस्थापयत्याच्छादयति प्रकाशयति विमोचयत्येक एव’ इति श्रुतेः परमात्माऽपि न लीयते। अश्रुतत्वाद्ब्रह्मलयस्य। निलीन शब्देनापिहितत्वमुच्यते । तुच्छेनाभ्यपिहितं यदासीत्, इत् श्रतेः ।
‘स एतस्मिंस्तमसि निलीनः प्रकृतिं पुरुषं कालं चानुपश्यति कश्चन’
इति पैङ्गीशृतिः ।
‘नित्यो नित्यानां चेतनश्चेतनानाम्’
‘स नित्यो निर्गुणो विभुः परः परमात्मा’।
‘नित्यो विभुः कारणो लोकसाक्षी परो गुणैः सर्वदृक् शाश्वतश्च’
इत्यादि श्रुतिभ्यो नित्यत्वाच्च ॥ 17 ॥
॥ इति आत्माधिकरणम् ॥ 10 ॥
‘नित्यो नित्यानाम्’ इति जीवास्यापि नित्यत्वमुक्तम् ।‘सर्व एते चिदात्मानो व्युच्चरन्ति’इत्युत्पत्तिरुच्यते । अतो विरोध इत्यत आह –
ॐ ज्ञोऽत एव ॐ ॥ 18-236 ॥
जीवोऽप्यत एव परमेश्वरादुत्पद्यते । शब्दादेव ।
‘ते वा एते चिदात्मनोऽविनष्टाः परञ्ज्योतिर्निविशन्त्यविनष्टा एवोत्पद्यन्ते न विनश्यन्ति कदाचन’इति काषायणश्रुतिः ॥ 18 ॥
ॐ युक्तेश्च ॐ ॥ 19-237 ॥
नित्यस्यापि ह जीवस्योपाध्यक्षयोत्पत्तिर्युज्यते।
‘उत्पद्यन्ते चिदात्मानो नित्यान्नित्याः परात्मनः ।
उपाध्यपेक्षया तेषामुत्पत्तिरपि गीयते’
इति व्योमसंहितायाम्॥ 19 ॥
इति ज्ञाधिकरणम् ॥ 11 ॥
‘व्याप्ताह्यात्मानश्चेतना निर्गुणाश्च सर्वात्मानः सर्वरूपा अनन्ताः’ इति काषायणश्रुतौ व्याप्तत्वं
प्रतीयते ।
‘अणुर्ह्येष आत्मायं वा एते सिनीतः । पुण्यं चापुण्यं च’
इति गौपवनश्रुतावणुत्वमित्यतो विरोध इति । अतो ब्रवीति-
ॐ उत्क्रान्तिगत्यागतीनाम् ॐ ॥ 20-238 ॥
हेतूनाम् सकाशादणुरेव ।
‘सोऽस्माच्छरीरादुत्क्रम्यामुं लोकमभिगच्छत्यमुष्मादिमं
लोकमागच्छति स गर्भो भवति स प्रसूयते स कर्म कुरुते’
इति पौष्यायणश्रुतेः॥ 20 ॥
तत्र स्वातन्त्र्य प्रतीतेः-
एकः प्रसूयते जन्तुरेक एव प्रमीयते।
एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम्’ इत्यादेश्च ॥
स्वयमेवेत्यतो वक्ति –
ॐ स्वात्मना चोत्तरयोः ॐ ॥ 21-239 ॥
‘स एतेनैव स्वात्मना परेणेमं गर्भमनुप्रविशति परेण जायते परेण कर्म कुरुते परेण नीयते परेणोन्नीयते। तं वा एतमभिवदन्ति स्वात्मा’ इति।
‘एष ह्यानन्दमादत्ते एष ह्येनं जीवमभिजीवयत्येष उद्गमयत्येष आगमयति। इत्युत्तरयोर्वाक्ययोः परमात्मनैवोत्क्रान्त्यादयः ॥ 21 ॥
ॐ नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॐ ॥ 22-240 ॥
‘व्याप्ताह्यात्मानश्चेतना निर्गुणाश्च’ इति व्याप्तिश्रुतेर्नाणुर्जीव इति चेन्न ।
‘स आत्मेदं सृजति स द्विधेदं बिभर्ति अन्तर्बहिश्च । स बहुधेदमनुप्रविश्यात्मनोऽभिनयति । स आत्मा स आत्मानः स ईशः स विष्णुः स परः परोवरीयान्’ इति परमात्माधिकारत्वात् ।
‘एकशब्दैर्द्विशब्दैश्च बहुशब्दैश्च केशवः ।
एक एवोच्यते वेदैस्तावता नास्य भिन्नता’ इति भविष्यत्पुराणे ।
‘तदयं प्राणोऽधितिष्ठति। तदुक्तमृषिणाऽऽतेन यातम्’ इत्यादि च ॥ 22 ॥
ॐ स्वशब्दोन्मानाभ्यां च ॐ ॥ 23-241 ॥
‘एषो ह्यात्माऽध्युद्गतो मानशक्तेस्तथाऽप्यसौ प्रमितिं याति वेदैः ।
पूर्णोऽचिन्त्यः सर्ववेदैकयोनिः सर्वाधीशः सर्ववित् सर्वकर्ता’
इति वाक्यशेषे आत्मशब्दोन्मानाभ्यां च।
‘आत्माऽमेयः परं ब्रह्म परानन्दादिकाभिधाः।
वदन्ति विष्णुमेवैकं नान्यत्रासां गतिः क्वचित्’ इति च कौर्मे ॥ 23 ॥
ॐ अविरोधश्चन्दनवत् ॐ ॥ 24-242 ॥
अणोरपि जीवस्य सर्वशरीरव्याप्तिर्युज्यते।यथा हरिचन्दनविप्लुष एकदेशपतितायाः सर्वशरीरव्याप्तिः ।
‘अणुमात्रोऽप्ययं जीवः स्वदेहं व्याप्य तिष्ठति ।
यथा व्याप्य शरीराणि हरिचन्दनविप्लुषः’ इति च ब्रह्माण्डपुराणे ॥ 24 ॥
ॐ अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॐ ॥ 25-243 ॥
सम्यगसम्यगवस्थानविशेषाद्युज्यते चन्दनस्येति चेन्न। ‘हृदि ह्येषा आत्मा’ इति जीवास्यापि तथाऽभ्युपगमात् ॥ 25 ॥
ॐ गुणाद्वाऽऽलोकवत् ॐ ॥ 26-244 ॥
यथाऽऽलोकस्य प्रकाशगुणेन व्याप्तिर्ज्योतीरूपेणाव्याप्तिः एवं चिद्गुणेन व्याप्तिर्जीवरूपेणाव्याप्तिरिति वा । स्कान्दे च –
‘असम्यक् सम्यगिति च व्यवस्थाभेदतः सुराः।
व्याप्त्यव्याप्तियुतास्त्वन्ये चिद्गुणेनैव नान्यथा॥
चिद्गुणस्य स्वरूपत्वात् तद्व्याप्तिश्चेति युज्यते।
शक्तियोगात् सुराणां तु विविधा च व्यवस्थितिः’ इति ॥ 26 ॥
॥ इति उत्क्रान्त्यधिकरणम् ॥ 12 ॥
‘स नित्यो निरवयवः पुण्ययुक् पापयुक् च स इमं लोकममुं चावर्तते स विमुच्यते स एकधा न सप्तधा न शतधा’ इति गौपवनश्रुतावेकस्याबहुत्वं प्रतीयते ।
‘स पञ्चधा स सप्तधा स दशधा भवति स शतधा च सहस्रधा स गच्छति स मुच्यते’ इति पाराशर्यायणश्रुतौ बहुरूपत्वं प्रतीयते ।
अतो विरोधं परिहरति-
ॐ व्यतिरेको गन्धवत् तथा च दर्शयति ॐ ॥ 27-245 ॥
यथा पुष्पाद्गन्धः पृथग्गच्छति एवमंशिनो जीवादंशाः पृथग्गच्छन्ति ।
‘अथैक एव सन् गन्धवद्व्यतिरिच्यते । अथैकीभवति। अथ बह्वीभवति ।
तं यथा यथेश्वरः कुरुते तथा भवति सोऽचिन्त्यः परमो गरीयान्’
इति शाण्डिल्यश्रुतिः ।
‘अचिन्त्ययेशशक्त्यैव ह्येकोऽवयववर्जितः ।
आत्मानं बहुधा कृत्वा क्रीडते योगसम्पदा’ इति च पाद्मे ॥ 27 ॥
॥ इति व्यतिरेकाधिकरणम् ॥ 13 ॥
‘तत्वमसि’ ,’अहं ब्रह्मास्मि’ इत्यादिषु जीवस्य परेणाभेदः प्रतीयते ।‘नित्यो नित्यानां चेतनश्चेतनानाम्’ ‘द्वा सुपर्णा’ इत्यादिषु भेदः। अत उच्यते-
ॐ पृथगुपदेशात् ॐ ॥ 28-246 ॥
‘बिन्नोऽचिन्त्यः परमो जीवसङ्घात्पूर्णः परो जीवसङ्घो ह्यपूर्णाः । यतस्त्वसौ नित्यमुक्तो ह्ययं च बन्धान्मोक्षं तत एवा-भिवांछेत्’
इति सोपपत्तिककौशिकश्रुतेर्भिन्न एव जीवः ॥ 28 ॥
ॐ तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत् ॐ ॥ 29-247 ॥
ज्ञानानन्दादिब्रह्मगुणा एवास्य यतः सारः स्वरूपमतोऽभेदव्यपदेशः । यथा सर्वगुणात्मकत्वात् सर्वात्मकत्वं ब्रह्मण उच्यते‘सर्वं खल्विदं ब्रह्म’ इति भविष्यत्पर्वणि च –
‘भिन्ना जीवाः परो भिन्नस्तथापि ज्ञानरूपतः ।
प्रोच्यन्ते ब्रह्मरूपेण वेदवादेषु सर्वशः’ इति॥ 29 ॥
॥ इति पृथगुपदेशाधिकरणम् ॥ 14 ॥
जीवास्याप्युत्पत्तिरुक्ता । अतस्तस्य
‘सोऽनादिना पुण्येन पापेन चानुबद्धः।
परेण निर्मुक्त आनन्त्याय कल्पते’ ।
इत्यानादिकर्मसम्बन्ध आनन्त्यावाप्तिश्च न युज्यत इत्यत आह –
ॐ यावदात्माभावित्वाच्च न दोषस्तद्दर्शनात् ॐ ॥ 30-248 ॥
यावत्परमात्मा तिष्ठत्यनाद्यनन्तत्वेनैवं जीवोऽपि ।
‘नित्यः परो नित्यो जीवोऽनित्यास्तस्य धातवः ।
अत उत्पद्यते च म्रियते च विमुच्यते च’ इति च आग्निवेश्यश्रुतिः ।
‘आत्मा नित्यः सुखदुःखे त्वनित्ये,
जीवो नित्यो धातुरस्य त्वनित्यः’इति च भारते ॥ 30 ॥
॥ इति यावदधिकरणम् ॥ 15 ॥
‘विज्ञानात्मा सह देवैश्च सर्वैः’ ।‘स आनन्दः स बलः स ओजः स परेणामुं लोकं नीयते स विमुच्यत इति जीवस्य ज्ञानानन्दादिरूपत्वमुच्यते । स दुःखाद्विमुक्त आनन्दी भवति । सोऽज्ञानाद्विमुक्तो ज्ञानी भवति ।सोऽबलाद्विमुक्तो बली भवति। स नित्यो निरातङ्कोऽतिष्ठते’ इति पैङ्गीश्रुतावनानन्दादिरूपत्वं प्रतीयते । अत आह –
ॐ पुंस्त्वादिवत्त्वस्यसतोऽभिव्यक्तियोगात् ॐ ॥ 31-249 ॥
यथा बालस्य सदेव पुंस्त्वं यौवनेऽभिव्यज्यत एवं सतामेवानन्दादीनां व्यक्त्यपेक्षया तदुक्तिः ।
‘बलमानन्द ओजश्च सहो ज्ञानमनाकुलम् ।
स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोः’ इति च गौपवनश्रुतिः॥ 31 ॥
ॐ नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा ॐ ॥ 32-250 ॥
व्यक्तनङ्गीकारे देवानां च नित्योपलब्धिरानन्दादीनामसुराणां नित्यानुपलब्धिर्मनुष्याणां च नित्योपलब्ध्यनुपलब्धी च प्रसज्येते ।‘नित्यानन्दो नित्यज्ञानो नित्यबलः परमात्मा नैवमसुरा एवमनेवं च मनुष्याः’ इति ह्याग्निवेश्यश्रुतिः । भविष्यत्पर्वणि च-
‘नित्यानन्दज्ञानबला देवा नैवं तु दानवाः ।
दुःखोपलब्धिमात्रास्ते मानुषस्तूभयात्मकाः ॥
तेषां यदन्यथा दृश्यं तदुपाधिकृतं मतम् ।
विज्ञानेनात्मयोगेन निजरूपे व्यवस्थितिः ॥
सम्यज्ज्ञानं तु देवानां मनुष्याणां विमिश्रितम् ।
विपरीतं च दैत्यानां ज्ञानस्यैवं व्यवस्थितिः’ इति ॥ 32 ॥
॥ इति पुंस्त्वाधिकरणम् ॥ 16 ॥
ईश्वरस्यैव कर्तृत्वमुक्तम् ।’यत् कर्म कुरुते तदभिसंपद्यते’ इति जीवस्याप्युपलभ्यते । अत आह-
ॐ कर्ता शास्त्रार्थवत्त्वात् ॐ ॥ 33-251 ॥
जीवस्य कर्तृत्वाभावे शास्त्रस्याप्रयोजकत्वप्राप्तेर्जीवोऽपि कर्ता ॥ 33 ॥
ॐ विहारोपदेशात् ॐ ॥ 34-252 ॥
‘स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाऽज्ञातिभिर्वा’
इत्यादिना मोक्षेऽपि ॥ 34 ॥
ॐ उपादानात् ॐ ॥ 35-253 ॥
साधनाद्युपादानप्रतीतेश्च ॥ 35 ॥
ॐ व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॐ ॥ 36-254 ॥
‘आत्मानमेव लोकमुपासीत’ इति क्रियायां व्यपदेशाच्च । अन्यथाऽऽत्मैव लोकमिति निर्देशः स्यात् ॥ 36 ॥
तर्हि कथमीश्वरस्यैव कर्तृत्वमित्यतो वक्ति –
ॐ उपलब्धिवदनियमः ॐ ॥ 37-255 ॥
यथा ज्ञान इदं ज्ञास्यामीत्यनियमः प्रतीयते एवं कर्मण्यपि जीवस्य ।
‘य आत्मानमन्तरो यमयति’ इति च श्रुतिः ॥ 37 ॥
कुतः ? –
ॐ शक्तिविपर्ययात् ॐ ॥ 38-256 ॥
अल्पशक्तित्वाज्जीवस्य ॥ 38 ॥
ॐ समाध्यभावाच्च ॐ ॥ 39-257॥
समाधानाभावाच्चास्वातन्त्र्यं प्रतीयते ॥ 39 ॥ अथः-
ॐ यथा च तक्षोभयथा ॐ ॥ 40-258 ॥
यथा तक्ष्णः कारयितृनियतत्वं कर्तृत्वं च विद्यते एवं जीवस्यापि ॥ 40 ॥
ॐ परात् तु तच्छ्रुतेः ॐ ॥ 41-259 ॥
सा च कर्तृत्वशक्तिः परादेव ।
‘कर्तृत्वं करणत्वं च स्वभावश्चेतना धृतिः ।
यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया’ इति हि पैङ्गि श्रुतिः ॥ 41 ॥
ॐ कृतप्रयत्नापेक्षस्तुविहितप्रतिषेधावैयर्थ्यादिभ्यः ॐ ॥ 42-260 ॥
ततोऽप्रयोजकत्वं शास्त्रस्य नापद्यते । कृतप्रयत्नापेक्षत्वात् तत्प्रेरकत्वस्य । आदिशब्देनावैषम्यादि ।
‘पूर्वकर्म प्रयत्नं च संस्कारं चाप्यपेक्ष्यतु ।
ईश्वरः कारयेत् सर्वं तच्चेश्वरकृतं स्वयम् ॥
अनादित्वाददोषश्च पूर्णशक्तित्वतो हरेः’ इति भविष्यत्पर्वणि ।
‘एतदेवं न चाप्येवमेतदस्ति च नास्ति च’इति च मोक्षधर्मे ॥ 42 ॥
॥ इति कर्तृत्वाधिकरणम् ॥ 17 ॥
‘अंशा एव हीमे जीवा अंशी हि परमेश्वरः ।
स्वयमंशैरिदं सर्वं कारयत्यचलो हरिः’ ॥
इति गौपवनश्रुतौ अंशत्वं जीवस्योपलभ्यते ।
‘नैवांशो न सम्बन्धो नापेक्ष्यो जीवः परस्य ।
तथाऽपि तु यथायोगं फलदः प्रभुरेकराट् ।
न नियम्यः स कस्यापि स सर्वस्य नियामकः’ ॥ इति च भाल्लवेयश्रुतौ ॥
अतो ब्रवीति-
ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ
॥ 43-261 ॥
‘मां रक्षतु विभुर्नित्यं पुत्रोऽहं परमात्मनः’ ।
‘अवः परेण पितरं यो अस्यानुवेद पर एनावरेण’ ।
‘यस्तद्वेद स पितुष्टिताऽसत्’ ।
‘यस्ताविजानात् स पितुष्पिताऽसत्’।
‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति’
इत्यादिना नावाव्यपदेशादंशो जीवः । तथा च पाराशर्यायणश्रुतिः-
‘अंशो ह्येष परस्य योऽयं पुमानुत्पद्यते च म्रियते च नाना ह्येनं व्यपदिशन्ति पितेति पुत्रेति भ्रातेति सखेति’ च इति ।
‘अन्यः परोऽन्यो जीवो नासावस्य कुतश्चन ।
नायं तस्यापि कश्चन’ इत्यन्यथा च काषायणश्रुतिः ।
‘ब्रह्मा दाशा ब्रह्म कितवाः, ब्रह्मैवेमे दाशा’
इत्यभेदेनाप्येकेऽधीयते । तथा चाग्निवेश्यश्रुतिः-
‘अंशो ह्येष परस्य भिन्नं ह्येनमधीयिरेऽभिन्नं ह्येनमधीयिरे’ इति ॥
वाराहे च-
‘पुत्रभ्रातृसखित्वेन स्वामित्वेन यतो हरिः ।
बहुधा गीयते वेदैर्जीवोंऽशस्तस्य तेन तु ॥
यतो भेदेन तस्यायमभेदेन च गीयते ।
अतश्चांशत्वमुद्धिष्टं भेदाभेदौ न मुख्यतः’ इति ॥ 43 ॥
ॐ मन्त्रवर्णात् ॐ ॥ 44-262 ॥
‘पादोऽस्य विश्वा भूतानि’ इति ॥ 44 ॥
ॐ अपि स्मर्यते ॐ ॥ 45-263 ॥
‘ममैवांशो जीवलोके जीवभूतः सनातन’ इति ॥ 45 ॥
अनंशत्वश्रुतेर्गतिं चाह –
ॐ प्रकाशादिवन्नैवं परः ॐ ॥ 46-264 ॥
अंशत्वेऽपि न मत्स्यादिरूपी पर एवंविधः।यथा तेजोऽम्शस्यैव कालाग्नेः खद्योतस्य च नैकप्रकारता। यथा जलांशस्यामृतसमुद्रस्य मूत्रादेश्च । यथा च पृथिव्यंशस्य मेरोर्विष्टादेश्च । अभिमानिदेवतापेक्षयैतत् ॥ 46 ॥
ॐ स्मरन्ति च ॐ ॥ 47-265 ॥
‘एते स्वांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम्’ ।
‘अतः परं यदव्यक्तमव्यूढगुणबृंहितम् ।
अदृष्टाश्रुतवस्तुत्वात् स जीवो यः पुनर्भवः’ ॥
‘स्वांशश्चाथो विभिन्नांश इति द्वेधाऽम्श इष्यते ।
अंशिनो यत् तु सामर्थ्यं यत् स्वरूपं यथास्थितिः॥
तदेव नाणुमात्रोऽपि भेदः स्वांशांशिनोः क्वचित् ।
विभिन्नांशोऽल्पशक्तिःस्यात् किञ्चित्सादृश्यमात्रयुक्’ ॥ इति वाराहे ।
‘न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः’ इति च ॥ 47 ॥
ॐ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॐ ॥ 48-266 ॥
परानुज्ञया प्रवृत्तिः परतो बन्धनिवृत्तिश्च जीवस्य प्रतीयते, अंशत्वेऽपि देहसम्बन्धात् ।’य आत्मानमन्तरो यमयति’ । ‘तमेवं विद्वानमृत इह भवति’ इत्यादिना । न तु परस्य।
‘वासुदेव सङ्कर्षणः प्रद्युम्नोऽनिरुद्धोऽहं मत्स्यः कूर्मो वराहो नारसिंहो वामनो रामो रामः कृष्णो बुद्धः कल्किरहं शतधाऽहं सहस्तधाऽहमितेऽहमनन्तोऽहं नैवैते जायन्ते न म्रियन्ते नैषामनुज्ञान बन्धो न मुक्तितो सर्व एव ह्येते पूर्णा अजरा अमृताः परमाः परानन्दाः’ इति चतुर्वेदशिखायाम् ।
युज्यते च ज्योतिरादिवत् यथाऽऽदित्यो वियद्गतस्तत्प्रकाशश्चैकप्रकारः । ‘शुक्लं कृष्णं कनीनिका’ इति तदंशस्याप्यक्ष्णो देहसम्बन्धान्न तादृशी शक्तिः । तदनुग्राह्यत्वं तेनैवावृतिपरिहारश्च । यथा बाह्यामृतजलस्यामृतसमुद्रस्य चैकत्वं तदंशस्यापि श्लेष्मणस्तदनुग्राह्यत्वं तेनैव विरोधिनिवृत्तिश्च ।
मोक्षधर्मे च –
‘यत्किंचिदिह लोकेऽस्मिन् देहबद्धं विशांपते ।
सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ॥
ईश्वरो हि महद्भूतं प्रभुर्नारायणो विराट् ।
भूतान्तरात्मा विज्ञेयः सगुणो निर्गुणोऽपि च ॥
भूतप्रलयमव्यक्तं शुश्रूषुर्नृपसत्तम’ इति ।
वाराहे च-
‘अंशाश्च देहयोग्यत्वाज्जीवा बन्धादिसंयुताः ।
अनुग्राह्याश्चेश्वरेण न तु मत्स्यादिको हरिः ॥
अदेहबन्धयोग्यत्वाद्यथासूर्यप्रभाऽक्षिणी ।
यथाऽमृतसमुद्रस्य श्लेष्मादेश्च द्विरूपता ॥
अनुग्राह्यत्वमन्यस्य तेनैवावृतिरोधनम्’ इति ॥ 48 ॥
ॐ असन्ततेश्चाव्यतिकरः ॐ ॥ 49-267 ॥
अपूर्णशक्तित्वाच्च जीवस्य न मत्स्यादिसाम्यम् । तथा च चतुर्वेदशिखायाम्-
‘तस्य ह वा एतस्य परमस्य त्रीणि रूपाणि, कृष्णो रामः कपिलः इति । तस्य ह वा एतस्य परमस्य पञ्चरूपाणि दशरूपाणि शतरूपाणि सहस्ररूपाण्यमितरूपाणि। तानि ह वा एतानि सर्वाणि पूर्णानि सर्वाण्यनन्तानि सर्वाण्यसम्मितानि । अथावराः सर्व एवापूर्णाः सर्वे एव बध्यन्तेऽथ मुच्यन्ते च केचन’ इति ॥ 49 ॥
ॐ आभास एव च ॐ ॥ 50-268 ॥
‘रूपं रूपं प्रतिरूपो बभूव’ इति प्रतिबिम्बत्वाच्च न साम्यम् ।
वाराहे च–
‘द्विरूपूवंशकौ तस्य परमस्य हरेर्विभोः ।
प्रतिबिम्बांशकश्चाथ स्वरूपांशक एव च ॥
प्रतिबिम्बांशका जीवाः प्रादुर्भावाः परे स्मृताः ।
प्रतिबिम्बेष्वल्पसाम्यं स्वरूपाणीतराणि तु’ इति ॥
‘सोपाधिरनुपाधिश्च प्रतिबिम्बो द्विधेयते ।
जीव ईशस्यानुपाधिरिन्द्रचापो यथा रवेः’ इति पैङ्गिश्रुतिः ॥
‘यथैषा पुरुषे छाया एतस्मिन्नेतदाततम्’ इति च श्रुतिः ॥ 50 ॥
॥ इति अंशाधिकरणम् ॥ 18 ॥
प्रतिबिम्बानां मिथो वैचित्र्ये कारणमाह –
ॐ अदृष्टनियमात् ॐ ॥ 51-269 ॥
अनादिविद्याकर्मादिवैचित्र्याद्वैचित्र्यम् ॥ 51 ॥
ॐ अभिसन्ध्यादिष्वपि चैवम् ॐ ॥ 52-270 ॥
इच्छाद्वेषसुखदुःखादिवैचित्र्यं चादृष्टादेव । च शब्देन प्रतिक्षणवैचित्र्यं च ॥52॥
ॐ प्रदेशादिति चेन्नान्तर्भावात् ॐ ॥ 53-271 ॥
न स्वर्गभूम्यादिप्रदेशविशेषाद्वैचित्र्यम् । तत्प्राप्तेरप्यदृष्टापेक्षत्वात्। एकदेशस्थितानामेव वैचित्र्यदर्शनाच्च ॥ 53 ॥
॥ इति अदृष्टाधिकरणम् ॥ 19 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये द्वितीयाध्यायस्य तृतीयः पादः॥ 02-03 ॥
चतुर्थः पादः ॥ 02-04 ॥
युक्तिसहितश्रुतिविरोधं श्रुतीनामपाकरोत्यनेन पादेन ।
‘प्राणा एवेदमग्र आसुस्तेभ्यो भूतानि जज्ञिरे । भूतेभ्योऽण्डमण्डस्यान्तस्त्विमे लोकाः । अथ प्राणा एवानादयः प्राणा नित्याः’ इति काषायणश्रुतौ प्राणानामनुत्पत्तिः श्रूयते ।
‘नोपादानं हीन्द्रियाणामतोऽनुत्पत्तिरिष्यते ।
उपादानकृता सृष्टिः सर्वलोकेषु दृष्यते’ इति भविष्यत्पर्वणि ॥
‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’ इति च ।
अत उच्यते –
ॐ तथा प्राणाः ॐ ॥ 01-272 ॥
यथाऽऽकाशादयः परमात्मन उत्पद्यन्ते तथा प्राणा अपि ॥ 01 ॥
ॐ गौण्यसम्भवात् ॐ ॥ 02-273 ॥
अनादित्वश्रुतिर्गौणानादित्वापेक्षया । मुख्यासम्भवात् ।
‘नित्यान्येतानि सौक्ष्म्येण हीन्द्रियाणि तु सर्वशः ।
तेषां भूतैरुपचयः सृष्टिकाले विधीयते ।
परेण साम्यसम्प्राप्तेः कस्य स्यान्मुख्यनित्यता’ इति भविष्यत्पर्वणि ॥ 02 ॥
ॐ प्रतिज्ञानुपरोधाच्च ॐ ॥ 03-274 ॥
‘इदं सर्वमसृजत’ इति ॥ 03 ॥
॥ इति प्राणाधिकरणम् (प्राणोत्पत्त्यधिकरणम्)
‘द्विधा हैवेन्द्रियाणि नित्यानि चानित्यानि च ।
तत्र नित्यं मनोऽनादित्वान्न ह्यमनाः पुमांस्तिष्ठत्यनित्यान्यन्यानि’
इति गौपवनश्रुतौ मनसोऽनुत्पत्तिः सयुक्तिका श्रूयते । अत आह-
ॐ तत् प्राक्ष्रुतेश्च ॐ ॥ 04-275 ॥
‘मनः सर्वेन्द्रियाणि च’ इति पूर्वोक्तत्वान्नानुत्पत्तिर्मनसो युज्यते।
‘पूर्वं मनः समुत्पन्नं ततोऽन्येषां समुद्भवः ।
तदनुत्पत्तिवचनमल्पोपचयकारणात्’॥
इति वायुप्रोक्तवचनं चशब्देन गृहीतम् ॥ 04 ॥
॥ इति मनोधिकरणम् (तत्प्रागधिकरणम्)
‘नित्ययाऽनित्यया स्तौमि परमात्मानमच्युत्तम्’ इति ।
‘वाग्वाव नित्या न ह्येषोत्पद्यतेऽस्यां हि श्रुतिरवतिष्ठते’
इति सयुक्तिकं पौष्यायणश्रुतौ वाचोऽनुत्पत्तिरुच्यते । अतो ब्रवीति –
ॐ तत्पूर्वकत्वाद्वाचः ॐ॥ 05-276 ॥
‘तस्मान्मन एव पूर्वरूपं वागुत्तररूपम्’
इति मनःपूर्वकत्वाद्वाचो नानुत्पत्तिः ।
‘वागिन्द्रियस्य नित्यत्वं श्रुतिसन्निधियोग्यता ।
उत्पत्तिर्मनसो यस्मान्न नित्यत्वं कुतश्चन’ इति वायुप्रोक्ते ॥ 05 ॥
॥ इति वागधिकरणम् (तत्पूर्वकत्वाधिकरणम्)॥
‘सप्तप्राणाः प्रभवन्ति तस्मात्’ इति श्रुतिः।
‘सप्तैव मारुता बाह्ये प्राणाः सप्त तथाऽऽत्मनि ।
अधिदैवे तथाऽध्यात्मे सङ्ख्यासाम्यं विदो विदुः’ इति च स्कान्दे।
‘द्वादश वा एते प्राणा द्वादश मासा द्वादशादित्या द्वादशराशयो द्वादशग्रहाः’ इति कौण्डिण्यश्रुतौ द्वादशप्राणादृष्यन्ते । अतो वक्ति-
ॐ सप्तगतेर्विशेषितत्वाच्च ॐ ॥ 06-277 ॥
ज्ञानेन्द्रियापेक्षया सप्तत्वम् ।’गुहाशयां निहिताः सप्त सप्त’ इति विशेषणात्।
‘सप्तप्राणास्त्ववगतेः पञ्चप्राणाश्च कर्मणः ।
एवं प्राणद्वादशकं शरीरे नित्यसंस्थितम्’ ।
इति भविष्यत्पर्ववचनं चशब्दात् ॥ 06 ॥
ॐ हस्तादयस्तुस्थितेऽतो नैवम् ॐ ॥ 07-278 ॥
हस्तादीनां कर्मविषयत्वान्न सहपाठः।
‘संसारस्थितिहेतुत्वात् स्थितं कर्म विदो विदुः ।
तस्मादुद्गतिहेतुत्वाज्ज्ञानं गतिरिहोच्यते’ इति वायुप्रोक्ते ॥ 07 ॥
॥ इति सप्तगत्यधिकरणम् ॥ 04 ॥
‘दिवीव चक्षुराततम्’ इति व्याप्तिः प्रतीयते ।
दूरश्रवणदर्शनादियुक्तिश्च। अणुभिः पश्यत्यणुभिः कृणोति प्राणा वा अणवः प्राणैर्ह्येतद्भवति’ इति च कौण्डिन्यश्रुतिः ।
अतो वक्ति-
ॐ अणवश्च ॐ ॥ 08-279 ॥
‘तद्यथा ह्यणुनश्चक्षसः प्रकाशो व्यातत एवमेवास्य पुरुषस्य प्रकाशो व्याततोऽणुर्ह्येवैष पुरुषो भवति’ इति शाण्डिल्यश्रुतिः॥ 08 ॥
॥ इति अण्व(णुत्वा)धिकरणम् ॥ 05 ॥
‘नैष प्राण उदेति नास्तमेत्येकल एव मध्ये स्थाता । अथैनमाहुर्मध्यम इति’ इति मुख्यप्राणस्यानुत्पत्तिः श्रूयते ।
‘यत्प्राप्तिर्यत्परित्याग उत्पत्तिर्मरणं तथा ।
तस्योत्पत्तिर्मृतिश्चैव कथं प्राणस्य युज्यते’ ॥
इति च युक्तिर्वायुप्रोक्ते ।
‘आत्मत एष प्राणो जायते’ इति च ।
अत आह
ॐ श्रेष्ठश्च ॐ ॥ 09-280 ॥
‘सौक्ष्म्येण ह वा एषोऽवतिष्ठते स्थूलत्वेनोदेति सूक्ष्मश्चाथो स्थूलश्च प्रकृतितः सूक्ष्मोऽन्यतः स्थूलोऽथैनमाहुः सादिरनादिरिति’
इति गौपवनश्रुतेः ॥ 09 ॥
ॐ न वायुक्रिये पृथुगुपदेशात् ॐ ॥ 10-281 ॥
‘चेष्टायां बाह्यवायौ च मुख्यप्राणे च गीयते ।
प्राणशब्दस्त्रिषु ह्येषु मुखे मुख्यः प्रकीर्तितः’
इति वायुक्रिययोरपि व्यपदेशादुत्पत्तिश्रुतिस्तयोर्न स्यात् । ‘स प्राणमसृजत’ …‘खं वायुर्ज्योतिरापः..’, ‘तपो मन्त्राः कर्म’ इति पृथगुपदेशात् ।
‘भूतानि चेष्टा मन्त्राश्च मुख्यप्राणादिदं जगत् ।
मुख्यप्राणः परस्माच्च न परः कारणान्वितः’ इति वायु प्रोक्ते ॥ 10 ॥
॥ इति मुख्यप्राणाधिकरणम् (श्रेष्ठाधिकरणम्)
‘प्राणादिदमाविरासीत् प्राणो धत्ते प्राणे लयमभ्युपैति न प्राणः किञ्चिदाश्रितः’ इत्याग्निवेश्यश्रुतौ ।
‘यदाश्रयादस्य चेष्टा सोऽन्यं कथमुपाश्रयेत् ।
यथा प्राणस्तथा राजा सर्वस्यैकाश्रयो भवेत्’ इति च युक्तिर्भारते।
‘प्राणस्यैतद्वशे सर्वं प्राणः परवशे स्थितः ।
न परः कञ्चिदाश्रित्य वर्तते परमो यतः’ इति पैङ्गिश्रुतिः ।
अत आह-
ॐ चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः ॐ ॥ 11-282 ॥
चक्षुरादिवन्मुख्यप्राणोऽपि परमात्मवश एव ।
‘सर्वं ह्येवैतत् परमेऽवतिष्ठते प्राणश्च प्राणाश्च प्राणिनश्च स ह्येक एवैतान्नयत्युन्नयति वशीकरोति’
इति गौपवनश्रुतौ चक्षुरादिभिः सह तद्वशत्वेनैव शासनात् ।
‘सर्वकर्ताऽपि सन् प्राणः परमाधारतः स्थितः ।
कथमेवान्यथा न स्याद्यतो नैवेश्वरद्वयम् ।
अवान्तरेश्वरत्वेन तस्येश्वरवचो भवेत् ।
अतो मध्यमतामाहुस्तस्य वेदेषु वेदिनः ।
अनन्येश्वरता प्राणे तदन्येश्वरवर्जनात् ।
यतो विशेषवाक्येन ह्रियते समतावचः’ ।
‘नान्योऽतोऽस्तिद्रष्टा’’नान्यदतोऽस्ति द्रष्टृ’
इत्यादिवचनयुक्तय आदिशब्दोक्ताः ॥ 11 ॥

ॐ अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॐ ॥ 12-283 ॥
इतरेषां प्राणानां करणत्वान्मुख्यस्याकरणत्वात् तस्यानेभ्य उत्तमत्वं युज्यते । माण्डव्यश्रुतिश्च –
‘तानि ह वा एतानि सर्वाणि करणान्यथ प्राण
एवाकरणस्तस्मान्मुख्यस्तस्मान्मुख्य इत्याचक्षते’ इति ॥ 12 ॥
॥ इति चक्षुराद्यधिकरणम् ॥ 07 ॥
‘सर्वे वा एते मुख्यदासाः प्राणोऽपानो व्यान उदानः समान इति ।
‘अथ प्राणो वाव सम्राट्’ इति कौण्डिन्यश्रुतिः ।
‘प्राणापानादयः सर्वे मुख्यदासा यतेऽनिशम् ।
अतस्तदाज्ञया नित्यं स्वानि कर्माणि कुर्वते’ इति युक्तिर्वायुप्रोक्ते ।
‘मुख्यस्यैव स्वरूपाणि प्राणाध्याः पञ्चवायवः ।
स एव प्राणिनां देहे पञ्चधा वर्ततेऽनिशम्’ इति च गौपमश्रुतिः ।
अतो वक्ति-
ॐ पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॐ ॥ 13-284 ॥
‘अथ पञ्चवृत्तैतत्प्रवर्तते प्राणा वाव पञ्चवृत्तिः प्राणोऽपानो व्यान उदानः समान इति । तेभ्यो वा एतेभ्यः पञ्चदासाः प्रजायन्ते । प्राणाद्वावा प्राणेऽपानादपानो व्यानाद्व्यान उदानादुदानः समानादेव समानो यथा ह वै मनः पञ्चधा व्यपदिश्यते मनोबुद्धिरहङ्कारश्चित्तं चेतनेति । तेभ्यो वा एतेभ्यः पञ्च दासाः प्रजायन्ते । मनसो वाव मनो बुद्धेर्बुद्धिरहङ्कारादहङ्कारश्चित्ताच्छित्तं चेतनाया एव चेतनैवमिति’ इति
॥ इति पञ्चवृत्त्यधिकरणम् ॥ 08 ॥
‘प्राण एवाधस्तात् प्राण उपरिष्ठात् प्राणो मध्यतः प्राणः सर्वतः प्राण एवेदं सर्वम्’ इति प्राणस्य व्याप्तिः प्रतीयते ।
‘यतः सर्वं जगद्व्याप्य तिष्ठति प्राण एव तु ।
अतो धृतं जगत् सर्वमन्यथा केन धार्यते’इति च युक्तिर्वायुप्रोक्ते ।
‘अणुनैतत्सृज्यतेऽणुनैतद्धार्यते अणौ लयमभ्युपैति प्राणो वा अणुः प्राणो ह्येतद्भवति’ इति च सौत्रायणश्रुतिः ॥
अत आह –
ॐ अणुश्च ॐ ॥ 14-285 ॥
स वा एष प्राणोऽणुर्महान्नामाऽन्तर्वाऽणुर्बर्हिर्महान् प्राणो वा ईशितव्येश ईशो ह्यसौ सर्वस्येशितव्यश्च परस्य’ इति हि कौण्डिन्यश्रुतिः ॥ 14 ॥
॥ इति प्राणाणुत्वाधिकरणम् ॥ 09 ॥
करणत्वं प्राणानामुक्तम् ।
‘जीवस्य करणान्याहुः प्राणानेतांस्तु सर्वशः।
यस्मात् तद्वशगा एते दृश्यन्ते सर्वदेहिषु’
इति सौत्रायणश्रुतौ सयुक्तिकं जीवकरणत्वं प्रतीयते।
‘ब्रह्मणो वा एतानि करणानि चक्षुः श्रोत्रं मनो वागिति तद्द्येतैः कारयति’ इति काषायणश्रुतौ । अत आह –
ॐ ज्योतिराद्यधिष्ठानं तु तदामननात् ॐ ॥ 15-286 ॥
यज्ज्योतिराद्यधिष्ठानं ब्रह्म तदेवैतैः करणैः प्रवर्तयति।
‘यः प्राणे तिष्ठन्’ इत्यादि तदामननात् ॥ 15 ॥
कथं जीवकरणत्वश्रुतिरित्यतो वक्ति –
ॐ प्राणवता शब्दात् ॐ ॥ 16-287 ॥
जीवेनैव स्वकरणैः कारयति परमात्मा । अतो न विरोधः । एष ह्यनेनात्मना चक्षुषा दर्शयति श्रोत्रेण श्रावयति मनसा मनयति बुद्ध्या बोधयति तस्मादेतावाहुः सृतिरसृतिरिति’ इति भाल्लवेयश्रुतेः ।
‘करणैः कारणं ब्रह्म पुरुषापेक्षयाऽखिलम् ।
श्रोत्रादिभिः कारयति करणानीत्यतो विदुः ।
न जीवापेक्षया मुख्यं कारयेत् परमेश्वरः ।
केवलात्मेच्छया तस्मान्मुख्यत्वं तस्य निश्चितम्’ इति वाराहे ॥ 16 ॥
ॐ तस्य च नित्यत्वात् ॐ ॥ 17-288 ॥
अनादिनित्यत्वाज्जीवकरणसम्बन्धस्य युज्यते तत्करणत्वश्रुतिः ।’अथावियोगीनि । करणैर्र्वाव न वियुज्यते देहेनैव वियुज्यत इत्येतद्वाव करणानां करणत्वं यद्वाव न वियुज्यते’ इति गौपवनश्रुतिः ।
चशब्दः करणसम्बन्धग्राही ॥ 17 ॥
॥ इति ज्योतिराद्यधिकरणम् ॥ 10 ॥
‘अथेन्द्रियाणि प्राणा वा इन्द्रियाणि प्राणा हीदं द्रवन्ति’
इति सयुक्तिकपौत्रायणश्रुतिः सामान्येन प्राणानामिन्द्रियत्वं वक्ति ।
‘द्वादशैवेन्द्रियाण्याहुर्मनोबुद्धी तु द्वादश’ इति च काषायणश्रुतिः
अतः कस्येन्द्रियत्वं निवार्यत इत्यतो वक्ति-
ॐ त इन्द्रियाण् तद्व्यपदेशादन्यत्र श्रेष्ठात् ॐ ॥ 18-289 ॥
मुख्यप्राणमृते त एवेन्द्रियाणि ।
‘द्वादशैवेन्द्रियाण्याहुः प्राणो मुख्यस्त्वनिन्द्रियम् ।
द्रवतां हीन्द्रियाणां तु नियन्ता प्राण एकराट्’ इति पौत्रायणश्रुतिः ।
‘श्रोत्रादीनि तु पञ्चैव तथा वागादिपञ्चकम् ।
मनोबुद्धिसहायानि द्वादशैवेन्द्रियाणि तु ।
विषयद्रवणात् तेषामिन्द्रियत्वमुदाहृतम् ।
तेषां नियामकः प्राणः स्थित एवाखिलप्रभुः’ इति बृहत्संहितायाम् ॥18॥
ॐ भेदश्रुतेः ॐ ॥ 19-290 ॥
‘स्थित एव हीदं मुख्यप्राणः करोति कारयति बलति बालयति धत्ते धारयति प्रभुं वा एनमाहुरथेन्द्रियाणि न स्थितानि न कुर्वन्ति न कारयन्ति न बलन्ति न बालयन्ति न दधते न धारयन्ति तानि ह वा एतान्यबलानि तस्मादाहुरिन्द्रियाणि करणानि’ इति पौत्रायणश्रुतेः ॥ 19 ॥
ॐ वैलक्षण्याच्च ॐ ॥ 20-291 ॥
पुरुषापेक्षया प्रवृत्तिरिन्द्रियाणां दृष्यते न मुख्यस्य ।
‘प्राणाग्नय एवैतस्मिन् पुरे जाग्रति’ इति च श्रुतेः ॥ 20 ॥
॥ इति इन्द्रियाधिकरणम् ॥ 11 ॥
‘विरिञ्चो वा इदं सर्वं विरेचयति विदधाति ब्रह्मा वाव विरिञ्च एतस्माद्धीमे रूपनामानी’ इति गौपवनश्रुतिः ॥
‘यस्माद्विरेचयेत् सर्वं विरिञ्चस्तेन भण्यते ।
एको हि कर्ता जगतो ब्रह्मैव च चतुर्मुखः’ इति च युक्तिर्ब्राह्मे ।
अथ कस्मादुच्यते परम इति परमाद्ध्येते नामरूपे व्याक्रियेते तस्मादेनमाहुः परम इति । अथ कस्मादुच्यते ब्रह्मेति बृहत्त्वाद् बृंहणत्वाच्च’ इत्याग्निवेश्यश्रुतिः ।
अत आह-
ॐ सङ्ज्ञामूर्तिक्लृप्तिस्तुत्रि वृत्कुर्वत उपदेशात् ॐ॥ 21-292 ॥
नामरूपक्लृप्तिः परादेव।
‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन् य आस्ते’
इति श्रुतेः।
त्रिवृत्कुर्वत इति हेतुगर्भः । त्रिवृत्करणापेक्षत्वान्नामरूपयोः ॥
‘सर्वनाम्नां च रूपाणां व्यवहारेषु केशवः ।
एक एव यतः स्रष्टा ब्रह्माद्यास्तदवान्तराः’ इति च पाद्मे ॥
‘त्रिवृत्क्रिया यतो विष्णो रूपं च तदपेक्षया ।
रूपापेक्षं तथा नाम व्यवहारस्तदात्मकः ॥
अतो नाम्नश्च रूपस्य व्यवहारस्य चैकराट् ।
हरिरेव यतः कर्ता पिताऽतो भगवान् प्रभुः’ इति च ब्रह्माण्डे ॥ 21 ॥
॥ इति सङ्ज्ञाधिकरणम् ॥ 12 ॥
‘अद्ब्यो हीदमुत्पद्यते आपो वाव मांसमस्थि च भवन्त्यापः शरीरमाप एवेदं सर्वम्’ इति कौण्डिन्य श्रुतिः ।
‘अम्मयं तु यतो मांसमतस्तृप्तिश्च मांसतः’ इति च भारते ।
‘पृथिवी शरीरमाकाशमात्मा’ इति च
अतो ब्रवीति –
ॐ मांसादि भौमं यथाशब्दमितरयोश्च ॐ ॥ 22-293 ॥
‘यत् कठिनं सा पृथिवी यद्द्रवं तदापो यदुष्णं तत् तेजः’
इति श्रुतेर्मांसाद्येव भौमं न सर्वशरीरम्। अप्तेजसोश्च कार्यं यथाशब्दमङ्गीकर्तव्यम् ॥
‘यद्वा वाऽथो विमिश्रं मिश्राद्ध्येतद्भवति मिश्राणि हि भूतानि तस्मादेवैवमाचक्षते भूतानि’ इति हि काषायणश्रुतिः ।
‘पञ्चभूतात्मकं सर्वं तदप्येकविवक्षया ।
एकभूतात्मकत्वेन व्यवहारस्तु वैदिके ।
भौममित्येव काठिन्याच्छौक्ल्यादौदकमित्यपि ।
तेजिष्टत्त्वात् तैजसं च यथाऽस्थ्नां वचनं श्रुतौ’ इति वायुप्रोक्ते ॥22॥
कथं तर्हि विशेषवचनमित्यत आह-
ॐ वैशेष्यात् तु तद्वादस्तद्वादः ॐ ॥ 23-294 ॥
भूतानां विशेषसंयोगादेव विशेषव्यवहारः ।
‘पार्थिवानां शरीराणामर्धेन पृथिवी स्मृताः ।
इतरेऽर्धे त्रिभागिन्य आपस्तेजस्तुभागतः ॥
इति सामान्यतो ज्ञेयं भेदश्च प्रतिपूरुषम् ।
स्वर्गस्थानां शरीराणामर्धं तेज उदाहृतम्’
इति च ब्रह्मसंहितायाम् ॥
सर्वाध्यायार्थावधारणार्थऽध्यायान्ते द्विरुक्तिः।
गारुडे च-
‘अध्यायान्ते द्विरुक्तिः स्याद्वेदे वा वैदिकेऽपि वा ।
विचारो यत्र सज्ज्येत पूर्वोक्तस्यावधारणे ॥
अनुक्तानां प्रमाणानां स्वीकारश्च कृतो भवेत् ।
विनिन्द्य चेतरान् मार्गान् सम्पूर्णफलता तथा ॥ इति ॥ 23 ॥
इति मांसा(ध्य)धिकरणम् ॥ 13 ॥
॥ इति श्रीमद्ब्रह्मसूत्रे द्वितीयाध्यायस्य चतुर्थः पादः॥ 02-04 ॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये द्वितीयाध्यायः (अविरोधाध्यायः) ॥ 02 ॥

तृतीयाध्यायः (साधनाध्यायः) ॥03॥

प्रथमः पादः॥ 03-01 ॥

साधनविचारोऽयमध्यायः । वैराग्यार्थे गत्यादिनिरूपणा प्रथमपादे।
भूतबन्धो हि बन्धः।
‘भूतबन्धस्तु संसारो मुक्तिस्तेभ्यो विमोचनम्’ इति वाराहे ।
तच्च मरणे भवति।
भूतानां विनिवृत्तिस्तु मरणं समुदाहृतम् ।
भूतानां सम्प्रयोगश्च जनिरित्येव पण्डितैः’ इति च भारते ॥
अतः किं साधनैरित्यत आह-
ॐ तदन्तरप्रतिपत्तौरंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॐ ॥ 01-295 ॥
शरीरान्तरप्रतिपत्तौ भूतसम्परिष्वक्त एव गच्छति ।
‘वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’
‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’
इति प्रश्नपरिहाराभ्याम् ॥ 01 ॥
इति तदन्तराधिकरणम् ॥ 01 ॥
ॐ त्र्यात्मकत्वात् तु भूयस्त्वात् ॐ ॥ 02-296 ॥
अप्छब्दस्तुत्र्यात्मकत्वादुज्यते । भूयस्त्वाच्चापाम् ।
‘तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः’इति च भागवते॥02॥
॥ इति त्र्यात्मकत्वाधिकरणम् ॥ 02 ॥
ॐ प्राणगतेश्च ॐ ॥ 03-297 ॥
‘यत्र वाव भूतानि तत्र करणानि नित्यानि ह वा एतानि भूतानि च करणानि च नैतानि कदाचिद्वियुज्यन्ते न च विलीयन्ते’
इति भाल्लवेयश्रुतेः प्राणगतेर्भूतान्यपि सन्ति इति सिद्धम् ॥ 03 ॥
॥ इति प्राणागत्यधिकरणम् ॥ 03 ॥
ॐ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॐ ॥ 04-298 ॥
‘यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणः’ इत्यादिश्रुतेर्न प्राणानां जीवेन सह गतिरिति चेन्न भागतोऽग्न्यादिप्राप्तेः ।
‘पुरुषस्य मृतौ ब्रह्मन् प्राणा भागत एव तु
अधिदैवं प्राप्नुवन्ति भागतोऽनुव्रजन्ति तम् ।
पुनः शरीरसम्प्राप्तौतमेवानुविशन्ति च’ इति ब्राह्मे ।
ब्रह्माण्डे च-
‘मृतिकाले जहत्येनं प्राणा भूतानि पञ्च च ।
भागतो भागतस्त्वेनमनुगच्छन्ति सर्वशः’ इति ॥ 04 ॥
॥ इति अग्न्याद्यधिकरणम् ॥ 04 ॥
ॐ प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॐ ॥ 05-299 ॥
‘तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति’ इति प्रथमाग्नौ श्रूयते न भूतानि जुह्वतीति। अतो नेति चेन्न। ता एव प्रस्तुता आपः श्रद्धारूपेण हूयन्ते ।‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इत्युपसंहारोपपत्तेः ॥05॥
॥ इति प्रथमश्रवणाधिकरणम्॥ 05 ॥
ॐ अश्रुतत्वादिति चेन्नेष्टादिकारिणं प्रतीतेः ॐ ॥ 06-300 ॥
अग्न्यादिगतिः प्रत्यक्षतः श्रूयते। अतः प्रत्यक्षाश्रवणान्न युक्तमिति चेन्न।
‘अथैनं यजमानं किं न जहाति भूतान्येव भूतैरेव गच्छति भूतैर्भुङ्ते भूतैरुत्पद्यते भूतैश्चरति भूतैर्विचरति’ इति कौण्ठरव्यश्रुतौ प्रतीतेः ॥ 06 ॥
॥ इति अश्रुतत्वाधिकरणम् ॥ 06 ॥
‘अपाम सोमममृता अभूम’ इत्यादिश्रुतिविरोध इत्यतो वक्ति-
ॐ भाक्तं वाऽनात्मवित्त्वात् तथा हि दर्शयति ॐ॥ 07-301 ॥
भागतस्तदमृतत्वम् ।’नान्यः पन्था अयनाय विद्यते’ इति श्रुतेरात्मविद एव हि मुख्यम् । वाशब्दात् पारम्पर्येणात्मविदपेक्षया वा । तथा हि श्रुतिः –
‘स एनमविदितो न भुनक्ति यथा वेदो वाऽननूक्तोऽन्यद्वाकर्माकृतं यदि ह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्तततः क्षीयत एवात्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्द्येवात्मनो यद्यत्कामयते तत्तत् सृजते’
‘अमृतो वाव सोमपो भवति यावदिन्द्रो योवन्मनुर्यावदादित्यः’।
‘कर्मणा ज्ञानमातनोति ज्ञानेनामृतीभवति अथामृतानि कर्माणि यत एनममृतत्वं नयन्ति’ इति च
॥ 07 ॥
॥ इति भाक्ताधिकरणम् ॥ 07 ॥
कृतस्य कर्मणो भोगेन क्षयान्मुक्तिरित्यत आह-
ॐ कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्याम् ॐ ॥ 08-302 ॥
‘ततः शेषेणेमं लोकमायाति पुनः कर्म कुरुते पुनर्गच्छति पुनरागच्छति’ इति श्रुतेः –
‘भुक्तशेषानुशयवानिमां प्राप्य भुवं पुनः ।
कर्म कृत्वा पुनर्गच्छेत् पुनरायाति नित्यशः ॥
आचतुर्दशमाद्वर्षात् कर्माणि नियमेन तु ।
दशावराणां देहानां कारणानि करोत्ययम् ॥
अतः कर्मक्षयान्मुक्तिः कुत एव भविष्यति’
इत्यादिस्मृतेश्च शेषवानेवायाति ॥ 08 ॥
॥ इति कृतात्ययाधिकरणम् ॥ 08 ॥
‘यथेतमेव गच्छति यथेतमागच्छति स भुङ्क्ते स कर्म कुरुते स परिवर्तते’ इति गतिप्रकारेणागतिः प्रतीयते । अतो ब्रूते-
ॐ यथेतमनेवं च ॐ ॥ 09-303 ॥
‘धूमादभ्रमभ्रादाकाशमाकाशाच्चन्द्रलोकं यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धोमो भूत्वाऽभ्रं भवत्यभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति’ इति काषायणश्रुतेर्यथागतमन्यथा च॥09॥
॥इति यथेताधिकरणम् ॥ 09 ॥
ॐ चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः ॐ॥ 09-304 ॥
‘तद्य इह रमणीयचरणा रमणीयां योनिमापद्यन्ते कपूयचरणाः कपूयाम्’
इति श्रुतेश्चरणफलमेव गमनागमनं न यज्ञादिकृतः ।
‘आचार इति सम्प्रोक्तः कर्माङ्गत्वेन शुद्धिदः ।
अशुद्धिदस्त्वानाचारश्चरणं तूभयं मतम्’ ॥
इति स्मृतेरिति चेन्न, यज्ञाद्युपलक्षणार्था चरणादिश्रुतिरिति कार्ष्णाजिनिर्मन्यते ॥ 10 ॥
ॐ आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॐ ॥ 11-305 ॥
तर्हि रमणीयाः कपूया इत्येव स्यात् । चरणशब्दस्यानर्थक्यमिति चेन्न। चरणापेक्षत्वाद्रमणीयत्वादेस्तज्ज्ञापनार्थत्वेनोपपत्तेः ॥ 11 ॥
ॐ सुकृतदुष्कृते एवेति तु बादरिः ॐ ॥ 12-306 ॥
‘धर्मं चरत माऽधर्मम्’ इत्यादिप्रयोगात् सुकृतदुश्कृते एव चरणशब्दोक्ते इति बादरिर्मन्यते । तुशब्दात् स्वसिद्धान्तोऽपि स एवेति सूचयति।
‘तुशब्दस्तुविशेषे स्यात् स्वसिद्धान्तेऽवधारणे’ इति च नाममहोदधौ ॥ 12 ॥
॥ इति चरणाधिकरणम् ॥ 10 ॥
पुण्याकृतामेव गमनागमने नेतरेषामित्यत आह-
ॐ अनिष्टादिकारिणामपि च श्रुतम् ॐ ॥ 13-307 ॥
‘तद्यइह शुभाकृतो ये वाऽशुभकृतस्तेऽशुभमनुभूयावर्तन्ते पुनः कर्म कुर्वन्ति पुनर्गच्छन्ति पुनरागच्छन्ति’ इति भाल्लवेयश्रुतौ ॥ 13 ॥
ॐ संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॐ ॥ 14-308 ॥
संयमनमनुभूय केषांचिदारोहः केषांचिदवरोहः । तुशब्दोऽवधारणे ॥
‘सर्वे वा एतेऽशुभकृतः संयमने प्रपतन्ति तत्र ह ये परद्विषो गुरुद्विषः श्रुतिद्विषस्तदवमन्तारः शठा मूर्खा इति ते वै ततोऽवरुह्यतमसि प्रपतन्ति नैवैत उत्तिष्ठन्तेऽपि कर्हिचिद्वव्रं वा एतदित्याहुरथ येऽन्ये ब्रह्मद्विषः स्तेनाः सुरापा इति ते वै तदनुभूयेमं लोकमनुप्रजन्ति’ इति कौण्ठरव्यश्रुतेः ॥ 04 ॥
ॐ स्मरन्ति च ॐ ॥ 15-309 ॥
‘गच्छन्ति पापिनः सर्वे नरकं नात्र संशयः ।
तत्र भुक्त्वा पतन्त्येव ये द्विषन्ति जनार्दनम् ।
महातमसि मग्नानां न तेषामुत्थितिः क्वचित् ।
इतरेषां तु पापानां व्युत्थानं विद्यतेऽपि च ।
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
इति सर्वत्र नियमः पञ्चकष्टे तु तत् सदा’ इत्यादि ॥ 15 ॥
॥ इति अनिष्टादिकार्यधिकरणम् ॥ 11 ॥
ॐ अपि सप्त ॐ ॥ 16-310 ॥
‘रौरवोऽथ महांश्चैव वह्निर्वैतरणी तथा ।
कुम्भीपाक इति प्रोक्तान्यनित्यनरकाणि तु ॥
तामिस्रश्चान्धतामिस्रो द्वौ नित्यौ सम्प्रकीर्तितौ ।
इति सप्तप्रधानानि बलीयस्तूत्तरोत्तरम् ।
एतानि क्रमशो गत्वैवारोहोऽथावरोहणम्’ इति च भारते ॥ 16 ॥
॥ इति सप्ताधिकरणम् ॥ 12 ॥
ईश्वरस्य नरकायुक्तेः ‘सर्वं विसृजति सर्वं विलापयति सर्वं रमयति सर्वं न रमयति सर्वं प्रवर्तयत्यन्तरस्मिन् निविष्टः’
इति कौषारवश्रुतिविरोध इत्यतो वक्ति –
ॐ तत्रापि च तद्व्यापारादविरोधः ॐ ॥ 17-311 ॥
चशब्दाददुःखानुभवेन ।
‘स स्वर्गे स भूमौ स नरके सोऽन्धे तमसि प्रवृत्तिकृदेक एवानुविष्टो नासौ दुःखभुगीश्वरः प्रभुत्वात् सर्वं पश्यति सर्वं कारयति नासौ दुःखभुग्य एवं वेद’ इति पौत्रायणश्रुतेरविरोधः ।
‘नरकेऽपि वसन्नीशो नासौ दुःखभुगुच्यते ।
नीचोच्चतैव दुःखादेर्भोग इत्यभिधीयते ॥
नासौ नीचोच्चतां याति पश्यत्येव प्रभुत्वतः’ इति भागवततन्त्रे ॥ 17 ॥
॥ इति तद्व्यापाराधिकरणम् ॥ 13 ॥
‘अथैतयोः पथोर्न कतरेण च तानीमानि क्षुद्रमिश्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयं स्थानम्’ इति गतिस्वातन्त्र्यं भूतानां प्रतीयत इत्यत आह-
ॐ विद्याकर्मणोरिति तु प्रकृतत्वात् ॐ ॥ 18-312 ॥
विद्याकर्मापेक्षयैतद्वचनम् । तयोरपि प्रकृतत्वात् ।
‘विद्यापथः कर्मपथो द्वौ पन्थानौ प्रकीर्तितौ ।
तद्वर्जितस्त्रिधा याति तिर्यग्वा नरकं तमः’ इति च भारते॥ 18 ॥
इति विद्याकर्माधिकरणम् ॥ 14 ॥
‘यत्र दुःखं सुखं तत्र सर्वत्रापि प्रतीयते ।
अपि नीचगतौ किञ्चित् किमु मानुषदेहिनः’
इति वचनान्महातमस्यपि सुखप्राप्तिरित्यत आह-
ॐ न तृतीये तथोपलब्धेः ॐ ॥ 19-313 ॥
‘अथाविद्वानकर्माऽवाग्गच्छति त्रिधा ह वाऽवाग्गतिस्तिर्यग्यातना तम इति । द्वेवाव सुखानुवृत्ते, न तमः सुखानुवृत्तं केवलं ह्येवात्र दुःखं भवति’ इति श्रुतेर्न तृतीयावाग्गतौ सुखम् ॥ 19 ॥
ॐ स्मर्यतेऽपि च लोके ॐ ॥ 20-314 ॥
‘तिर्यक्षु नरके चैव सुखलेशो विधीयते ।
नान्धे तमसि मग्नानां सुखलेशोऽपि कश्चन’ इति भविष्यत्पर्वणि ।
लोकसिद्धं चैतत्। चशब्दाल्लोकसिद्धिरपि स्मार्तेत्याह ।
‘अतिप्रिये यथा राजा न दुःखं सहते क्वचित् ।
अत्यप्रिये सुखमपि तथैव परमेश्वरः’ इति हि ब्राह्मे ॥ 20 ॥
ॐ दर्शनाच्च ॐ ॥ 21-315 ॥
‘नारायणप्रसादेन समिद्धज्ञानचक्षुषा ।
अत्यन्तदुःखसल्लीनान् निश्येषसुखवर्जितान् ॥
नित्यमेव तथाभूतान् विमिश्रांश्च गणान् बहून् ।
निरस्ताशेषदुःखांश्च नित्यानन्दैकभागिनः ॥
अपश्यत् त्रिविधान् ब्रह्मा साक्षादेव चतुर्मुखः’
इति दर्शनवचनाच्च पाद्मे॥ 21 ॥
ॐ तृतीये शब्दावरोधः संशोकजस्य ॐ ॥ 22-316 ॥
तृतीये तृतीयतमस श्रवणादेव शब्दानुसारेण संशोकजमोहप्राप्तिः ॥ 22 ॥
ॐ स्मरणाच्च ॐ ॥ 23-317 ॥
‘महातमस्त्रिधा प्रोक्तमूर्ध्वं मध्यं तथाऽधरम् ।
श्रवणादेव मूर्च्छादिरधरस्य यतो भवेत् ॥
तस्मान्न विस्तरेण्यैतत् कथ्यते राजसत्तम’ इति कौर्मे ॥ 23 ॥
॥ इति महातमोऽधिकरणम् (नतृतीयाधिकरणम्) ॥ 15 ॥
‘धूमो भूत्वाऽभ्रं भवति’ इत्याद्यन्यभावः श्रूयते । स कथमित्यतो ब्रवीति-
ॐ तत्स्वाभाव्यापत्तिरुपपत्तेः ॐ ॥ 24-318 ॥
धूमादिषु प्रविश्य तद्गतौ गतिः स्थितौ स्थितिरित्यादिरेव तद्भावापत्तिः । न ह्यन्यस्यान्यभावो युज्यते । न च तत्पदप्राप्तिः । गारुडे च-
धूमादिभावप्राप्तिश्च तद्गतौ गतिरेव तु ।
स्थितौ स्थितिः प्रवशश्च लघुत्वादिस्तथैव च ॥
न ह्यन्यस्यान्यथाभावो न च तत्पदमिष्यते ।
विद्यागम्यं पदं यस्मात् न तत्प्राप्यं हि कर्मणा॥
एकदेशस्वभावेन वागभेदाऽपि युज्यते ।
यथा जीवः परं ब्रह्म ब्रह्मेदं जगदित्यपि’ इति ॥ 24 ॥
॥ इति तत्स्वाभाव्याधिकरणम् ॥ 16 ॥
बहुस्थानगमनात् कल्पान्तमप्येवं स्यादित्यत आह-
ॐ नातिचिरेण विशेषात् ॐ ॥ 25-319 ॥
‘तद्य इह रमणीयचरणा अभ्याशो ह यत् ते रमणीयां योनिमापद्यन्ते’ इति विशेषान्नातिचिरेण ॥
स्वर्गाल्लोकादवाक् प्राप्तो वत्सरात्पूर्वमेव तु ।
मातुः शरीरमाप्नोति पर्यटन् यत्र तत्र च’ इति च नारदीये ॥ 25 ॥
॥ इति नातिचिरेणाधिकरणम् (अचिरप्राप्त्यधिकरणम्) ॥ 17 ॥
‘त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते’
इति श्रवणादनर्थफलत्वं यज्ञादेरित्यतो वक्ति-
ॐ अन्याधिष्ठिते पूर्ववदभिलापात् ॐ ॥ 26-320 ॥
अन्याधिष्ठिते व्रीह्यादिशरीरे प्रवेशः । न तु भोगोऽस्य । ‘धूमोभूत्वाऽभ्रं भवति’ इत्यादिपूर्वोक्तिवत् ॥
‘सोऽवाग्गतः स्थावरान् प्रविश्याभोगेनैव व्रजन् स्थूलं शरीरमेति स्थूलाच्छरीराद्भोगाननुभुङ्क्ते’ इत्यभिलापात् कौषारवश्रुतौ ।
‘स्वर्गादवाग्गतो देही व्रीह्यादीतरदेहगः ।
अभुञ्जंस्तु क्रमेणैव देहमाप्नोति कालतः’ इति वाराहे ॥ 26 ॥
ॐ अशुद्धमिति चेन्न शब्दात् ॐ ॥ 27-321 ॥
हिंसारूपत्वात् पापस्यापि सम्भवाद्धुःखं च भवत्विति चेन्न। शब्दविहितत्वात्॥
‘हिंसा त्ववैदिका या तु तयाऽनर्थो ध्रुवं भवेत्।
वेदोक्तया हिंसया तु नैवानर्थः कथञ्चन’ इति वाराहे॥ 27 ॥
॥ इति अन्या(धिष्ठिता)धिकरणम् ॥ 18 ॥
‘स्वर्गादवाग्गतश्चापि मातुरेवोदरं व्रजेत्’ इति वचनात्
‘य एव गृही भवति यो वा रेतः सिञ्चति तमेवानुविशति’
इति श्रुतिः कथमित्यत आह-
ॐ रेतःसिग्योगोऽथ ॐ ॥ 28-322 ॥
‘ततो रेतस्सिचमेवानुप्रविशत्यथ मातरमथ प्रसूयते स कर्म कुरुते’
इति कौण्ठरव्यश्रुतेः पितरमेव प्रथमतो विशति। मातृप्राप्तेः पश्चादपि भाव्यत्वात् ॥ 28 ॥
॥ इति रेतोऽधिकरणम् ॥ 19 ॥
‘देहं गर्भस्थितं क्वापि प्रविशेत् स्वर्गतो गतः’
इति वचनात् पश्चादेव प्रविशतीत्यत आह-
ॐ योनेः शरीरम् ॐ ॥ 29-323 ॥
पितृशरीरान्मातृयोनिमनुप्रविश्य तत एव शरीरमाप्नोति ।
‘दिवः स्थास्नून् गच्छति स्थास्नुभ्यः पितरं पितुर्मातरं मातुः शरीरं शरीरेण जायत इति सम्मितम् । अथासम्मितं स्थास्नुभ्यो जायते पितुर्मातुरन्तरे वा गर्भे वा बहिर्वा’ इति पौष्यायणश्रुतेः ॥
‘स्थावराणि दिवः प्राप्तः स्थावरेभ्यश्च पूरुषम् ।
पुरुषात् स्त्रियमापन्नस्ततो देहं यथाक्रमम् ॥
देहेन जायते जन्तुरिति सामान्यतो जनिः ।
विशेषजननं चापि प्रोच्यमानं निबोध मे ॥
स्थास्नुष्वथापि पुरुषे प्रमादायामथापि वा ।
गर्भे वा बहिरेवाथ क्वचित् स्थानान्तरेषु च’ इति ब्राह्मे ॥ 29 ॥
॥ इति योन्यधिकरणम् ॥ 20 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्र भाष्ये तृतीयाध्यायस्य प्रथमः पादः ॥ 03-01 ॥

द्वितीयः पादः॥ 03-02 ॥

भक्तिरस्मिन् पाद उच्यते। भक्त्यर्थं भगवन्महिमोक्तिः।
ॐ सन्ध्ये सृष्टिराह हि ॐ ॥ 01-324 ॥
न स्वप्नोऽपि तं विना प्रतीयते ।
‘न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ ।
रथान् रथयोगान् पथः सृजते’ इत्यादि श्रुतेः ॥ 01 ॥
ॐ निर्मातारं चैके पुत्रादयश्च ॐ ॥ 02-325 ॥
‘य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्ममाणः’ इति च ।
‘एतस्माद्द्येव पुत्रो जायत एतस्माद्ब्रातैतस्माद्भार्या यदेनं पुरुषमेष स्वप्नेनाभिहन्ति’ इति गौपवनश्रुतिश्च ॥ 02 ॥
केन साधनेन ?-
ॐ मायामात्रं तु कार्त्स्न्येनानभिव्यक्त स्वरूपत्वात् ॐ ॥03-326॥
अनादिमनोगतान् संस्कारान् स्वेच्छामात्रेण प्रदर्शयति नान्येन साधनेन, सम्यगनभिव्यक्तत्वात् । ब्रह्माण्डे च –
‘मनोगतांस्तु संस्कारान् स्वेच्छया परमेश्वरः ।
प्रदर्शयति जीवाय स्वप्न इति गीयते ॥
यदन्यथात्वं जाग्रत्त्वं सा भ्रान्तिस्तत्र तत्कृता ।
अनभिव्यक्तरूपत्वान्नान्यसाधनजं भवेत्’ इति ॥ 03 ॥
ॐ सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॐ ॥ 04-327 ॥
साधनांतराभावेऽपि भावाभावसूचकत्वेन चेश्वरो दर्शयति ।
‘यदा कर्मसु काम्येषु स्त्रियं स्वप्नेऽभिपश्यति ।
समृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने’ इत्यादिश्रुतेः ।
हिशब्दाद्दर्शनाच्च ।
‘यद्वाऽपि ब्राह्मणो ब्रूयाद्देवता वृषभोऽपि वा ।
स्वप्नस्थमथवा राजा तत् तथैव भविष्यति’ ॥
इत्याद्याचक्षते च स्वप्नविधो व्यासादयः ॥ 04 ॥
॥ इति सन्ध्याधिकरणम् ॥ 01 ॥
ॐ पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ ॥05-328॥
बन्धमोक्षप्रदत्वात् स एव स्वप्नतिरस्कर्ता ।
‘स्वप्नादिबुद्धिकर्ता च तिरस्कर्ता स एव च ।
तदिच्छया यतो ह्यस्य बन्धमोक्षौ प्रतिष्ठितौ’ इति कौर्मे ॥ 05 ॥
॥ इति पराभिध्यानाधिकरणम्॥ 02 ॥
ॐ देहयोगाद्वासोऽपि ॐ ॥ 06-329 ॥
देहयोगेन वासो जाग्रदपि तत एव ।
‘स एव जागरिते स्थापयति स स्वप्ने स प्रभुस्तुराषाट् स एको बहुधा भवति’ इति कौण्ठरव्यश्रुतेः
॥ 06 ॥
॥ इति देहयोगाधिकरणम् ॥ 03 ॥
ॐ तदभावो नाडीषु तच्छ्रुतेरात्मनि ह ॐ ॥ 07-330 ॥
जाग्रत्स्वप्नाभावः सुप्तिः नाडीस्थे परमात्मनि ।
‘आसु तदा नाडीषु सुप्तो भवति’
‘सता सोम्य तदा सम्पन्नो भवति’ इति श्रुतेः ॥ 07 ॥
॥ इति तदभावाधिकरणम् ॥ 04 ॥
ॐ अतः प्रभोधोऽस्मात् ॐ ॥ 08-331 ॥
यतस्तस्मिन् सुप्तिः ॥
‘एष एव सुप्तं प्रभोधयत्येतस्माज्जीव उत्तिष्ठत्येष प्रमातै ष परमः’ इति कौण्डिन्यश्रुतिः ॥ 08 ॥
॥ इति प्रभोधाधिकरणम्॥ 05 ॥
ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ ॥ 09-332 ॥
न च केषांचित् स्वप्नादिकर्ता न तु सर्वेषामिति ।
‘एष ह्येव साधु कर्म कारयति’ इति कर्मण्यवधारणात् ॥
‘प्रदर्शकस्तु सर्वेषां स्वप्नादेरेक एव तु ।
परमः पुरुषो विष्णुस्ततोऽन्यो नास्ति कश्चन’ इत्यनुसारिस्मृतेश्च ॥
‘एष स्वप्नान् दर्शयत्येष प्रबोधयथ्यैष एव परम आनन्दः’
–इति च श्रुतिः ॥
आत्मानमेव लोकमुपासीत’ इति च विधिः ॥ 09 ॥
॥ इति कर्मानुस्मृत्यधिकरणम् ॥ 06 ॥
ॐ मुग्धेऽर्धसम्पत्तिः परिशेषात् ॐ ॥ 10-333 ॥
मोहावस्थायां परमेश्वरेऽर्धप्राप्तिर्जीवस्य ।
‘हृदयस्थात् पराज्जीवो दूरस्थो जाग्रदेष्यति ।
समीपस्थस्तथा स्वप्नं स्वपित्यस्मिन् लयं व्रजन् ॥
यत एवं त्रयोऽवस्था मोहस्तु परिशेषतः ।
अर्धप्राप्तिरिति ज्ञेयो दुःखमात्रप्रतिस्मृतेः’ इति वाराहे ॥
सोऽपि तत एवेति सिद्धम् ।
‘मूर्च्छा प्रबोधनं चैव यत एव प्रवर्तते ।
स ईशः परमो ज्ञेयः परमानन्दलक्षणः’ इति हि कौर्मे ॥ 10 ॥
॥ इति मुग्धप्राप्त्यधिकरणम् (सम्पत्त्यधिकरणम्) ॥ 07 ॥
स्वानापेक्षया, परमात्मनो भेदादनुग्राह्यानुग्राहकभाव इत्यत आह-
ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ ॥ 11-334 ॥
स्थानापेक्षयाऽपि परमात्मनो न भिन्नं रूपम् ।
‘सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते’ इति श्रुतिः ।
‘एकरूपः परो विष्णुः सर्वत्रापि न संशयः ।
ऐश्वर्याद्रूपमेकं च सूर्यवद्बहुधेयते’ इति मात्स्ये ॥
‘प्रतिदृशमिव नैकधाऽर्कमेकं समधिगतोऽस्मि विधूतभेदमोहः’
इति च भागवते ॥ 11 ॥
ॐ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॐ॥ 12-335 ॥
‘कार्यकारणबद्धौ ताविष्येते विश्वतेजसौ ।
प्राज्ञः कारणबद्धस्तुद्वौ तु तुर्ये न सिद्ध्यतः’ ॥
इति भेदवचनान्नेति चेन्न ।
‘एष त आत्माऽन्तर्याम्यमृतः’ ।
‘अयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्’ ।
‘अयं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि च ।
तदेतद्ब्रह्मापूपर्वमनपरमनन्तरमबाह्यमयामात्मा ब्रह्म सर्वानुभूरित्यनुशासनम्’ इति प्रत्येकमभेदवचनात् ॥ 12 ॥
ॐ अपि चैवमेके ॐ ॥ 13-336 ॥
एवमभेदेनैव । चशब्दादनन्तरूपत्वं चैके शाखिनः पठन्ति ।
‘अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः ।
ओङ्कारो विदितो येन स मुनिर्नेतरो जनः’ इति ।
अभेदेऽपि भेदव्यपदेशः स्थानभेदादैश्वर्ययोगाच्च युज्यते ।
ब्रह्मतर्के च-
‘बद्धो बन्धादिसाक्षित्वाद्भिन्नो भिन्नेषु संस्थितेः ।
निर्दोषाद्वयरूपोऽपि कथ्यते परमेश्वरः’ इति ॥ 13 ॥
॥ इति स्थान(तोऽप्य)भेदाधिकरणम् ॥ 08 ॥
रूपवत्त्वादनित्यत्वमित्यतो वक्ति-
ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ ॥ 14-337 ॥
प्रकृत्यादिप्रवर्तकत्वेन तदुत्तमत्वान्नैव रूपवद्ब्रह्म । हि शब्दाद्’अस्थूलमनणु’ इत्यादिश्रुतेश्च ।
‘भौतिकानि हि रूपाणि भूतेभ्योऽसौ परो यतः ।
अरूपवानतः प्रोक्तः क्व तदव्यक्ततः परे’ इति च मात्स्ये॥ 14 ॥
ॐ प्रकाशवच्चावैयर्थ्यम् ॐ ॥ 15-338 ॥
‘यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
‘श्यामाच्चबलं प्रपद्ये’‘सुवर्णज्योतिः’
इत्यादिश्रुतीनां च न वैयर्थ्यम् ।
विलक्षणरूपवत्वात् । यथा चक्षुरादिप्रकाशे विद्यमानेऽपि वैलक्षण्यादप्रकाशादिव्यवहारः ॥ 15 ॥
ॐ आह च तन्मात्रम् ॐ ॥ 16-339 ॥
वैलक्षण्यं चोच्यते रूपस्य विज्ञानानन्दमात्रत्वं’ऐकात्म्यप्रत्ययसारम्’ इति ।
आनन्दमात्रमजरं पुराणमेकं संतं बहुधा दृष्यमानम् ।
तमात्मस्थं योऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम्’
इति चतुर्वेदशिखायाम् ॥ 16 ॥
ॐ दर्शयति चाथो अपि स्मर्यते ॐ ॥ 17-340 ॥
दर्शयति चानन्दस्य रूपत्वं
‘तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति’ इति ॥
‘शुद्धस्फटिकसङ्काशं वासुदेवं निरञ्जनम् ।
चिन्तयीति यतिर्नान्यं ज्ञानरूपादृते हरेः’ इति च मात्स्ये॥ 17 ॥
॥ इति अरूपाधिकरणम् ॥ 09॥
ॐ अत एव चोपमा सूर्यकादिवत् ॐ ॥ 18-341 ॥
यस्मादेवं परमेश्वरस्वरूपाणां मिथो न कश्चिद्वेदः अतः सादृश्याज्जीवस्यापि तथा स्यादिति तस्य प्रतिबिम्बत्वमुक्त्वा च शब्देन भेदं दर्शयति ।
‘रूपं रूपं प्रतिरूपो बभूव’।
‘बहवः सूर्यका यद्वत् सूर्यस्य सदृशा जले ।
एवमेवात्मका लोके परात्मसदृशा मताः’ इत्यादि ॥
अथ एव भिन्नत्वतदधीनत्वतत्सादृश्यैरेव सूर्यकाद्युपमा, नोपाध्यधीनत्वादिना ॥ 18 ॥
॥ इति उपमाधिकरणम्॥ 10 ॥
नित्यसिद्धत्वात् सादृश्यस्य नित्यानन्दज्ञानादेर्न भक्तिज्ञानादिना प्रयोजनमित्यतो ब्रवीति-
ॐ अम्बुवदग्रहणात् तु न तथात्वम् ॐ ॥ 19-342 ॥
अम्बुवद् स्नेहेन । ग्रहणं ज्ञानम्। भक्तिं विना न तत्सादृश्यं सम्यगभिव्यज्यते ।
‘यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्’
इति हि श्रुतिः।
‘महित्वबुद्धिर्भक्तिस्तु स्नेहपूर्वाऽभिधीयते ।
तथैव व्यज्यते सम्यग्जीवरूपं सुखादिकम्’ इति पाद्मे ॥ 19 ॥
॥ इति अम्बुवदधिकरणम् ॥ 11 ॥
ॐ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॐ ॥20-343॥
तस्य च भक्तिज्ञानदेर्वृद्धिह्रासभाक्त्वं विद्यते । ब्रह्मादीनामुत्तमानां सर्वेषां भक्तत्वेऽन्तर्भावात् । एवं भक्त्यादिविशेषाङ्गीकारादेवेश्वरस्य ब्रह्मादीनन्यान् प्रति च सामञ्जस्यं भवति।
‘साधनस्योत्तमत्वेन साध्यं चोत्तममाप्नुयुः ।
ब्रह्मादयः क्रमेणैव यथाऽऽनन्दश्रुतौ श्रुताः’ इति च ब्राह्मे ॥ 20 ॥
कुतः? –
ॐ दर्शनाच्च ॐ ॥ 21-344 ॥
‘अथात आनन्दस्य मीमांसा भवति’ इत्यारभ्य ब्रह्मपर्यन्तेषु सुखे विशेषदर्शनात् । चशब्दात् स्मृतिः
यथा भक्तिविशेषोऽत्र दृष्यते पुरुषोत्तमे ।
तथा मुक्तिविशेषोऽपि ज्ञानिनां लिङ्गभेदने’ इति ॥ 21 ॥
॥ इति वृद्धिह्रासाधिकरणम् ॥ 12 ॥
सृष्टिसंहारकर्तृत्वमेवास्य न पालकत्वं स्वतः सिद्धेरित्यत आह-
ॐ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॐ ॥ 22-345 ॥
उक्तं सृष्टिसंहारकर्तृत्वमात्रं प्रतिषिध्य ततोऽधिकं ब्रवीति
‘नैतावदेना परो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति’ इति ।
च शब्दात् स्मृतिश्च ।
‘सृष्टिं च पालनं चैव संहारं नियमं तथा ।
एक एव करोतीशः सर्वस्य जगतो हरिः’ इति ब्रह्माण्डे ॥ 22 ॥
॥इति पालकत्वाधिकरणम् (प्रकृत्यधिकरणम्) ॥ 13 ॥
परमात्मापरोक्ष्यं च तत्प्रसादादेव न जीवशक्त्येति वक्तुमुच्यते-
ॐ तदव्यक्तमाह हि ॐ ॥ 23-346 ॥
अव्यक्तमेव तद्ब्रह्म स्वतः ।
‘अरूपमक्षरं ब्रह्म सदाऽव्यक्तं च निष्फलम्।
यज्ज्ञात्वा मुच्यते जन्तुरानन्दश्चाक्षयो भवेत्’ इति कौण्ठरव्यश्रुतिः ॥ 23 ॥
ॐ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॐ ॥ 24-347 ॥
आराधनेऽप्यव्यक्तमेव । ज्ञानिप्रत्यक्षेणेतरेषामतिसूक्ष्मत्वलिङ्गादनुमानेन।
‘न तमाराधयित्वाऽपि कश्चिद्वक्तीकरिष्यति ।
नित्याव्यक्तो यतो देवः परमात्मा सनातनः’ इति ब्रह्मवैवर्ते ॥ 24 ॥
नित्याव्यक्तरूपेण तथैव तिष्ठति। व्यक्तं किञ्चिद्रूपं गृहीत्वा दृश्यते । यधाऽग्न्यादयस्तन्मात्रारूपेणादृश्या अपि स्थूलरूपेण दृश्यन्त एवमिति चेन्न।
ॐ प्रकाशवच्चावैशेष्यम् ॐ ॥ 25-348 ॥
अग्न्यादिवत् स्थूलसूक्ष्मत्वविशेषाभावात्।
‘नासौ सूक्ष्मो न स्थूलः पर एव स भवति तस्मादाहुः परम इति’
इति माण्डव्यश्रुतेः ।
‘स्थूलसूक्ष्मविशेषोऽत्र न क्वचित् परमेश्वरे ।
सर्वत्रैकप्रकारोऽसौ सर्वरूपेष्वजो यतः’ इति च गारुडे ॥
‘अव्यक्तव्यक्तभावौ च न क्वचित् परमेश्वरे ।
सर्वत्राव्यक्तरूपोऽयं यत एव जनार्दनः’ इति च कौर्मे ॥ 25 ॥
तर्हि किं यत्नेनेत्यत आह-
ॐ प्रकाशश्च कर्मण्यभ्यासात् ॐ ॥ 26-349 ॥
विषयभूते तस्मिन्नेव श्रवाणाध्यभ्यासात् प्रकाशश्च भवति ।
आत्मा वा अरे द्रष्टव्यः श्रोदव्यो मन्तव्यो निदिध्यासितव्यः’
इति श्रुतेः ॥ 26 ॥
नित्याव्यक्तस्य कथं प्रकाशः इत्यत उच्यते-
ॐ अतोऽनन्तेन तथा हि लिङ्गम् ॐ ॥ 27-350 ॥
उभयत्र प्रमाणभावात् तत्प्रसादादेव प्रकाशो भवति ।
‘तस्याभिध्यानाद्योजनात् तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः’
इति लिङ्गात् ।
युज्यते च तस्यानन्तशक्तित्वात् ।
नित्याव्यक्तोऽपि भगवानीक्ष्यते निजशक्तितः।
तमृते परमात्मानं कः पश्येतामितं प्रभुम्’
इति नारायणाध्यात्मे॥37॥
॥ इति अव्यक्ताधिकरणम् ॥ 14 ॥
स्वरूपेणानन्दादिना कथमानन्दित्वादिरित्यत उच्यते-
ॐ उभयव्यपदेशात् त्त्वहिकुण्डलवत् ॐ ॥ 28-351 ॥
‘आनन्दं ब्रह्मणो विद्वान्’ ।’अथैष एव परम आनन्दः’
इत्युभयव्यपदेशादहिकुण्डलवदेव युज्यते । यथाऽहिः कुण्डली कुण्डलं च । तुशब्दात् केवलश्रुतिगम्यत्वं दर्शयति ॥ 28 ॥
ॐ प्रकाशाश्रयवद्वा तेजस्त्वात् ॐ ॥ 29-352 ॥
यथाऽऽदित्यस्य प्रकाशत्वं प्रकाशित्वं च, एवं वा दृष्टान्तः। तेजोरूपत्वाद्ब्रह्मणः ॥ 29 ॥
ॐ पूर्ववद्वा ॐ ॥ 30-353 ॥
यथैक एव कालः पूर्व इत्यवच्छेदकोऽवच्छेद्यश्च भवति। अतिसूक्ष्मत्वापेक्षयैष दृष्टान्तः। स्थूलमतीनां च प्रदर्शनार्थमहिकुण्डलदृष्टान्तः ।
प्रकाशवत् कालवद्वा यथाऽङ्गे शयनादिकम् ।
ब्रह्मणश्चैव मुक्तानामानन्दोऽभिन्न एव तु’ इति नारायणाध्यात्मे।
‘आनन्देन त्वभिन्नेन व्यवहारः प्रकाशवत्।
कालवद्वा यथा कालः स्वावच्छेदकतां व्रजेत्’ इति ब्राह्मे ॥ 30 ॥
ॐ प्रतिषेधाच्च ॐ ॥ 31-354 ॥
‘एकमेवाद्वितीयम्’ ।‘नेह नानाऽस्ति किञ्चन’ इति भेदस्य ॥ 31 ॥
॥ इति उभयव्यपदेशाधिकरणम् (अहिकुण्डलाधिकरणम्) ॥ 15 ॥
ॐ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॐ ॥ 32-355 ॥
न चानन्दादित्वाल्लोकानन्दादिवत् । ‘एष सेतुर्विधृति’ ‘य एष आनन्दः परस्य’‘एष नित्यो महिमा ब्राह्मणस्य’ इति सेतुत्वं ह्युच्यते.‘यतो वाचो निवर्तन्ते’ इत्युन्मानत्वम् ।‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ इति संबन्धः।
‘अन्यज्ञानं तु जीवानामन्यज्ज्ञानं परस्य च ।
नित्यानन्दाव्ययं पूर्णं परज्ञानं विधीयते’ इति भेदः ॥
अतोऽलौकिकत्वात् परमेव ब्रह्मानन्दादिकम् ॥ 32 ॥
ॐ दर्शनात् तु ॐ ॥ 33-356 ॥
दर्शनादेवचान्यानन्दादीनाम् ।
‘अदृष्टमव्यवहार्यमव्यपदेश्यं सुखं ज्ञानमोजो बलमिति ब्रह्मणस्तस्माद्ब्रह्मेत्याचक्षते तस्माद्ब्रह्मेत्याचक्षते’ इति कौण्डिन्यश्रुतिः ॥ 33 ॥
अप्रसिद्धस्य कथमानन्द इत्यादिव्यपदेश इत्यतो वक्ति –
ॐ बुद्ध्यर्थः पादवत् ॐ ॥ 34-357 ॥
जीवेश्वरसम्बन्धज्ञापनार्थमप्रसिद्धोऽपि पादो यथा पादशब्देन व्यपदिश्यते’पादोऽस्य विश्वा भूतानि’ इति तथा ।
‘अलौकिकोऽपि ज्ञानादिस्तच्छब्दैरेव भण्यते ।
ज्ञापनार्थाय लोकस्य यथा राजेव देवराट्’ इति च पाद्मे ॥ 34 ॥
॥ इति परानन्दा(परमता)धिकरणम् ॥16॥
परानन्दमात्रत्वे कथं ब्रह्माद्यानन्दादीनां विशेष इत्यत उच्यते –
ॐ स्थानविशेषात् प्रकाशादिवत् ॐ ॥ 35-358 ॥
यथाऽऽदित्यस्य दर्पणादिस्थानविशेषात् प्रतिबिम्बविशेष एवमानन्दादेरपि ।
‘ब्रह्मादिगुणवैशेष्यादानन्दः परमस्य च ।
प्रतिबिम्बत्वमायाति मध्योच्चादिविशेषतः’ इति वाराहे ॥ 35 ॥
ॐ उपपत्तेश्च ॐ ॥ 36-359 ॥
‘ऐश्वर्यात् परमाद्विष्णोर्भक्त्यादीनामनादितः ।
ब्रह्मादीनां सूपपन्ना ह्यानन्दादेर्विचित्रता’ इति हि पाद्मे ॥ 36 ॥
॥ इति स्थानविशेषाधिकरणम् ॥ 17 ॥
ध्यानकाले यच्चित्ते दृष्यते तदेव ब्रह्मरूपम् । अतः कथमव्यक्ततेत्यत आह-
ॐ तथाऽन्यत् प्रतिषेधात् ॐ ॥ 37-360 ॥
यथा जीवानन्दादेरन्यद्ब्रह्म तथोपासाकृतादपि ।
‘यन्मनसा न मनुते येनाहुर्मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ इति प्रतिषेधात् ।
‘पश्यन्ति परमं ब्रह्म चित्ते यत्प्रतिबिम्बितम् ।
ब्रह्मैव प्रतिबिम्बे यदतस्तेषां फलप्रदम् ॥
तदुपासनं च भवति प्रतिमोपासनं यथा ।
दृश्यते त्वपरोक्षेण ज्ञानेनैव परं पदम् ।
उपासना त्वापरोक्ष्यं गमयेत् तत्प्रसादतः’ इति च ब्रह्मतर्के ॥ 37 ॥
॥ इति प्रतिषेधाधिकरणम् (तथान्यत्वाधिकरणम्) ॥ 18 ॥
देशकालान्तरेऽन्यतोऽपि सृष्ट्याधिर्युक्तेत्यतो ब्रूते-
ॐ अनेन सर्वगतत्वमायामयशब्दादिभ्यः ॐ ॥ 38-361 ॥
सर्वदेशकालवस्तुष्वनेनैव सृष्ट्यादिकं प्रवर्तते ।
‘एष सर्व एष सर्वगत एष ईश्वर एषोऽचिन्त्य एष परमः’
इति भाल्लवेयश्रुतिः
‘सर्वत्र सर्वमेतस्मात् सर्वदा सर्ववस्तुषु ।
स्वरूपभूतया नित्यशक्त्या मायाख्यया यतः ॥
अतो मायामयं विष्णुं प्रवदन्ति सनातनम्’
इति चतुर्वेदशिखायाम् ॥
आदिशब्दादन्यत्र प्रमाणाभावाच्च ॥ 38 ॥
॥ इति सर्वगतत्वाधिकरणम् ॥ 19 ॥
कर्मापेक्षत्वात् फलदानस्य तदेव ददातीति न वाच्यम् । कुतः ?-
ॐ फलमत उपपत्तेः ॐ ॥ 39-362 ॥
अत एवेश्वरात् फलं भवति । न ह्यचेतनस्य स्वतः प्रवृत्तिर्युज्यते ॥ 39 ॥
ॐ श्रुतत्वाच्च ॐ ॥ 40-363 ॥
‘विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम्’ इति ॥ 40 ॥
ॐ धर्मं जैमिनिरत एव ॐ ॥ 41-364 ॥
यतः फलं तदेव कर्मेश्वराद्भवति ।’ एष ह्येव साधु कर्म कारयति’ इति श्रुतेरिति जैमिनिः ॥ 41 ॥
ॐ पूर्वं तु बादरायणो हेतु व्यपदेशात् ॐ ॥ 42-365 ॥
परस्य कर्मणश्चोभयोः फलकारणत्वेऽपि न कर्म परप्रवर्तकम् । पर एव कर्मप्रवर्तकः ।’पुण्येन पुण्यं लोकं नयति पापेन पापम्’ इति हेतुव्यपदेशात् ।’द्रव्यं कर्म च कालश्च’ इति च ॥ 42 ॥
॥ इति फलदानाधिकरणम् ॥ 20 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिते श्रीमद्ब्रह्मसूत्रभाष्ये तृतीयाध्यायस्य द्वितीयः पादः
॥ 03-02
तृतीयः पादः॥ 03-03 ॥
उपासनाऽस्मिन् पाद उच्यते। सर्वपरिज्ञानं प्रथमत उच्यते-
ॐ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॐ ॥ 01-366 ॥
अन्तो निर्णयः । ‘उभयोरपि दृष्टोऽन्तः’ इति वचनात् । सर्ववेद निर्णयोत्पाद्यज्ञानं ब्रह्म ।’आत्मेत्येवोपासीत’ इत्यादिविधीनां तदुक्त युक्तीनां चाविशिष्टत्वात् ॥ 01 ॥
ॐ भेदान्नेति चेदेकस्यामपि ॐ ॥ 02-367 ॥
‘विज्ञानमानन्दं ब्रह्म’’सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादि प्रतिशाखमुक्तिभेदान्नैकाधिकारिविषयाः सर्वशाखा इति चेन्न । एकस्यामपि शाखायां’आत्मेत्येवोपासीत’‘ॐ खं ब्रह्म’ इत्यादिभेददर्शनात्
॥ 02 ॥
ॐ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च ॐ ॥ 03-368 ॥
‘स्वाध्यायोऽध्येतव्यः’ इति सामान्यविधेः । हिशब्दात्
वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना’ इति स्मृतेः ।
‘सर्ववेदोक्तमार्गेण कर्म कुर्वीत नित्यशः ।
आनन्दो हि फलं यस्माच्छाखाभेदो ह्यशक्तिजः ॥
सर्वकर्मकृतौ यस्मादशक्ताः सर्वजन्तवः ।
शाखाभेदं कर्मभेदं व्यासस्तस्मादचीक्लृपत्’
इति समाचारे सर्वेषामधिकाराच्च ॥ 03 ॥
ॐ सलिलवच्च तन्नियमः ॐ ॥ 04-369 ॥
यथा सर्वं सलिलं समुद्रं गच्छत्येवं सर्वाणि वचनानि ब्रह्मज्ञानार्थानीति नियमः । आग्नेये च –
‘यथा नदीनां सलिलं शक्ये सागरगं भवेत् ।
एवं वाक्यानि सर्वाणि पुंशक्त्या ब्रह्मवित्तये’ इति ॥ 04 ॥
ॐ दर्शयति च ॐ ॥ 05-370 ॥
‘सर्वैश्च वेदैः परमो हि देवो जीज्ञास्योऽसौ नाल्पवेदैः प्रसिद्ध्येत् ।
तस्मादेनं सर्वेवेदानदीत्य विचार्य च ज्ञातुमिच्छेन्मुमुक्षुः’
इति चतुर्वेदशिखायाम् ।
‘सर्वान् वेदान् सेतिहासान् सपुराणान् सयुक्तिकान् ।
सपञ्चरात्रान् विज्ञाय विष्णुर्ज्ञेयो न चान्यथा’ इति ब्रह्मतर्के ॥ 05 ॥
॥ इति सर्वेवेदा(न्तप्रत्यया)धिकरणम् ॥ 01 ॥
सर्वैर्वेदैर्ज्ञेयो नोपास्योऽशक्यत्वादित्यत आह-
ॐ उपसंहारोऽर्थाभेदाद्विधिशेषवत् समाने च ॐ ॥ 06-371 ॥
सर्ववेदोक्तान् गुणान् दोषाभावांश्चोपसंहृत्यैव परमात्मोपास्यः ।
‘उपास्य एकः परतः परो यो वेदैश्च सर्वैः सह चेतीहासैः ।
सपञ्चरात्र्यै सपुराणैश्च देवः सर्वगुणैस्तत्र तत्र प्रतीतैः’
इति भाल्लवेयश्रुतिः ।
आग्नेये च-
विधिशेषाणि कर्माणि सर्ववेदोदितान्यपि ।
यथा कार्याणि सर्वैश्च सर्वाण्येवाविशेषतः ॥
एवं सर्वगुणान् सर्वदोषाभावांश्च यत्नतः ।
योजयित्वैव भगवानुपास्यो नान्यथा क्वचित्’ इति ॥
समानविषये चोपसंहारः । न तु’सोऽरोदीत्’ इत्यादिनाम्
गुणैरेव स तूपास्यो नैव दोषैः कथञ्चन।
गुणैरपि न तूपास्यो यो पूर्णत्वविरोधिनः’ इति बृहत्तन्त्रे ॥ 06 ॥
ॐ अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॐ ॥ 07-372 ॥
‘आत्मेत्येवैपासीत’ इतिशब्दादुपसंहारस्यान्यथात्वमिति चेन्न । एते गुणा नोपास्य इति विशेषवचनाभावात् ।
‘सर्वैर्गुणैरेक एवेशिताऽसावुपासितव्यो न तु दोषैः कदाचित्’
इति विशेषवचनाच्च
आत्मेत्यवधारणमनात्मत्वनिवृत्त्यर्थम् ॥ 07 ॥
ॐ न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् ॐ ॥ 08-373 ॥
प्रकरणभेदान्नवोपसंहारः कार्यः । परोवरीयस्त्वादिषु तावदेव ह्युक्तम् ॥ 08 ॥
ॐ सङ्ज्ञातश्चेत् तदुक्तमस्ति तु तदपि ॐ ॥ 09-374 ॥
सर्वविद्या’उक्त्वासोऽहं नामविदेवास्मि नात्मवित्’ इति वचनात् सर्वस्य ब्रह्मनामत्वात् तदुपसंहारः कार्यः ।
‘नामत्वात् सर्वविद्यानां गुणानामुपसंहृति ।
कार्यैव ब्रह्मणि परे नात्र कार्या विचारणा’ इति च ब्रह्मतर्के ॥
इति चेत् सत्यम् । उक्तो ह्युपसंहारः । तत्प्रमाणमप्यस्त्येव ।
‘नाम वा एता ब्रह्मणः सर्वविद्यास्तस्मादेकः सर्वगुणैर्विचिन्त्यः’
इति कौण्डिन्यश्रुतौ ॥ 09 ॥
॥ इति उपसंहाराधिकरणम्॥ 2 ॥
ॐ प्राप्तेश्च समञ्जसम् ॐ ॥ 10-375 ॥
युज्यते चोपसंहारोऽनुपसंहारश्च योग्यताविशेषात् ।
‘गुणैःसर्वैरुपास्योऽसौ ब्रह्मणा परमेश्वरः ।
अन्यैर्यथाक्रमं चैव मानुषैः कैश्चिदेव तु’ इति भविष्यत्पर्वणि ॥ 10 ॥
॥ इति प्राप्तैधिकरणम् ॥ 03 ॥
ॐ सर्वाभेदादन्यत्रेमे ॐ ॥ 11-376 ॥
सर्वगुणयुक्तत्वेनोपासनादन्यत्रैव फले ब्रह्मादयो भवन्ति ।
‘संपूर्णोपासनाद्ब्रह्मा संपूर्णानन्दभाग्भवेत् ।
इतरे तु यथायोगं सम्यङ् मुक्तौभवन्ति हि’ इति पाद्मे ॥ 11 ॥
॥ इति सर्वाभेदाधिकरणम् ॥ 04 ॥
सर्वेषां मुमुक्षूणां कियन्नियमेनोपास्यमिति आह-
ॐ आनन्दादयः प्रधानस्य ॐ ॥ 12-377 ॥
प्रधानफलस्य मोक्षस्यार्थे आनन्दो ज्ञानं सदात्मेत्युपास्य एव ।
‘सच्चिदानन्द आत्मेति ब्रह्मोपासा विनिश्चिता ।
सर्वेषां च मुमुक्षूणां फलसाम्यादपेक्षिता’ इति ब्रह्मतर्के ॥ 12 ॥
॥ इति आनन्दाद्यधिकरणम् ॥ 05 ॥
ॐ प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॐ ॥ 13-378 ॥
फलभेदार्थमुपचयापचययोर्भावान्न सर्वेषां प्रियशिरस्त्वादिगुणोपासाप्राप्तिः ।
‘नैव सर्वगुणाः सर्वैरुपास्या मुक्तिभेदतः ।
विरिञ्चस्यैव यन्मुक्तावानन्दस्य सुपूर्णता’ इति हि वाराहे ॥ 13 ॥
॥ इति प्रियशिरस्त्वाधिकरणम् ॥ 06 ॥
ॐ इतरे त्वर्थसामान्यात् ॐ ॥ 14-379 ॥
इतरे गुणाः फलसाम्यापेक्षयोपसंहर्थव्याः ॥ 14 ॥
॥ इति इतराधिकरणम् (फलसाम्याधिकरणम्) ॥ 07 ॥
उपसंहारानुपसंहारप्रमाणमाह –
ॐ आध्यानाय प्रयोजनाभावात् ॐ ॥ 15-380 ॥
आध्यानार्थं हि सर्वे गुणा उच्यन्ते प्रयोजनान्तराभावात् ॥
‘ज्ञानार्थमथ ध्यानार्थं गुणानां समुधीरणा ।
ज्ञातव्याश्चैव ध्यातव्या गुणाः सर्वेऽप्यतो हरेः ॥
नान्यत् प्रयोजनं ज्ञानाध्यानात् कर्मकृतेरपि ।
श्रवणाच्चाथ पाठाद्वा विद्याभिः कञ्चिदिष्यते’ इति परमसंहितायाम् ॥
‘गुणाः सर्वेऽपि वेत्तव्या ध्यातव्याश्च न संशयः ।
नान्यत् प्रयोजनं मुख्यं गुणानां कथने भवेत् ॥
ज्ञानाध्यानसमायोगाद्गुणानां सर्वशः फलम् ।
मुख्यं भवेन्न चान्येन फलं मुख्यं क्वचिद्भवेत्’ इति ब्रह्मतन्त्रे ॥ 15 ॥
ॐ आत्मशब्दाच्च ॐ ॥ 16-381 ॥
‘आत्मेत्येवोपासीत’ इत्यनुपसंहारप्रमाणम् ॥ 16 ॥
॥ इति अध्यानाधिकरणम् ॥ 08 ॥
ॐ आत्मगृहीतिरितवदुत्तरात् ॐ ॥ 17-382 ॥
न च’आनन्दादयः प्रधानस्य’ इत्युक्तिविरोधः । यतः’सत्यं ज्ञानमनन्तम् ब्रह्म।’विज्ञानमानन्दम् ब्रह्म’ इतिवदेवात्मशब्दगृहीतिः ।
‘अत्र ह्येते सर्व एकीभवन्ति’ इत्युत्तरात् ।
‘आनन्दानुभवत्त्वाच्च निर्दोषत्वाच्च भण्यते ।
नित्यत्वाच्च तथाऽऽत्मेति वेदवादिभिरीश्वरः’ इति बृहत्तन्त्रे ॥ 17 ॥
॥ इति आत्मगृहीत्यधिकरणम्॥ 09 ॥
ॐ अन्वयादिति चेत् स्यादवधारणात् ॐ ॥ 18-383 ॥
सर्वगुणानामान्वय आत्म शब्दे भवति ।
‘आप्तव्याप्तेरात्मशब्दः परमस्य प्रयुज्यते’
इति वचनादिति चेत् सत्यम् । स्याच्च्यैवं । आत्मेत्येवेत्यवधारणात् । अन्यथा सर्वोपसंहारवचनविरोधात् ॥ 18 ॥
॥ इति अन्वयाधिकरणम् ॥ 10 ॥
ॐ कार्याख्यानादपूर्वम् ॐ ॥ 19-384 ॥
‘अलौकिकास्तस्य गुणा ह्युपास्य अलौकिकं मुक्तिकार्यं यतोऽस्य’ इति कार्याख्यानादन्यत्रादृष्टा एव गुणा उपास्याः ॥ 19 ॥
॥ इति कार्या(ख्यान)धिकरणम् ॥ 11 ॥
ॐ समान एवं चाभेदात् ॐ ॥ 20-385 ॥
अपूर्वत्वेऽपि समानानामेवोपसंहारः। न तु त्रिविक्रमत्वादीनां कादाचित्कानां पृथक्त्वेन । नित्यविक्रान्त्यादिष्वन्तर्भावात् ॥ 20 ॥
ॐ सम्बन्धादेवमन्यत्रापि ॐ ॥ 21-386 ॥
परमात्मसम्बन्धित्वेन नित्यत्वात् त्रिविक्रमत्वादिष्वप्युपसंहार्यत्वं युज्यते।
‘गुणास्त्रैविक्रमाद्याश्च संहर्तव्या न संशयः ।
विरिञ्चस्यैव नान्येषां स हि सर्वगुणाधिकः’ इति ब्रह्मतन्त्रे ॥ 21 ॥
॥ इति समानाधिकरणम् ॥ 12 ॥
ॐ न वा विशेषात् ॐ ॥ 22-387 ॥
न वा ऽऽत्मशब्देन सर्वगुणगृहीतिः । अधिकारिविशेषात् ॥ 22 ॥
ॐ दर्शयति च ॐ ॥ 23-388 ॥
‘सर्वान् गुणानात्मशब्दो ब्रवीति ब्रह्मादीनामितरेषां न चैव’
इति भाल्लवेयश्रुतिः ॥ 23 ॥
॥ इति विशेणाधिकरणम्(नानाधिकरणम्) ॥ 13 ॥
ॐ सम्भृतिद्युव्याप्तपि चातः ॐ ॥ 24-389 ॥
सम्भृतिद्युव्याप्ती अपि देवादीनामुपसंहर्तव्ये नान्येषाम् । अत एव योग्यताविशेषात् ।
‘देवादीनामुपास्यास्तुभृतिव्याप्त्यादयो गुणाः ।
आनन्दाद्यास्तु सर्वेषामन्यथाऽनर्थकृद्भवेत्’ इति च ब्रह्मतर्के ॥ 24 ॥
॥ इति संभृत्यधिकरणम् ॥ 14 ॥
यस्यां विद्यायां महागुणा उच्यन्ते सोत्तमानामितराऽन्येषामिति
चेन्न –
ॐ पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॐ ॥ 25-390 ॥
पुरुषसूक्तोक्तविद्यायामपि केषांचिद्गुणानामनाम्नानात् ।
‘सर्वतः पौरुषे सूक्ते गुणा विष्णोरुदीरिताः ।
तत्रापि नैव सर्वेऽपि तस्मात् कार्योपसंहृतिः’ इति ब्रह्मतर्के ॥ 25 ॥
॥ इति पुरुषविद्याधिकरणम् ॥ 15 ॥
ॐ वेधाद्यर्थभेदात् ॐ ॥ 26-391 ॥
‘भिन्धि विद्धि श्रुणीहीति फलभेदेन सर्वशः ।
यत्यादीनां तेष्वयोगान्नाधिकार्येकता भवेत् ।
अयोग्योपासनादीयुरनर्थं चार्थनाशनम्’ इति बृहत्तन्त्रे ॥
॥ इति वेधाद्यधिकरणम् ॥ 16 ॥
मुक्तस्योपासना कर्तव्या न वेत्यतो ब्रवीति –
ॐ हानौ तूपायनशब्दशेषत्वात् कुशाछंदस्तुत्युपगानवत् तदुक्तम् ॐ
॥27-392॥
नियतस्वाध्यायानन्तरं स्वेच्छया कुशाग्रहणस्तुत्युपगानवदेव मोक्ष उपासनादिः ।’ब्रह्मविदाप्नोति परम्’ इति मोक्षवाक्यशेषत्वादितरेषाम् ॥ तच्चोक्तम्’’एतत् सामगायन्नास्ते’ इत्यादि । ब्रह्मतर्के च-
‘मुक्ता अपि हि कुर्वन्ति स्वेच्छयोपासनं हरेः ।
नियमानन्तरं विप्राः कुशाद्यैरप्यधीयते’ इति ॥
‘कृष्णो मुक्यैरिज्यते वीतमोहैः’ इति च भारते ॥ 27 ॥
ॐ साम्परायेतर्तव्याभावात् तथा ह्यन्ये ॐ ॥ 28-393 ॥
स्वेच्छयैवेत्यङ्गीकर्तव्यम् । मुक्तस्य तीर्णत्वात् ।‘तीर्णो हि तदा सर्वां भवति’ इति ह्यन्ये पठन्ति ।
वायुप्रोक्ते च
‘स्थितप्रज्ञत्वमाप्ता ये ज्ञानेन परमात्मनः ।
ब्रह्मलोकं गताः सर्वे ब्रह्मणा च परं गताः ।
तीर्णतर्तव्यभागश्च स्वेच्छयोपासते परम्’ इति ॥ 28 ॥
॥ इति मुक्तोपासनाधिकरणम् (पा. हान्यधिकरणम्) ॥ 17 ॥
कर्मापि कुर्वन्ति न वेत्याह –
ॐ छन्दत उभयाविरोधात् ॐ ॥ 29-394 ॥
स्वेच्छया कुर्वन्ति न वा । बन्धप्रत्यवाययोरभावात् ॥ 29 ॥
ॐ गतेरर्थवत्त्वमुभयथाऽन्यथा ह विरोधः ॐ ॥ 30-395 ॥
बन्धप्रत्यवायाभावे हि मोक्षस्यार्थवत्त्वम् । अन्यथा मोक्षत्वमेव न स्यात् ॥
‘कदाचित् कर्म कुर्वन्ति कदाचिन्नैव कुर्वते ।
नित्यज्ञानस्वरूपत्वान्नित्यं ध्यायन्ति केशवम् ॥
तीर्णतर्तव्यभागा ये प्राप्तानन्दाः परात्मनः ।
प्रत्यवायस्य बन्धस्याप्यभावात् स्वेच्छया भवेत्’ इति हि ब्रह्माण्डे ॥ 30 ॥
ॐ उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॐ ॥ 31-396 ॥
उपपन्नश्चैवम्भावः । प्राप्तत्वात् तल्लक्षणस्य फलस्य । यथा लोके विद्यर्थत्वेन विष्णुक्रमणादिकं कृत्वा समाप्तकर्मेच्छया करोति न करोति च ॥ 31 ॥
इति छन्दादिकरणम्
ॐ अनियमः सर्वेषामविरोधाच्छब्दानुमानाभ्याम् ॐ ॥ 32-397 ॥
प्राप्तज्ञानानामपि केषांचिन्मुक्तिप्राप्तिः केषांचिन्न, यथोपसंहारनियम इति न मन्तव्यम् ।
‘सर्वेगुणा ब्रह्मणैव ह्युपास्या नान्यैर्देवैः किमु सर्वैर्मनुष्यैः’
त्युपसंहारविरोधादन्यत्राविरोधात् ।
‘न कश्चिद्ब्रह्मवित् स्मृतिमनुभवति मुक्तो ह्येव भवति तस्मादाहुः स्मृतिहेति’ इति कौण्डन्यश्रुतेश्च ।
यथा केषाञ्चिन्मोक्ष एवमन्येषामित्यनुमानाच्छ ॥ 32 ॥
॥ इति अनियमाधिकरणम् ॥ 19 ॥
ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ ॥ 33-398 ॥
यथा यथाऽधिकारो विशिष्यते एवं मुक्तावानन्दो विशिष्यते ।‘मनुष्येभ्यो गन्धर्वाणां गन्धर्वेभ्यः ऋषीणामृषिभ्यो देवानां देवेभ्य इन्द्रस्य इंद्राद्रुद्रस्य रुद्राद्ब्रह्मण एष ह्येव शतानन्दः’ इति चतुर्वेदशिखायाम् ।
अध्यात्मे च –
‘ज्ञानं चोपासनं चैव मुक्तावानन्द एव च ।
यथाधिकारं देवानां भवन्त्येवोत्तरोत्तरम्’ इति ॥ 33 ॥
ॐ अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपसदवत् तदुक्तम् ॐ
॥34-99 ॥
न चासमत्वेन विरोधो भवति । ब्रह्मधीत्वाद्दोषाभावसाम्यादुत्तमेभ्योऽन्येषां भावाच्च । औपसदवच्छिष्यवत् ।
उक्तं च तुरश्रुतौ –
‘नानाविधा जीवसङ्घा विमुक्तौन चैव तेषां ब्रह्मधियां विरोधः।
दोषाभावाद्गुरुशिष्यादिभावाल्लोकेऽपि नासौ किमु तेषां विमुक्तेः’ इति ॥ 34 ॥
॥ इति यावदधिकाराधिकरणम् ॥ 20 ॥
ॐ इयदामननात् ॐ ॥ 35-400 ॥
नामाध्यारभ्य प्राणान्तमुत्तरोत्तरमुत्तमत्वमुक्तम्। न प्राणात् किञ्चिद्बूय उक्तम् । तथाऽपि पूर्ववत् स्यात् इति न वाच्यम् ।
प्राणो वाव सर्वेभ्यो भूयान्न हि प्राणाद्भूयान् प्राणो ह्येव भूयांस्तस्माद्भूयान् नाम’ इति कौण्ठरव्यश्रुतेः ॥ 35 ॥
ॐ अन्तरा भूतग्रामवदिति चेत् तदुक्तम् ॐ ॥ 36-401 ॥
यथा भूतग्राम एकस्मादेक उत्तमोऽस्त्येव, एवं प्राणादपि परमात्मानमन्तरा विद्यत इति चेन्न। प्राणादुत्तमाभावे प्रमाणमुक्तम् । अन्यत्रोत्तमाभावे न प्रमाणम्। दृष्यते चान्यत्रोत्तमत्वम् ॥ 36 ॥
ॐ अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् ॐ ॥ 37-402 ॥
प्राणस्य सर्वोत्तमत्वे परमात्मना भेदानुपपत्तिरिति चेन्न । श्रुत्युपदिष्टवदुपपत्तेः । अन्येभ्यः प्राणस्योत्तमत्वं तस्मात् परमात्मनो ह्युपदिष्टम् ॥ 37 ॥
॥ इति इयदामननाधिकरणम् ॥ 21 ॥
नेति चेन्न-
ॐ व्यतिहारो विशिंषन्ति हीतरवत् ॐ ॥ 38-403 ॥
उक्तं प्राणात् परमात्मन उत्तमत्वं पूर्वोक्ताध्याहारेण’एष तु वा अतिवदति’ इति विशिंषन्ति हि । यथेतरेषु विशेषणम् ।
‘उत्तमत्वं हि देवानां मुक्तावपि हि मानवात् ।
तेभ्यः प्राणस्य तस्माच्च नित्यमुक्तस्य वै हरेः’ इति च ब्रह्मतन्त्रे ॥ 38 ॥
॥ इति व्यतिहाराधिकरणम् ॥ 22 ॥
कृतिर्निष्ठा ज्ञानमित्यादीनां भेदाद्बहव उत्तमा इति चेन्न –
ॐ सैव हि सत्यादयः ॐ ॥ 29-404 ॥
सत्यादिगुणास्तस्या एव परदेवतायाः स्वरूपभूताः । ब्रह्मतर्के च –
‘नामादिप्राणपर्यन्ताद्यो हि सत्यादिरूपवान् ।
तस्मै नमो भगवते विष्णवे सर्वजिष्णवे’ इति ॥
‘सत्याद्या अहमात्मान्ता यद्गुणाः समुदीरिताः ।
तस्मै नमो भगवते यस्मादेव विमुच्यते’ इति चाध्यात्मे ॥ 39 ॥
॥ इति सत्याद्यधिकरणम् ॥ 23 ॥
प्रकृतेरपि जन्मादेः संसारप्राप्तेः किमिति नामादिष्वपाठ इत्यत्रोच्यते-
ॐ कामादितरत्र तत्र चायतनादिभ्यः ॐ ॥ 40-405 ॥
स्वेच्छयैव मूलस्थाने स्थिताऽन्यत्रावतारान् करोतीश्वरेच्छानुसारेण ।
‘सर्वायतना सर्वकाला सर्वेच्छा न बद्धाबन्धिका सैषा प्रकृतिरविकृतिः’
इति वत्सश्रुतेः ।
‘नामादयस्तु बद्धत्वान्मोचकत्वात् परोऽपि च ।
उभयोरप्यभावेन यथाऽव्यक्तं न तूदितम् ॥
श्रुतौ तथा जीवपरावुच्येते किञ्चिनेतरत् ।
नोच्यते च तदा तत्त्वद्वयं वै समुदाहृतम्’ इति ब्रह्मतर्के ॥ 40 ॥
ॐ आदरादलोपः ॐ ॥ 41-406 ॥
अबद्धत्वेऽपि भक्तिविशेषादेवोपासनाद्यलोपस्तस्या भवति ।
‘यथा श्रीर्नित्यमुक्ताऽपि प्राप्तकर्माऽपि सर्वदा ।
उपास्ते नित्यशो विष्णमेवं भक्तो हरेर्भवेत्’ इति बृहत्तन्त्रे ॥ 41 ॥
ॐ उपस्थितेस्तद्वचनात् ॐ ॥ 42-407 ॥
अनादिकाले भगवत्सम्बन्धित्वाद्युज्यते च नित्यमुक्तत्वं तस्याः । ‘द्वावेतावनादिनित्यावनादियुक्तौ नित्यमुक्तावनादिकृतौ नित्यकृतौ योऽयं परमो या च प्रकृती रमते ह्यस्यां परमो रमते ह्यस्मिन् प्रकृतिः स्वस्मिन् हि रमते परमो न स्वस्मिन् प्रकृतिरत एनमाहुः परम इति’ इति गौपवनश्रुतिवचनात्॥42 ॥
॥ इति कामाधिकरणम् ॥ 24 ॥
दर्शनार्थं ह्युपासनम् । तच्च श्रवणादेरेव भवति । अतः किमर्थमित्यत्रोच्यते–
ॐ तन्निर्धारणार्थनियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः पलम् ॐ॥43-408 ॥
तत्त्वनिश्चयो वेदार्थनियमश्च ब्रह्मदृष्टेः पृथगेव । हिशब्देन’आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य’ इति श्रुतिं सूचयति । श्रवणादिफलं चाज्ञानविपर्ययादिदर्शनप्रतिबन्धनिवृत्तिः । ब्रह्मतर्के च –
‘श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ ।
संशयं च पराणुद्य लभते ब्रह्मदर्शनम्’ इति ॥ 43 ॥
॥ इति निर्धारणाधिकरणम् ॥ 25 ॥
ॐ प्रदानवदेव हि तदुक्तम् ॐ ॥ 44-409 ॥
न च श्रवणादिमात्रेण ब्रह्मदृष्टिर्भवति, किन्तु सेतिकर्तव्येन । यथा गुरुदत्तं तथैव भवति।’आचार्यवान् पुरुषो वेद’ इति ह्युक्तम् ॥ 44 ॥
॥ इति प्रदानाधिकरणम् ॥ 26 ॥
गुरुप्रसादः स्वप्रयत्नो वा बलवानिति निगद्यते-
ॐ लिङ्गभूयस्त्वात् तद्धि बलीयस्तदपि ॐ ॥ 45-410 ॥
ऋषभादिभ्यो विद्यां ज्ञात्वाऽपि सत्यकामेन’भगवांस्त्वेव मे कामं ब्रूयात्’ श्रुतं ह्येव भगवद्दृशेभ्य आचार्याद्यैव विद्या विदिता साधिष्ठं प्रापयति’ इति वचनात् ।‘अत्र ह न किञ्चन वीयाय’ इत्यनुज्ञानादुपकोसलवचनाच्च लिङ्गभूयस्त्वाद्गुरुप्रदानमेव बलवत् । तर्हि तावताऽलमिति न मन्तव्यम् ।’श्रोतव्यो मन्तव्यः’ इत्यादेस्तदपि कर्तव्यम् । वाराहे च –
‘गुरुप्रसादो बलवान्न तस्माद्बलवत्तरम् ।
तथाऽपि श्रवणादिश्च कर्तव्यो मोक्षसिद्धये’ इति ॥ 45 ॥
॥ इति गुरुप्रसादाधिकरणम् (लिङ्गभूयस्त्वाधिकरणम्) ॥ 27 ॥
ॐ पूर्वविकल्पःप्रकरणात् स्यात् क्रियामानसवत् ॐ ॥ 46-411 ॥
न च पूर्वप्राप्त एव गुरुरिति नियमः । समग्रानुग्रहं चेत् पश्चात्तनः करोति स्वयमेव तदा विकल्पः स्यात् । मानसक्रियावत्, यथोभयोर्ध्यानयोः समयोः ।
‘पूर्वस्मादुत्तमो लब्धः स्वयमेव गुरुर्यदि ।
गृह्णीयादविचारेण विकल्पः समयोर्भवेत् ॥
समग्रानुग्रहाभावात् सत्यकामः स्वकं गुरुम् ।
ऋषभाद्यनुज्ञया चैष प्राप तस्माद्धि युज्यते’ इति बृहत्तन्त्रे ॥
‘समग्रानुग्रहं कश्चित् स्वयमेव समो यदि ।
कुर्यात् पुनश्च गृह्णीयादविरोधेन कामतः ॥
ध्यानयोः समयोर्यद्वद्विकल्पः कामतो भवेत् ।
एवं गुरोर्द्वितीयस्य विकल्पो ग्रहणेऽपि च’
इति महासंहितायाम् ॥ 46 ॥
ॐ अतिदेशाच्च ॐ ॥ 47-412 ॥
‘ब्रह्मोपास्त्व बह्मोपचरस्व तच्छ्रुणु हि तत्त्वामवतु । या ब्रह्मोपचरेर्यथा मामुपचरेर्ये चान्येऽस्मद्विधाः श्रेयसश्च तानुपास्व तानुपचरस्व तेभ्यः शृणु हि ते त्वामवन्तु’ इति पौष्यायणश्रुतावतीदेशाच्च॥ 47 ॥
॥ इति पूर्वविकल्पाधिकरणम् ॥ 28 ॥
न च’कर्मण्यैव हि संसिद्धिमास्थिता जनकादयः’ इत्यादिनाऽन्यन्मोक्षसाधनम् ।
ॐ विद्यैव तु निर्धारणात् ॐ ॥ 48-413 ॥
‘तमेवं विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यते अयनाय’
इति निर्धारणाद्विद्ययैव मोक्षः ॥ 48 ॥
ॐ दर्शनाच्च ॐ ॥ 49-414 ॥
न केवलं विद्यया किन्त्वपरोक्षज्ञानेनैव च।
सर्वान् परो माययाऽयं सिनीते दृष्ट्वैव तं मुच्यते नापरेण’
इति कौशिकश्रुतेः ॥ 49 ॥
॥ इति विद्याधिकरणम् ॥ 29 ॥
ॐ श्रुत्यादिबलीयास्त्वाच्च न बाधः ॐ ॥ 50-415 ॥
सावधारणा बलवति श्रुतिः ।
‘इन्द्रोऽश्वमेधांश्चतमिष्ट्वाऽपि राजा ब्रह्माणमीढ्यं समुवाचोपपन्नः॥
न कर्मभिर्न धनैर्नैव चान्यैः पश्ये सुखं तेन तत्त्वं ब्रवीहि’
इति बलवल्लिङ्गम् ॥
‘नास्त्यकृतः कृतेन’ इत्युपपत्तिश्च ।
‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते ।
तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः’
इति युक्तिमद्बगवद्वचनम् ॥
अतो न प्रमाणान्तरबाधः ।’कर्मण्यैव’ इत्ययोगव्यवच्छेदः ॥ 50 ॥
॥ इति अबाधाधिकरणम् (श्रुत्यधिकरणम्) ॥ 30 ॥
ॐ अनुबन्धादिभ्यः ॐ ॥ 51-416 ॥
न केवलं श्रवणादिभिर्गुरुप्रसादेन च ब्रह्मदर्शनम् ।
किन्तु भक्त्यादिभिश्च ।
‘सर्वलक्षणसम्पन्नः सर्वज्ञो विष्णुतत्परः ।
यद्गुरुः सुप्रसन्नः सन् दद्यात् तन्नान्यथा भवेत् ॥
तथाऽप्यनादिसंसिद्धो भक्त्यादिगुणपूगतः ।
लभेद्गुरुप्रसादं च तस्मादेव च तद्भवेत्’ इति ॥
‘भक्तिर्विष्णौ गुरौ चैव गुरोर्नित्यप्रसन्नताम् ।
दद्याच्चमदमादिश्च तेन चैते गुणाः पुनः ॥
तैः सर्वैर्दर्शनं विष्णोः श्रवणादिकृतं भवेत्’
इति नारायणतन्त्रे ॥ 51 ॥
॥ इति अनुबन्धाद्यधिकरणम् ॥ 31॥
ॐ प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम् ॐ ॥ 52-417 ॥
उपासनाभेदवद्दर्शनभेदः । तच्चोक्तं कमठश्रुतौ –
‘अंतर्दृष्टयो बहिर्दृष्टयोऽवतारदृष्टयः सर्वदृष्टय इति । देवावाव सर्वदृष्टयस्तेषु चोत्तरोत्तरमाब्रह्मणोऽन्येषु यथायोगं यथा ह्याचार्या आचक्षते’ इति । आध्यात्मे च –
‘दृष्ट्वैव ह्यवताराणां मुच्यन्ते केचिदञ्जसा ।
दर्शनेनान्तरेणान्ये देवाः सर्वत्र दर्शनात् ॥
तेषां विशेषमाचार्यो वेत्ति सर्वज्ञतां गतः’ इति ॥ 52 ॥
॥ इति दर्शनबेधादिकरणम् (प्रज्ञान्तराधिकरणम्) ॥ 52 ॥
ॐ न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॐ ॥ 53-418 ॥
न सामान्यदर्शनमात्रेण मुक्तिः । यथा मृत्युमात्रात् । न हि लोकापत्तिमात्रं मुक्तिः ।
‘सामान्यदर्शनाल्लोका मुक्तिर्योग्यात्मदर्शनात्’
इति हि नारायणतन्त्रे॥
‘मुच्यते नात्र सन्देहो दृष्ट्वा तु स्वात्मयोग्यया’ इति च ॥
‘दर्शनेनात्मयोग्येन मुक्तिर्नान्येन केनचित्’ इति चाध्यात्मे ॥ 53 ॥
॥ इति न सामान्याधिकरणम् ॥ 33 ॥
‘भक्तिरेवैनं नयति भक्तिरेवैनं दर्शयति भक्तिवशः पुरुषो भक्तिरेव भूयसी’ इति माठरश्रुतेर्न परमात्मना दर्शनमिति चेन्न ।
‘तस्यैष आत्मा विशते ब्रह्मधाम’ इति श्रुतेः ।
कथं तर्ह्येषा श्रुतिः –
ॐ परेण शब्दस्य ताद्विध्यं भूयस्त्वात् त्वनुबन्धः ॐ ॥ 54-419 ॥
परमात्मैवं भक्त्या दर्शनं प्राप्य मुक्तिं ददातीति प्रधानसाधनत्वाद्भक्तिः करणत्वेनोच्यते। मायावैभवे च
‘भक्तिस्थः परमो विष्णुस्तयैवैनं वशं नयेत् ।
तयैव दर्शनं यातः प्रदद्यान्मुक्तिमेतया ॥
स्नेहानुबन्धो यस्तस्मिन् बहुमानपुरस्सरः ।
भक्तिरित्युच्यते सैव करणं परमीशितुः’ इति ॥
सर्वशब्दानां ब्रह्मणि प्रवृत्तेश्च ॥ 54 ॥
॥ इति ताद्विध्याधिकरणम् (परेणाधिकरणम्) ॥ 34 ॥
जीवांशानां पृथगुत्पत्तेर्नानादियोग्यतापेक्षेति न मन्तव्यम् । कुतः ?
ॐ एकः आत्मनः शरीरे भावात् ॐ ॥ 55-420 ॥
अंशांशिनोरेकत्वमेव । अंशिकर्मनिर्मितशरीर एवांशस्य भावात् ॥ 55 ॥
ॐ व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ॐ ॥ 56-421 ॥
ज्ञानादिभेधे विद्यमानेऽपि नांशांशिनोः पृथग्भाव एव । तदुपासनादिभोगादंशस्य । परमसंहितायां च –
‘अंशिनस्तु पृथग्जाता अंशास्तस्यैव कर्मणा ।
पुनरैक्यं प्रपद्यन्ते नात्र कार्य विचारणा’ इति ॥ 56 ॥
॥ इति एकाधिकरणम् ॥ 35 ॥
ॐ अङ्गावबद्धास्तुन शाखासु हि प्रतिवेदनम् ॐ ॥ 57-422 ॥
ब्रह्माद्यङ्गदेवतावबद्धोपासनादि प्रतिशाखं प्रतिवेदं च नोपसंह्रियते। हिशब्दात्
‘समत्वाद्वोत्तमत्वाद्वा नाङ्गदेवाद्युपासनम् ।
उपसंहार्यमित्याहुर्वेदसिद्धान्तवेदिनः’
इति ब्रह्मतर्कवचनात् ॥ 57 ॥
ॐ मन्त्रादिवद्वाऽविरोधः ॐ ॥ 58-423 ॥
सर्वदेवतामन्त्रा यथाऽधीयन्त एवमविरोधो वा ।
‘उपासनाङ्गदेवानां परमाङ्गतया भवेत् ।
उपसंहृतिर्विशेषे तु फलनामन्यथा न तु ॥
पुरुषाणां विशेषाद्वा यथायोगं भविष्यति’ इति बृहत्तन्त्रे ॥ 58 ॥
॥ इति अङ्गावबद्धाधिकरणम् ॥ 36 ॥
ॐ भूम्नःक्रतुवज्ज्यायस्त्वं तथा च दर्शयति ॐ ॥ 59-424 ॥
सर्वगुणेषु भूमगुणस्य ज्यायस्त्वं क्रतुवत् । सर्वत्र सहभावात् दीक्षाप्रायणीयोदयनीयसवनत्र यावभृथात्मकः क्रतुः ।
‘भूमैव देवः परमो ह्युपास्यो नैवाभूमा फलमेषां विधत्ते ।
तस्माद्भूमा गुणतो वै विशिष्टो यथा क्रतुः कर्ममध्ये विशिष्टः ॥’
इति च गौपवनश्रुतिः ॥ 59 ॥
॥ इति भूमाधिकरणम् ॥ 37 ॥
ॐ नाना शब्दादिभेदात् ॐ ॥ 60-425 ॥
‘शब्दोऽनुमा तथैवाक्षो योग्यताभेदतः सदा ।
ब्रह्मादीनामेकमर्थं बहुधा दर्शयन्ति हि ॥
अतः पूर्णत्वमीशस्य वानैवैषां प्रदृश्यते ।
अतः फलस्य नानात्वं नानैवोपासनं यतः’ इति ब्रह्मतर्के ।
अतो भूमत्वमपि नानैवोपास्यते ॥ 60 ॥
॥ इति नाना(शब्दा)धिकरणम् ॥ 38 ॥
ॐ विकल्पो विशिष्टफलत्वात् ॐ ॥ 61-426 ॥
स्वयोग्योपासनानन्तरं सामान्यस्यापि कस्यचिदुपासनं विकल्पेन भवति विशिष्टफलापेक्षया ।
‘मुक्त्यर्थमात्मयोग्यं हि कार्यमेव ह्युपासनम् ।
नृसिंहादिकमन्यच्च दुरितादिनिवृत्तये ॥
उपास्यते यथायोगं न वा फलविभेदतः’ इति च ब्रह्मतर्के ॥ 61 ॥
॥ इति विकल्पाधिकरणम् ॥ 39 ॥
ॐ काम्यास्तुयथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॐ ॥ 62-427 ॥
‘यस्य यस्य हि यः कामस्तस्य तस्य ह्युपासनम् ।
तादृशानां गुणानां च समाहारं प्रकल्पयेत् ॥
अकामत्वान्मुमुक्षूणां न वा तेषामुपासनम् ।
तुष्ट्यर्थमीश्वरस्यैव न चोपास विदुष्यति’ इति बृहत्तन्त्रे ॥ 62 ॥
॥ इति काम्याधिकरणम् ॥ 40 ॥
ॐ अङ्गेषु यथाऽऽश्रयाभावः ॐ ॥ 63-428 ॥
अङ्गदेवतानां यथा यथा परमेश्वराङ्गाश्रयत्वं’चक्षोः सूर्यो अजायत’ इत्यादि तथा भावना कर्तव्या॥63॥
ॐ शिष्टेश्च ॐ ॥ 64-429 ॥
‘यस्मिन् यस्मिन् यो हि चाङ्गे निविष्टः परस्य चिन्त्यः स तथा तथैव’
इति पौत्रायणश्रुतेः ॥ 64 ॥
ॐ समाहारात् ॐ ॥ 65-430 ॥
‘अङ्गैः पराद्ये हि देवा विसृष्टास्तत्तद्गुणान् परमे संहरेत।
तांश्चापि तत्रैव विचिन्त्य देवान् स्थानं मुमुक्षुः परमं व्रजेत’
इति काषायणश्रुतौ समाहारवचनाच्च ॥ 65 ॥
ॐ गुणसाधारण्यश्रुतेश्च ॐ ॥ 66-431 ॥
‘साधारण्यात् सर्वगुणाः परस्य समाहार्यास्तत्त्वदृशो मुमुक्षोः’
इति माण्डव्यश्रुतेश्च ॥ 66 ॥
॥ इति यथाश्रयभावाधिकरणम् (अङ्गाधिकरणम्) ॥ 41 ॥
ॐ न वाऽतत्सहभावश्रुतेः ॐ ॥ 67-432 ॥
न वाऽङ्गदेवतोपसंहारः कार्यः । उपसंहारस्य सहाश्रवणात् ॥ 67 ॥
ॐ दर्शनाच्च ॐ ॥ 68-433 ॥
‘सत्यो ज्ञानः परमानन्दरूप आत्मेत्येवं नित्यदोपासनं स्यात् ।
नान्यत् किञ्चित् समुपासीत धीरः सर्वैर्गुणैर्देवगणा उपासते’
इति कमठश्रुतौ ॥ 68 ॥
॥ इति नवाधिकरणम् ॥ 42 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये तृतीयाध्यायस्य तृतीयः पादः ॥ 03-03 ॥

चतुर्थः पादः॥ 03-04 ॥
ज्ञानसामर्थ्यमस्मिन् पाद उच्यते –
ॐ पुरुषार्थोऽतः शब्दादिति बादरायणः ॐ ॥ 01-434 ॥
यद्दर्शनार्थमुपासनोक्ता तस्माद्दर्शनात् सर्वपुरुषार्थप्राप्तिरिति बादरायणो मन्यते ।
‘यं यं लोकं मनसा संविभाति विशुद्धस्तत्त्वः कामयते यांश्च कामान् ।
तं तं लोकं जायते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः’ इति शब्दात् ॥ 01 ॥
ॐ शेषत्वात् पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॐ ॥ 02-435 ॥
अस्त्येव मोक्षसाधनत्वं ज्ञानस्य । स्वर्गादिषु तत्साधनकर्मशेषत्वेन ।
‘स्वर्गं धनाद्देहतो वै गृहाच्च प्राप्स्यन्ति धीरा न त्वधीराः कुतश्चित्’ इतिवदति जैमिनिः ॥ 02 ॥
ॐ आचारदर्शनात् ॐ ॥ 03-436 ॥
ज्ञानिनामेव देवादीनामाचारदर्शनात् ॥ 03 ॥
ॐ तच्छ्रुतेः ॐ ॥ 04-437 ॥
‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’
इति शेषत्वश्रुतेः ॥ 04 ॥
ॐ समन्वारम्भणात् ॐ ॥ 05-438 ॥
‘कर्मैव देहं दैविकं मानुषं वाऽप्यन्वारभेन्नापरस्तत्र हेतुः ।
भोगांस्तदीयांश्च यथाविभागं ददाति कर्मैव शुभाशुभं यत्’
इति माठरश्रुतेश्च ।
संशब्ध प्राधान्यं दर्शयति ॥ 05 ॥
ॐ तद्वतो विधानात् ॐ ॥ 06-439 ॥
‘ज्ञानी च कर्माणि सदोदितानि कुर्यादकामः सततं भवेत्’ इति कमठश्रुतौ ज्ञानतोऽपि विधानात्
॥ 06 ॥
ॐ नियमाच्च ॐ ॥ 07-440 ॥
‘कुर्वन्नेवेह कर्माणि जीजीविषेच्छतं समाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे’ इति ॥ 07 ॥
ॐ अधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात् ॐ ॥ 08-441॥
‘ज्ञानादेव स्वर्गो ज्ञानादेवापवर्गो ज्ञानादेव सर्वे कामाः सम्पद्यन्ते । तथापि यथा यथा कर्म कुरुते तथा तथाऽधिको भवति’
इति कौण्ठरव्यश्रुतेः ॥
युधिष्ठिरादीनां राजसूयादिना फलाधिक्य दर्शनाच्चेति बादरायण मतम् ॥ 08 ॥
ॐ तुल्यम् तु दर्शनम् ॐ ॥ 09-442 ॥
राजसूयादिकृतावकृतौ च सममेव तेषां विज्ञानम् ।
‘विज्ञातमेतत् सर्वेषां मुनीनां ब्रह्मदर्शनात् ।
स्यादेव मोक्षो नान्यस्मादिति तत्रापि चित्रता ॥
स्वर्गादयः कर्मणैव नान्येनेत्यपरे विदुः ।
ज्ञानेनाधिक्यमित्याहुर्जैमिन्याद्यास्तु केचन ॥
अदृष्टमेव ज्ञानेन दृष्टं नैवोपलभ्यते ।
इति केचिद्विदः प्राहुर्व्यासशिष्या इमेऽखिलाः ॥
यस्माद्व्यासमतं सर्वं सत्यमेव ततोऽखिलम् ।
यथाऽऽकाशस्त्वनन्तोऽपि व्यामो हस्तावदिस्तथा ।
प्रादेशोऽपि हि सत्येन तथैतेषां मतानि तु ॥
स्वयं तु भगवान् व्यासो व्याप्तज्ञानमहांशुमान् ।
अनन्ताकाशवत् पश्यन् निखिलं पुरुषोत्तमः ॥
ज्ञानेनैवाप्यते सर्वं कर्मणा त्वधिकं भवेत् ।
इति प्राह महायोगी पुमर्थानां विनिर्णयम्’ इति भविष्यत्पर्वणि ।
‘ज्ञानिनामपि देवानां विशेषः कर्मभिर्भवेत् ।
चीर्णीऽकृते वा ज्ञानस्य न विशेषोऽस्ति कर्मणि’ इति ब्रह्मतर्के ॥ 09 ॥
॥ इति पुरुषार्थाधिकरणम् ॥ 01 ॥
सर्वेषां पुरुषार्थापेक्षित्वाज्ज्ञानाधिकारतेत्यत आह –
ॐ असार्वत्रिकी ॐ ॥ 10-443 ॥
न सर्वेषामधिकारः ॥ 10 ॥
ॐ विभागः शतवत् ॐ ॥ 11-444 ॥
‘नवकोट्यो हि देवानां तेषां मध्ये शतस्य तु ।
सोमाधिकारो वेदोक्तो ब्रह्मणी द्वे शताधिके ॥
यथा तथैवा सङ्ख्येयाः प्रजास्तासु कियान् जनः ।
ज्ञानाधिकारी सम्प्रोक्तो विष्णुपादैकसंश्रयः’
इति वचनात् सुखापेक्षासाम्येऽपि विभाग इष्यतेऽधिकारार्थम् ॥ 11 ॥
कस्याधिकारः ?
ॐ अध्ययनमात्रवतः ॐ ॥ 12-445 ॥
‘अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यते ।
गुरुभक्तिविहीनस्य शमादिरहितस्य च ॥
न च वर्णावरस्यापि तस्मादध्ययनान्वितः ।
ब्रह्मज्ञाने तु वेदोक्तेऽप्यधिकारी सतां मतः’ इति ब्रह्मतर्के ॥
‘पठेद्वेदानथार्थानधीयीताथ विचार्यः ब्रह्म विन्देत्’
इति च कौषारवश्रुतिः ॥ 12 ॥
॥ इति अधिकाराधिकरणम् (असार्वत्रिकाधिकरणम्) ॥ 02 ॥
ॐ नाविशेषात् ॐ ॥ 13-446 ॥
न सामान्येनाधिकारो देवादीनाम् ।
‘अथ पुमर्थसाधनान्यर्थो धर्मो ज्ञानमित्युत्तरोत्तरम् ।
तत्राधिकारिणो मनुष्या ऋषयो देवा इत्युत्तरोत्तरम्’
इति कौण्डिन्यश्रुतिः ॥ 13 ॥
॥ इति अधिकारविशेषाधिकरणम् (अविशेषाधिकरणम्) ॥ 03 ॥
‘अथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्याद्येन स्यात् तेनेदृश एव’ इति ज्ञानिनो यथेष्टाचरणं विधीयत इत्यत आह-
ॐ स्तुतयेऽनुमतिर्वा ॐ ॥ 14-447 ॥
न विधिः । ज्ञानिनः स्तुतये अनुमतिमात्रं वा । युज्यते च ॥ 14 ॥
ॐ कामकारेण चैके ॐ ॥ 15-448 ॥
‘कामाचाराः कामभक्षाः कामवादाः कामेनैवेमं देहमुत्सृज्याथ परात् परमीयुरनारम्भणम्’ इति चैके पठन्ति ॥ 15 ॥
ॐ उपमर्दं च ॐ ॥ 16-449 ॥
‘ओमित्युच्चार्यान्तरिममात्मानमभिपश्योपमृद्य पुण्यं च पापं च काममाचरन्तो ब्रह्मानुव्रजन्ति’ इति च तुरश्रुतौ ॥ 16 ॥
ॐ ऊर्ध्वरेतस्सु च शब्दे हि ॐ ॥ 17-450 ॥
न तावता कामचाराणां ज्ञानेऽधिकारः ।
‘य इमं परमं गुह्यमूर्ध्वरेतस्सु भाषयेत् ।
न तथा विद्यते भूयान् यं प्राप्यन्येऽपि भूयसः’
इति माठरश्रुतेः ॥ 17 ॥
ॐ परामर्शं जैमिनिरचोदना चापवदति हि ॐ ॥ 18-451 ॥
‘प्रातरुत्थायाथ सन्ध्यामुपासीत यत् सन्ध्यामुपासते ब्रह्मैव तदुपासतेऽथ देवान् नमेज्जुहुयाद् वेदानावर्तयीत नान्यत् किञ्चिदाचरेन्न सुरां पिबेन्न पलाण्डुं भक्षयीत न भृषं वेदेन्न विस्मरेतात्मानं सोमं पिबेद्दुतशेषेण वर्तयेत्’
इत्युक्ताचारपरामर्शेन विधिबन्धवर्जितत्वेन कामत एव तस्य चरणं कामचार इति जैमिनिर्मन्यते ।
न च निषिद्धं कर्म कर्तव्येमेवेति चोदना ।
‘ब्राह्मणो न हन्तव्यः’ इत्याद्यपवादश्च ॥ 18 ॥
ॐ अनुष्ठेयं बादरायणः साम्यश्रुतेः ॐ ॥ 19-452 ॥
अनुष्ठेयानां मध्य एव कामतश्चरणं कामतो निवृत्तिरेति बादरायणो मन्यते । ‘केन स्याद्येन स्यात् तेनेदृश एव’ इति साम्यश्रुतेः ।
‘यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते’ इति भगवद्वचनाच्च ॥ 19 ॥
ॐ विधिर्वा धारणवत् ॐ ॥ 20-453 ॥
‘केन स्याद्येन स्यात्’ इति विधिर्वा । यथा वेदधारणं त्रैवर्णिकानां विहितं नान्येषाम् । एवं स्वमतानुसारिणी प्रवृत्तिर्ज्ञानिनां विहिता । न तत्राधर्मशङ्का कार्या । नान्येषामिति वा ।
‘स्वेच्छयैव प्रवृत्तिस्तु ब्रह्मणो विधिचोदिता ।
नाशङ्क्यं तन्मतं क्वापि विष्णोः प्रत्यक्षचोदना ।
इतरेषां न विहिता स्वेच्छावृत्तिः कथञ्चन’ इति हि ब्राह्मे ॥ 20 ॥
ॐ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॐ ॥ 21-454 ॥
स्तुतिमात्रमेव स्वेच्छाचरणं न विधिः । तैरपि सामान्यविधिस्वीकारादिति चेन्न । अपूर्वत्वात् परवशत्वात् । सर्वविध्यतिक्रमेण स्तुतिमात्रविषयत्वं परब्रह्मण एव हि ।
‘विधीनां विषयास्त्वन्ये ब्रह्मणः स्वेच्छया कृतौ ।
परस्य ब्रह्मणो ह्येव सर्वविधृतिदूरता’ इति च ब्रह्मतर्के ॥ 21 ॥
ॐ भावशब्दाच्च ॐ ॥ 22-455 ॥
‘यथाविधानमपरे विधिर्भावे प्रजापतेः ।
ब्रह्मणः परमस्यैव सर्वविद्यतिदूरता’ इति च तुरश्रुतौ ॥ 22 ॥
ॐ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॐ ॥ 23-456 ॥
‘केन स्याद्येन स्यात्’ इत्यादयः स्थिरत्वनिवृत्त्यर्था इति चेन्न ।
‘त्रेधा ह ज्ञानिनो विधिनियता अनियताः स्वेच्छानियता इति ।
विधिनियता मनुष्या अनियता हि देवा ब्रह्मैव स्वेच्छानियतः’
इति गौपवनश्रुतौ विशेषितत्वात् ॥ 23 ॥
ॐ तथा चैकवाक्योपबन्धात् ॐ ॥ 24-457 ॥
एवं सति विधिवाक्यानां स्वेच्छावृत्तिवाक्यानां च सम्बन्धो भवति ॥ 24 ॥
ॐ अत एव चाग्नीन्धनाद्यनपेक्षा ॐ ॥ 25-458 ॥
अत एव ज्ञानस्य मोक्षादेन नाग्निहोत्राद्यपेक्षा ।
ब्रह्मतर्के च –
‘येषां ज्ञानं समुत्पन्नं तेषां मोक्षो विनिश्चितः ।
शुभकर्मभिराधिक्यं विपरीतैर्विपर्ययः ॥
स्वेच्छानुवृत्यैव भवेद् ब्रह्मणः प्रायशस्तथा ।
देवानामपि सर्वेषां विशेषादुत्तरोत्तरम्’ इति ॥ 25 ॥
ॐ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॐ ॥ 26-459 ॥
सर्वधर्मापेक्षा च ज्ञानस्येत्पत्तौ ।
‘विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन’ इति श्रुतेः ।
यथा गतिनिष्पत्यर्थमश्वादयोऽपेक्ष्यन्ते न विनिष्पन्नगतेर्ग्रामादिप्राप्तौ ॥ 26 ॥
ॐ शमदमाद्युपेतः स्यात् तथाऽपितु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॐ ॥ 27-460 ॥
यद्यपि ज्ञानेनैव मोक्षो नियतस्तथाऽपि ज्ञानी शमदमाद्युपेतः स्यात्।’आचार्याद्विद्यामवाप्यैतमात्मानमभिपश्य शान्तो भवेद्दान्तो भवेदनुकोलो भवेदाचार्यं परिचरेत् परिचरेदाचार्यम्’ इति माठरश्रुतौ ज्ञानिनोऽपि तद्विधेः ।
‘ब्राह्मीं वाव त उपनिषदब्रूम’ इति ।
तस्यैतपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनम् ।
यो वा एतामुपनिषदमेवं वेद’
इति ज्ञानाङ्गतया तेषामवश्यानुष्ठेयत्वात् ।
‘यस्य ज्ञानं तस्य मोक्ष इति नात्र विचारणा ।
तस्य शान्त्यादयोऽङ्गानि तस्मात् तेषामनिष्ठितिः ॥
अवश्यकरणीया स्यादन्यथाऽल्पफलं भवेत्’ इति च आग्नेये ।
तु शब्दः पूर्णफलार्थत्वं सूचयति ॥ 27 ॥
ॐ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॐ ॥ 28-461 ॥
‘यदि ह वा अप्येवंविन्निखिलं भक्षयीतैवमेव स भवति’
इति सर्वान्नानुमतिः प्राणात्ययविषया ।
‘न वा अजीविष्यमिमानखादन्निति होवाच कामो म उदपानम्’इति दर्शनात् ॥ 28 ॥
ॐ अबाधाच्च ॐ ॥ 29-462 ॥
‘अन्यायचरणाभावे न हि ज्ञानस्य बाधनम् ।
अतो विद्वानपि न्यायं वर्तेतोत्कर्षसिद्धये’ इति च ब्रह्मतर्के ॥ 29 ॥
ॐ अपि स्मर्यते ॐ ॥ 30-463 ॥
‘अतीतानागतज्ञानी त्रैलोक्योद्दरणक्षमः ।
एतादृशोऽपि नाचारं श्रौतं स्मार्तं परित्यजेत्’ इति हरिवंशेषु ॥ 30 ॥
ॐ शब्दश्चातोऽकामचारे ॐ॥ 31-464 ॥
‘स य एतदेवंविदेवं मन्वान एवं पश्यन् न कामचरितं चरेन्न कामं भक्षयीत न कामामनुवर्तेत’ इति कौण्डन्यश्रुतौ ।
अत इत्यल्पफलत्वं सूचयति ।
‘न निषिद्दानि वर्तेत पूर्णज्ञानफलेच्छया’ इति पाद्मे ॥ 31 ॥
ॐ विहितत्वाच्चाश्रमकर्मापि ॐ ॥ 32-465 ॥
न केवलं निषिद्दाकरणेन पूर्यते । कर्तव्यं च वर्णाश्रमविहितं कर्म ॥
‘पश्यन्नपीममात्मानं कुर्यात् कर्मविचारयन्।
यदात्मानः सुनियतमानन्दोत्कर्षमाप्नुयात्’
इति कौषारवश्रुतौ विहितत्वाच्च । अपिशब्दो वर्णधर्मसमुच्चयार्थः ॥ 32 ॥
ॐ सहकारित्वेन च ॐ ॥ 33-466 ॥
‘यथा राज्ञः सहकार्येव मन्त्री तथाऽप्यृते तं क्षितिपः कार्यमृच्छेत् ।
एवं ज्ञानं कर्म विनाऽपि कार्यं सहायभूतं न विचारः कुतश्चित्’
इति कमठश्रुतौ सहकारित्वोक्तेश्च ।
‘ज्ञानान्मोक्षो भवेत्येव सर्वकार्यकृतोऽपि तु ।
आनन्दो ह्रसतेऽकार्याच्छुभं कृत्वा तु वर्दते’ इति ब्रह्माण्डे ॥
सर्वदुःखनिवृत्तिश्च ज्ञानिनो निश्चितैव हि ।
उपासया कर्मभिश्च भक्त्या चानन्दचित्रता’ इति बृहत्तन्त्रे ॥
‘धर्मस्वरूपचित्रत्वाद्यो यो देवमनोगतः ।
स एव धर्मो विज्ञेयो न ह्येते लोकसम्मिताः’ इति च पाद्मे ॥ 33 ॥
॥ इति कामचाराधिकरणम् (स्तुत्यधिकरणम्) ॥ 04 ॥
ॐ सर्वथाऽपितु त एवोभयलिङ्गात् ॐ ॥ 34-467 ॥
सर्वप्रकारेणोत्साहेऽपि ये ज्ञानयोग्यास्त एव ज्ञानं प्राप्नुवन्ति नान्ये ।
‘य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’
इति श्रुत्याऽऽचार्योपदेशसाम्येऽपि विरोचनो विपरीतज्ञानमापेन्द्रः सम्यज्ज्ञानमित्युभयविधलिङ्गात् ॥ 34 ॥
ॐ अनभिभवं च दर्शयति ॐ ॥ 35-468 ॥
‘दैवीमेव सम्पत्तिं देवा अभिगच्छन्त्यासुरीमेव चासुरा नैतयोरभिभवः कदाचित् स्वभाव एव ह्यवतिष्ठन्ते’ इति स्वभावानभिभवं च दर्शयति ॥ 35 ॥
ॐ अन्तरा चापि तु तद्दृष्टेः ॐ ॥ 36-469 ॥
सम्यज्ज्ञानविपरीतज्ञानयोरन्तरा स्थितानामपि देवासुरभावयोर्दार्ढ्यदृष्टेः॥ 36 ॥
ॐ अपि स्मर्यते ॐ ॥ 37-470 ॥
‘असुरा असुरेणैव स्वभावेन च कर्मणा ।
ज्ञानेन विपरीतेन तमो यान्ति विनिश्चयात् ॥
देवा दैवस्वभावेन कर्मणा चाप्यसंशयम् ।
सम्यज्ज्ञानेन परमां गतिं गच्छन्ति वैष्णवीम् ॥
नानयोरन्यथाभावः कदाचित् क्वापि विद्यते ।
मानुषा मिश्रमतयो विमिश्रगतयोऽपि च’ इति स्कान्दे ॥ 37 ॥
ॐ विशेषानुग्रहं च ॐ ॥ 38-471 ॥
शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः ।
एदमानद्विळुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान्’
इति विशेषानुग्रहं च दर्शयति देवेषु परमेश्वरस्य।
‘असुरान् दमयन् विष्णुः स्वपदं च सुरान् नयन् ।
पुनः पुनर्मानुषांस्तु सृतावावर्तयत्यसौ’ इति भविष्यत्पर्वणि ॥ 28 ॥
ॐ अतस्त्वितरज्ज्यायोलिङ्गाच्च ॐ ॥ 39-472 ॥
देवभागादसुरभाग एव बहुलः । ‘तस्मान्न जनतामियात्’ इति लिङ्गात् । चशब्दात्
‘ततः कनीयासा एव देवा ज्यायासा असुराः’ इति श्रुतेश्च ।
‘असुरा बहुला यस्मात् तस्मान्न जनतामियात्’ इति च ब्राह्मे ॥ 39 ॥
ॐ तद्भूतस्य तु तद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॐ ॥ 40-473 ॥
असुरजातेरेवासुरत्वं देवजातेरेव देवत्वं जैमिनेरपि सिद्धमेव।
‘नासुरा दैवीं न देवा आसुरीं न मनुष्या दैवीमासुरीं च गतिमीयुरात्मीयामेव जातिमनुभवन्ति’ इति नियमश्रुतेः ।
‘नासुराणां दैवं रूपं न देवानामासुरं न चोभयं मनुष्याणां यो यद्रूपः स तद्रूपो निसर्गो ह्येष भवति’ इत्यतद्रूपत्वश्रुतेः ।
‘तं भूतिरिति देवा उपासांचक्रिरे ते बभूवुस्तस्माद्धाऽप्येतर्हि सप्तो भूर्भूरित्येव प्रशस्वित्यभूतिरित्यसुरासेते ह परूभभूवुः’
इति देवासुराणां भावाभावश्रुतेश्च ।
देवानां भूतिरित्येव मनो विष्णौ स्वभावतः ।
असुराणामभूतित्वेनैतन्नेयमतोऽन्यथा ॥
देवाः शापाभिभूतत्वात् प्रह्लादाद्या बभूविरे ।
अतः सुगतिरेतेषां नान्यथा व्यत्ययो भवेत्’ इति चाध्यात्मे ॥ 40 ॥
॥ इति उभयलिङ्गाधिकरणम् ॥ 05 ॥
ॐ न चाधिकारिकमपि पतनानुमानात् तदयोगात् ॐ ॥ 41-474 ॥
न च परमात्मैश्वर्यादिकमाकाङ्क्ष्यम्, ब्रह्मादीनामपु नाकाङ्क्षयं, किमुपरस्येति सूचयितुमपिशब्दः । चशब्दस्तु ज्ञानार्थीनां पूर्वोक्तादित्थम्भावान्तरसूचकः । अयोग्यमारोढुं प्रयतन् प्रपतन् हि दृश्यते । एवमयोगस्य परमात्मैश्वर्यस्य ब्रह्मादिपदस्य चाकाङ्क्षायां पतनमनुमीयते ।
‘न देवपदमन्विच्छेत् कुत एव हरेर्गुणान् ।
इच्छन् पतति पूर्वस्मादधस्ताद्यत्र नोत्थितिः’ इति ब्रह्माण्डे ।
‘स्वकीयमिच्छमानं तु राजाद्याः पातयन्ति हि ।
एवमेव सुराद्याश्च हरिश्च स्वपदेच्छुकम्’
इत्याद्यनुमानरूपवाक्याच्च
‘मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षत । अवदस्यूँरधूनुथाः’ इति च श्रुतिः॥
ॐ उपपूर्वमपीत्येके भावशमनवत् तदुक्तम् ॐ ॥ 42-475 ॥
उपदेवपदं च नाकाङ्क्ष्यमित्येके । भावशमनवदृष्टिपदवदेव । तच्चोक्तमिन्द्रद्युम्नश्रुतौ –
‘अथ यथर्षीन् प्रजापतीन् नाकाङ्क्षेदेवं न गन्धर्वान् न विद्याधरान् न सिद्धान्’ इति।
बृहत्संहितायां च –
‘न दैवानभिकाङ्क्षेत कुत एव हरेर्गुणान् ।
प्राजापत्यान् न चार्षां गान्धर्वादीनपि क्वचित् ॥
ऋष्यादिषु विशेषे तु दोषो नैवाविशेषतः’
इति विशेषदर्शनार्थमेक इत्युक्तम् ॥ 42 ॥
ॐ बहिस्तूभयथाऽपि स्मृतेराचाराच्च ॐ ॥ 43-476 ॥
देवर्षिगन्धर्वादिपदेभ्योऽन्यत्र शुभविषय आकाङ्क्षायामनाकाङ्क्षायां च न पतनम् ।
‘देवर्षिगन्धर्वाणां पदाकाङ्क्षी पतेत् ध्रुवम् ।
अन्यत्र शुभमाकाङ्क्षन् न पतेदविरोधतः’ इति स्मृतेः ॥
‘नानात्वमेव कामानां नाकामः क्व च दृश्यते ।
अतोऽविरुद्धकामः स्यादकामस्तेन भण्यते’ इत्याचाराच्च ॥ 43 ॥
॥ इति अधिकारिकाधिकरणम् ॥ 06 ॥
ॐ स्वामिनः फलश्रुतेरित्यात्रेयः ॐ ॥ 44-477 ॥
‘ब्रह्मविदाप्नोति परम्’ इत्यादि फलं स्वामिनां देवानामेव भवति ।
‘यदु किञ्चेमाः प्रजाः शुभमाचरन्ति देवा एव तदाचरन्ति यदु किं चेमाः प्रजा विजानते देवा एव तद्विजानते देवानां ह्येतद्भवति स्वामी हि फलमश्नुते नास्वामी कर्म कुर्वाणः’
इति माध्यन्दिनायनश्रुतेरित्यात्रेयो मन्यते ॥ 44 ॥
ॐ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॐ ॥ 45-478 ॥
सत्रयागेष्वृत्विजामपि फलदर्शनादल्पं फलं प्रजानामपि भवतीत्यौडुलोमिर्मन्यते । तधर्थं देवैः क्रियमाणत्वात् ॥ 45 ॥
ॐ सहकार्यन्तरविधिःपक्षेण तृतीयं तद्वतो विध्यादिवत् ॐ ॥ 49-479 ॥
तृतीयः स्वपक्षः । देवानां ज्ञापनादिकर्मणि सहकार्यान्तरत्वेन प्रजा विधीयन्ते । यथा प्रजावतो राज्ञः प्रजाः सहकारित्वेन विधीयन्ते । यथावाऽऽचार्यस्य शिष्याः । वाराहे च –
‘ज्ञानादिदानं देवानां विष्णुना साधु चोदितम् ।
वेदे च तेषां विहितं तत्राचार्यो महत्तरः ॥
विहितः सहकारित्वे सहकार्यान्तरं प्रजाः ।
पातृत्वेन यथा राज्ञो यथा शिष्या गुरोरपि ॥
तस्माच्छ्रुतं फलं तासामाचार्याणां महत्तरम् ।
ततो महत्तरं प्रोक्तं देवानामुत्तरोत्तरम्’ इति ॥ 46 ॥
॥ इति फलश्रुत्यधिकरणम् ॥ 07 ॥
ॐ कृत्स्नभावात् तु गृहिणोपसंहारः ॐ ॥ 47-480 ॥
‘कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धार्मिकान् विदधत्’ इत्युक्त्वा
‘न च पुनरावर्तते न च पुनरावर्तते’ इति गृहिणोपसंहारः क्रियते
तस्माद्गृहस्तस्यैवोत्तवत्वमिति न वाच्यम् ।
यतः कृत्स्नगृहस्थान् देवानपेक्ष्यैवोपसंहारः क्रियते ।
‘कृत्स्ना ह्येते गृहिणो देवाः कृत्स्ना एते यतयोऽत एतेषां न पुत्रा दायमुपयन्ति स चैते गृहान् विसृजन्त्यरागा अद्वेषा अलोभाः सर्वभोगाः सर्वज्ञाः सर्वकर्तारः’ इति पौत्रायणश्रुतिः ॥ 47 ॥
ॐ मौनवदितरेषामप्युपदेशात् ॐ ॥ 48-481 ॥
न चाश्रमद्वयमेव देवानाम् ।
‘देवा एव ब्रह्मचारिणो देवा एव गृहस्था देवा एव वनस्था यथा ह्येते मुनय एवं सर्ववर्णाः सर्वाश्रमाः सर्वं ह्येते कर्म कुर्वन्ति’ इति कौण्ठरव्यश्रुतौ यतित्वदृष्टान्तेनान्येषामप्युपदेशात् ॥ 48 ॥
॥ इति कृत्स्नभावाधिकरणम् ॥ 08 ॥
ॐ अनाविष्कुर्वन्नन्वयात् ॐ ॥ 49-482 ॥
‘एतां विद्यामदीत्य ब्रह्मदर्शी वाव भवति ।
स एतां मनुष्येषु विब्रूयात् ।
यथा यथा ह वै ब्रूयात् तथा तथाऽधिको भवति’
इति माठरश्रुतौ विद्यादानं श्रूयते । तच्च बहूनां स्वीकरणार्थमाविष्कारेणेति न मन्तव्यम् । अन्वयाद्युक्ते । अविष्कारेऽयोग्यानामपि स्वीकारप्राप्तिः । तच्च विषिद्धम् –
‘मा नः स्तेनेभ्यो यो अभि द्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुः।
येषां नैतन्नापरं कि च नैकं ब्रह्मणस्पते ब्रूहि तेभ्यं कदाचित् ॥
अथोशमेनोपरता मनुष्याः ये धर्मिणो ब्रूहि तेभ्यः सदा नः ।
आदेवानामोहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः’ इति ।
विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवदिस्टेऽहमस्मि ।
अनार्यकायानृजवे शठाय न मां ब्रूया ऋजवे ब्रूहि नित्यम्’ इति च ॥ 49 ॥
॥ इति अनाविष्काराधिकरणम् (अन्वयाधिकरणम्) ॥ 09 ॥
ॐ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॐ ॥ 50-483 ॥
‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निधिध्यासितव्यः’
इति दर्शनार्थं श्रवणादि विधीयते । तच्च दर्शनमैहिकमेव प्रारब्दप्रतिबन्धाभावे ।
‘श्रुत्वाऽऽत्मानं मतिपूर्वं ह्युपास्येहैव दृष्टिं परमस्य विन्देत् ।
यद्यारब्धं कर्म निबन्धकं स्यात् प्रेत्यैव पश्येद्योगमेवान्ववेक्ष्य’
इति सौपर्णश्रुतौ दर्शनात् ।
‘अनादिजन्मसम्बन्धं निर्भेत्तुं पापपञ्जरम् ।
यावत्या सेवया शक्यं तावत् कार्यं न संशयः॥
यावद्दूरे स्थितो गम्यात् तावद्गन्तव्यमेव हि ।
इह जन्मान्तरे वाऽपि तावत्यैव तु दर्शनम् ॥
श्रवणं मननं चैव निधिध्यासनमेव च ।
परे गुरौ च या भक्तिः परिचर्याधिकं हरेः ॥
एषा सेवेति सम्प्रोक्ता यथा तद्दर्शनं भवेत्’
इति बृहत्संहितायाम् ॥ 50 ॥
॥ इति ऐहिकाधिकरणम् ॥ 10 ॥
ॐ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॐ ॥ 51-484 ॥
एवमेव प्रारब्धकर्माभावे शरीरपातानन्तरमेव मोक्षः, तद्भावे जन्मान्तराणीत्यनियमः ।
‘धर्मी स्वर्गं विधर्मी निरयमेत्येव ब्रह्मसंस्थोऽमृतमेत्येव ब्रह्मसंस्थोऽमृतम्’ इति ब्रह्मसंस्थस्य मोक्षस्यैवावधारणात् ।
‘विद्वानमृतमाप्नोति नात्र कार्या विचारणा ।
अवसन्नं यदारब्दं कर्म तत्रैव गच्छति ॥
न चेद्बहूनि जन्मानि प्राप्यैवान्ते न संशयः’
इति च नारायणाध्यात्मे ॥ 51 ॥
॥ इति मुक्तिफलाधिकरणम् ॥ 11 ॥
॥ इति श्रीमद्ब्रह्मसूत्रभाष्ये तृतीयाध्यायस्य
चतुर्थः पादः ॥ 03-04॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये तृतीयाध्यायः (साधनाध्यायः)
॥ 03 ॥

चतुर्थाध्यायः (फलाध्यायः) ॥ 03-04 ॥
प्रथम पादः ॥ 04-01 ॥

फलं निगद्यतेऽस्मिन्नध्याये । कर्मनाशाख्यं फलमस्मिन् पादे ।
नित्यशः कार्यं सर्वथा भाव्यं साधनं प्रथमथ उच्यते ।
प्रायिकत्वाच्छाध्यायानां पादानां च न विरोधः ।
ॐ आवृत्तिरसकृदुपदेशात् ॐ ॥ 01-485 ॥
‘आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निधिध्यासितव्यः’
इत्यादीनां नाग्निष्टोमादिवदेकवारेणैव फलप्राप्तिः। किंत्वावृत्तिः कर्तव्या ।
‘स य एषोऽणिमैतदात्म्यमिदं सर्वम्’
इत्याद्यसकृदुपदेशात् ॥ 01 ॥
ॐ लिङ्गाच्च ॐ ॥ 02-486 ॥
‘स तपोऽतप्यत……. पुनरेव वरुणं पितरमुपससार’
इत्याद्यावर्तनलिङ्गाच्च ।
‘नित्यशः श्रवणं चैव मननं ध्यानमेव च ।
कर्तव्यमेव पुरुषैर्ब्रह्मदर्शनमिच्छुभिः’ इत् बृहत्तन्त्रे ॥ 02 ॥
॥ इति आवृत्यधिकरणम् ॥ 01 ॥
ॐ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॐ ॥ 03-487 ॥
आत्येत्युपदेश उपासनं च मोक्षार्थिभिः सर्वथा कार्यमेव । ‘नान्यं विचिन्तय आत्मानमेवाहं विजानीयामात्मनमुपास आत्मा हि ममैष भवति’ इति ह्युपगच्छन्ति । ‘आत्मेत्येवोपास्स्व आत्मेत्येव विजानीहि नान्यं किञ्चन विजानथ आत्मा ह्येवैष भवति’ इति ग्राहयन्ति च ।
‘आत्मेत्युपासनम् कार्यं सर्वथैव मुमुक्षुभिः ।
नानाक्लेशसमायुक्तोऽप्येतावन्नैव विस्मरेत्’ इति भविष्यत्पर्वणि ॥
‘आत्मा विष्णुरिति ध्यानं विशेषणविशेष्यतः ।
सर्वेषां च मुमुक्षूणामुपदेशश्च तादृशः ॥
कर्तव्यो नास्य हानेन कस्यचिन्मोक्ष इष्यते’ इति ब्राह्मे ॥ 03 ॥
॥ इति आत्मोपगमाधिकरणम् ॥ 02 ॥
ॐ न प्रतीके न हि सः ॐ ॥ 04-488 ॥
‘नाम ब्रह्मेत्युपास्ते’ इत्यादिना शब्दभ्रान्त्या न प्रतीके ब्रह्मदृष्टिः कार्या । किन्तु तत्स्थत्वेनैवोपासनं कार्यम् । ब्रह्मतर्के च –
‘नामादिप्राणपर्यन्तमुभयोः प्रथमात्वतः ।
ऐक्यदृष्टिरिति भ्रान्तिरबुधानां भविष्यति ॥
नामादिस्थितिरेवात्र ब्रह्मणो हि विधीयते ।
सर्वार्था प्रथमा यस्मात् सप्तम्यर्था ततो माता’ इति ॥ 04 ॥
॥ इति नप्रतीकाधिकरणम् ॥ 03 ॥
ॐ ब्रह्मदृष्टिरुत्कर्षात् ॐ ॥ 05-489 ॥
ब्रह्मदृष्टिश्च सर्वथा कार्यैव परमेश्वरे । उत्कृष्टत्वात् ।
‘ब्रह्मदृष्ट्या सदोपास्यो विष्णुः सर्वैरपि ध्रुवम् ।
महत्त्ववाची शब्दोऽयं महत्त्वज्ञानमेव हि ।
सर्वतः प्रीतिजनकमतस्तत् सर्वता भवेत् ॥
आत्मेत्येव यदोपासा तदा ब्रह्मत्वसंयुता ।
कार्यैव सर्वथा विष्णोर्ब्रह्मत्वं न परित्यजेत्’ इति ब्रह्मतर्के ॥ 05 ॥
॥ इति ब्रह्मदृष्ट्यधिकरणम् ॥ 04 ॥
ॐ आदित्यादिमतयश्चाङ्ग उपपत्तेः ॐ ॥ 06-490 ॥
‘चक्षोः सूर्यो अजायत’ इत्याद्युपासनं च देवानां कार्यमेव । स्वोत्पत्तिस्थानात् स्वाश्रयत्वान्मुक्तौ तत्र लयस्यापेक्षितत्वाच्चोपपन्नं तथोपासनम् । नारायणतन्त्रे च –
‘आधिव्याधिनिमित्तेन विक्षिप्तमनसोऽपि तु ।
गुणानां स्मरणाशक्तौ विष्णोर्ब्रह्मत्वमेव तु ॥
स्मर्तव्यं सततं तत् तु न कदाचित् परित्यजेत् ।
अत्र सर्वगुणानां च यतोऽन्तर्भाव इष्यते ॥
स्वोत्पत्त्यङ्गं च देवानां विष्णोश्चिन्त्यं सदैव तु ।
तेषां तत्र प्रवेशो हि मुक्तिरित्युच्यते बुधैः ॥
तदाश्रिताश्च ते नित्यं ततश्चिन्त्यं विशेषतः’ इति ॥ 06 ॥
॥ इति आदित्यादिमत्यधिकरणम् ॥ 05 ॥
ॐ आसीनः सम्भवात् ॐ ॥ 07-491 ॥
सर्वदोपासनं कुर्वन्नप्यासीनो विशेषतः कुर्यात् ।
तदा विक्षेपाल्पत्वेन सम्भवात् ॥ 07 ॥
ॐ ध्यानाच्च ॐ ॥ 08-492 ॥
‘स्मरणोपासनं चैव ध्यानात्मकमिति द्विधा ।
स्मरणं सर्वदा योग्यं ध्यानोपासनमानसे॥
नैरन्तर्यं मनोवृत्तेर्ध्यानमित्युच्यते बुधैः ।
आसीनस्य भवेत् तत् तु न शयानस्य निद्रया ॥
स्थितस्य गच्छतो वाऽपि विक्षेपस्यैव सम्भवात् ।
स्मरणात् परमं ज्ञेयं ध्यानं नास्त्यत्र संशयः’
इति च नारायणतन्त्रे। अतो ध्यानत्वाच्च ॥ 08 ॥
ॐ अचलत्वं चापेक्ष्य ॐ ॥ 09-493 ॥
‘अचलं चेच्छरीरं स्यान्मनसश्चाप्यचालनम्।
चलने तु शरीरस्य चञ्चलं तु मनो भवेत्’ इति च ब्रह्माण्डे ॥ 09 ॥
ॐ स्मरन्ति च ॐ ॥ 10-494 ॥
‘समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्’ इत्यादि ॥ 10 ॥
ॐ यत्रैकाग्रता तत्रा विशेषात् ॐ ॥ 11-495 ॥
देशकालावस्थादिषु यत्रैकाग्रता भवति तत्रैव स्थातव्यम् ।
‘तमेव देशं सेवेत तं कालं तामवस्थितिम् ।
तानेव भोगान् सेवेत मनो यत्र प्रसीदति ॥
न हि देशादिभिः कश्चिद्विशेषः समुदीरितः ।
मनप्रसाधनार्थं हि देशकालादिचिन्तना’ इति वाराहे ॥ 11 ॥
॥ इति आसनाधिकरणम् ॥ 06 ॥
ॐ आ प्रायणात् तत्रापि हि दृष्टम् ॐ ॥ 12-496 ॥
यावन्मोक्षस्तावदुपासनादि कार्यम् ॥
‘स यो ह वैतद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत’
इति हि श्रुतिः ॥
‘सर्वदैनमुपासीत यावद्विमुक्तिर्मुक्ता अपि ह्येनमुपासते’
इति सौपर्णश्रुतिः ॥
‘श्रुणुयाद्यावदज्ञानं मतिर्यावदयुक्तता ।
ध्यानं च यावदीक्षा स्यान्नेक्षा क्वचन बाध्यते ॥
दृष्टतत्त्वस्य च ध्यानं यदा दृष्टिर्न विद्यते ।
भक्तिश्चानन्तकालीना परमे ब्रह्मणि स्फुटा ।
आ विमुक्तेर्विधिर्नित्यं स्वत एव ततः परम्’ इति ब्रह्माण्डे ॥ 12 ॥
॥ इति प्रायणाधिकरणम् ॥ 07 ॥
ॐ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॐ ॥13-497 ॥
ब्रह्मदर्शन उत्तराघस्याश्लेषः पूर्वस्य विनाशश्च ।
‘तद्यथा पुष्करफलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते’।’तद्यथैषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हैवास्य सर्वे पाप्मानः प्रदूयन्ते’ इति तद्व्यपदेशात् ॥ 13 ॥
ॐ इतरस्याप्येवमसंश्लेषः पाते तु ॐ ॥ 14-498 ॥
पुण्यस्याप्येवमसंश्लेषः पाते। तुशब्दोऽनुत्थानवाची ।
‘यथाऽश्लेषो विनाशश्च मुक्तस्य तु विकर्मणः ।
एवं सुकर्मणश्चापि पततस्तमसि ध्रुवम्’ इति चाग्नेये ॥ 14 ॥
ॐ अनारब्दकार्ये एव तु पूर्वे तदवधेः ॐ ॥ 15-499 ॥
अनारब्दकार्ये एव पूर्वे पुण्यपापे विनश्यतः ।
‘तस्य तावदेव चिरं यावन्न विमोक्ष्येऽत सम्पत्स्यते’ इति तदवधेः ।
तुशब्दः स्मृतिद्योतकः ।
‘यदनारब्दपापं स्यात् तद्विनश्यति निश्चयात् ।
पश्यतो ब्रह्म निर्द्वन्द्वं हीनं च ब्रह्म पश्यतः ॥
द्विषतो वा भवेत् पुण्यनाशो नास्त्यत्र संशयः ॥
तस्याप्यारब्दकार्यस्य न विनाशोऽस्ति कुत्रचित् ।
आरब्दयोश्च नाशः स्यादल्पयोः पुण्यपापयोः’
इति च नारायणतन्त्रे ॥ 15 ॥
ॐ अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॐ ॥ 16-500 ॥
अग्निहोत्राद्यपि तु मोक्षेऽनुभावायैव । तुशब्दाद्ब्रह्मदर्शनवतः ।
‘स एनमविदितो न भुनक्ति यथा वेदो वाऽननूक्तोऽन्यद्वा कर्माकृतम् यदि ह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्दास्यान्ततः क्षीयत । एवात्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवात्मनो यद्यत् कामयते तत् तत्सृजते’ इति तद्दर्शनात् ॥ 16 ॥
ॐ अतोऽन्यदपीत्येकेषामुभयोः ॐ ॥ 17-501 ॥
मुक्तावनुभवकारणाद्यदन्यत् तत् पुण्यमपि विनश्यति, अप्रारब्दमनभीष्टं च तथा ह्येकेषां पाठ उभयोस्त्यागेन –
‘तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्’ इति ।
‘अनभीष्टमनारब्दं पुण्यमप्यस्य नश्यति ।
किमु पापं परब्रह्मज्ञानिनो नास्ति संशयः’ इति पाद्मे ॥ 17 ॥
ॐ यदेव विद्ययेति हि ॐ ॥ 18-502 ॥
ब्रह्मदर्शिकृतमल्पमपि पुण्यं महत्तममनन्तम् च भवति ।
‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ इति श्रुतेः ।
‘न हास्य कर्म क्षीयते’ इति च ।
‘अल्पमात्रकृतो धर्मो भवेद् ज्ञानवतो महान् ।
महानपि कृतो धर्मो ह्यज्ञानं निष्फलो भवेत्’इति च भारते ॥ 18 ॥
ॐ भोगेन त्वितरे क्षपयित्वाऽथ सम्पत्स्यते ॐ ॥ 19-503 ॥
आरब्दपुण्यपापे भोगेन क्षपयित्वा ब्रह्म सम्पत्स्यते । अथेति नियमसूचकः ।
‘आरब्दपुण्यपापस्य भोगेन क्षपणादनु ।
प्राप्नोत्येव तमो घोरं ब्रह्म वा नात्र संशयः ॥
ब्रह्मणां शतकालात् तु पूर्वमारब्दसंक्षयः ।
नियमेन भवेन्नात्र कार्या काचिद्विचारणा’ इति च नारायणतन्त्रे ॥ 19 ॥
॥ इति तदधिगमाधिकरणम् ॥ 08 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये चतुर्थाद्यायस्य प्रथमः पादः ॥ 04-01 ॥
द्वितीयः पादः ॥ 04-02 ॥

देवानां मोक्ष उत्क्रान्तिश्चास्मिन् पाद उच्यते –
ॐ वाङ्मनसि दर्शनाच्छब्दाच्च ॐ ॥ 01-504 ॥
वागभिमानिन्युमा मनोऽभिमानिनि रुद्रे विलीयते । वाचो मनोवशत्वदर्शनात् ।’तस्य यावन्न वाङ्मनसि सम्पद्यते’ इति शब्दाच्च ।
‘उमा वै वाक् समुद्दिष्टा मनो रुद्र उदाहृतः ।
तदेतन्मिथुनं ज्ञात्वा न दाम्पत्याद्विहीयते’ इति स्कान्दे ॥ 01 ॥
ॐ अत एव च सर्वाण्यनु ॐ ॥ 02-505 ॥
अत एव च शब्दात् सर्वाणि दैवतानि यथानुकूलं विलीयन्ते ।
‘अग्नौ सर्वे देवा विलीयन्तेऽग्निरिन्द्रे इन्द्र उमायामुमा रुद्रे विलीयते एवमन्यानि दैवतानि यथाऽनुकूलम्’ इति गौपवनश्रुतिः ॥ 02 ॥
॥ इति वाङ्मनसाधिकरणम् ॥ 01 ॥
ॐ तन्मनः प्राण उत्तरात् ॐ ॥ 03-506 ॥
‘मनः प्राण’ इत्युत्तराद्वचनान्मनोभिमानी रुद्रः प्राणे वायौ विलीयते ।
‘वायोर्वाव रुद्र उदेति वायौ विलीयते तस्मादाहुर्वायुर्देवानां श्रेष्ठः’ इति च कौण्डिन्यश्रुतिः ॥ 03 ॥
॥ इति मनोऽधिकरणम्॥ 02 ॥
ॐ सोऽध्यक्षे तदुपगमादिभ्यः ॐ ॥ 04-507 ॥
स प्राणः परमात्मनि विलीयते ।
‘सर्वे प्राणमुपगच्छन्ति प्राणः परमुपगच्छति प्राणं देवा अनुप्राणन्ति प्राणः परमानुप्राणिति तस्मादाहुः प्राणस्य प्राण इति’
‘प्राणः परस्यां देवतायाम्’ ।
‘मुक्ताः सन्तोऽग्निमाविश्य देवाः सर्वेऽपि भुञ्जते ।
‘अग्निरिंद्रं तथेन्द्रश्च वायुमाविस्य सोऽपि तु ।
आविश्य परमात्मानं भङ्क्ते भोगांस्तु बाह्यकान् ॥
न ह्यानन्दो निजस्तेषां परैर्लभ्यः कथञ्चन ।
किमु विष्णोः परानन्दो न ते विष्णुविति श्रुतेः ॥
प्राणस्य तेजसि लयो मार्गमात्रमुदाहृतम् ।
सर्वेशितुश्च सर्वादेस्तस्यान्यत्र लयः कथम्’ इत्यादि श्रुतिस्मृतिभ्यः ॥ 04 ॥
॥ इति अध्यक्षाधिकरणम् ॥ 03 ॥
ॐ भूतेषु तच्छ्रुतेः ॐ ॥ 05-508 ॥
भेतेष्वन्येषां देवानां लयः ।
भूतेषु देवा विलीयन्ते भूतानि परे न पर उदेति
नास्तमेत्येकल एव मध्ये स्थाता’ इति बृहच्छ्रुतेः ॥ 05 ॥
॥ इति भूताधिकरणम् ॥ 04 ॥
ॐ नैकस्मिन् दर्शयतो हि ॐ ॥ 06-509 ॥
नैकस्मिन् भूते सर्वेषां देवानां लयः ।‘पृथिव्यामृभवॊ विलीयन्ते मरुणेऽश्विनावग्नावग्नयो वायविन्द्रः सोम आदित्यो बृहस्पतिरित्याकाश एव साध्या विलीयन्ते । मृत्यवः पृथिव्यां वरुण आपोऽग्नयस्तेजसि मरुतो मारुत आकाशे विनायका विलीयन्ते’ इति महोपनिषच्चतुर्वेदशिखा च दर्शयतः । अतोऽग्नौ देवा विलीयते इत्यत्र निर्दिष्टानामेव ॥ 06 ॥
॥ इति अनेकलयाधिकरणम् (नैकस्मिन्नधिकरणम्) ॥ 05 ॥
ॐ समना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॐ ॥ 07-510 ॥
देशतः कालतश्च व्याप्त्या समो ना परमपुरुषो यस्याः सा समना । संसारानुपक्रमात् स्वतः एवामृतत्वं तस्याः । बृहच्छ्रुतिश्च –
‘द्वौवाव सृत्यनुपक्रमौ प्रकृतिश्च परमश्च द्वावेतौ नित्यमुक्तौ नित्यौ च सर्वगतौ चैतौ ज्ञात्वा विमुच्यते’ इति । नैतावता साम्यम् ॥ 07 ॥
ॐ तदपीतेः संसारव्यपदेशात् ॐ ॥ 08-511 ॥
‘समावेतौ प्रकृतिश्च परमश्च नित्यौ सर्वगतौ नित्यमुक्तावसमावेतौ प्रकृतिश्च परमश्च विलीनो हि प्रकृतौ संसारमेति विलीनः परमे ह्यमृतत्वमेति’ इति सौपर्णश्रुतेः ॥ 08 ॥
ॐ सूक्ष्मं प्रमाणतश्च तथोपलब्देः ॐ ॥ 09-512 ॥
सूक्ष्मत्वं चाधिकं ब्रह्मणः प्रकृतेः । ज्ञानानन्दैश्वर्यादिप्रमाणाधिक्यं च ।
‘सर्वतः प्रकृतिः सूक्ष्मा प्रकृतेः परमेश्वरः ।
ज्ञानानन्दौ तथैश्वर्यं गुणाश्चान्येऽधिकाः प्रभोः’ इति च तुरश्रुतिः ॥ 09॥
ॐ नोपमर्देनातः ॐ ॥ 10-513 ॥
अतस्तस्ये यो विशेषगुणास्तेषामनुपमर्देनैव साम्यम् ।
‘देशतः कालतश्चैव समा प्रकृतिरीश्वरे ।
उभयोरप्यबद्धत्वं तदबन्धः परात्मनः ।
स्वत एव परेशस्य सा चोपास्ते सदा हरिम् ॥
प्रकृतेः प्राकृतस्यापि ए गुणास्ते तु विष्णुना ।
नियता नैव केनापि नियता हि हरेर्गुणाः’ इति भविष्यत्पर्वणि ॥ 10 ॥
ॐ अस्यैव चोपपत्तेरूष्मा ॐ ॥ 11-514 ॥
‘द्विधा हीदमवदृष्यते ऊष्मावदनूष्मावच्च । तत्रोष्मावत्परं ब्रह्म यन्न जिघ्रन्ति न पश्यन्ति न शृण्वन्ति न विजानन्ति । अथानूष्मावत्प्रकृतिश्च प्राकृतं च यन्न जिघ्रन्ति जिघ्रन्ति च यन्न पश्यन्ति पश्यन्ति च यन्न शृण्वन्ति शृण्वन्ति च यन्न जानन्ति जानन्ति च’ इति सौपर्णश्रुतेः किञ्चित्साम्योपपत्ते ॥ 11 ॥
ॐ प्रतिषेधादिति चेन्न शारीरात् ॐ ॥ 12-515 ॥
‘असमो वा एष परो न हि कश्चिदेवं दृश्यते सर्वे ह्येतेऽणवो जायन्ते च म्रियन्ते च छिद्रा ह्येते भवन्ति । अथ परो न जायते न म्रियते पूर्णश्चैष भवति’ इति चतुर्वेदशिखायां साम्यप्रतिषेधान्नेति चेन्न । शरीराद्धि साम्यं प्रतिषिध्यते ॥ 12 ॥
कुतः ? –
ॐ स्पष्टो ह्येकेषाम् ॐ ॥ 13-516 ॥
‘अथातः समाश्चासमाश्चाभिधीयन्ते समासमाश्चाथ समानि ब्रह्मणो रूपाणि यैरुत्पत्तिः स्थितिर्लयो नियतिरायतिश्चैकं ह्येवैतद्भवत्यथासमा ब्रह्मेन्द्रो रुद्रः प्रजापतिर्बृहस्पतिर्ये के च देवा गन्धर्वा मनुष्याः पितरोऽसुरा यत्किञ्चेदं चरमचरं चाथ समाऽसमा प्रकृतिर्वाव समाऽसमैषा हि नित्याऽजरा तद्वशा च’
इति स्पष्टो हि माध्यन्दिनायानानां समादिवादः ॥ 13 ॥
ॐ स्मर्यते च ॐ ॥ 14-517 ॥
‘मत्स्यकूर्मवाराहाद्याः समा विष्णोरभेदतः ।
ब्रह्माद्यास्त्वमाः प्रोक्ताः प्रकृतिश्च समासमा’ इति च वाराहे ॥ 14 ॥
॥ इति समनाधिकरणम् ॥ 06 ॥
ॐ तानि परे तथा ह्याह ॐ ॥ 15-518 ॥
प्राणद्वारेण सर्वाणि दैवतानि परमात्मनि विलीयन्ते ।
‘सर्वे देवाः प्राणमाविष्य देवे मुक्तालयं परमे यान्त्यचिन्त्ये’
इति कौषारवश्रुतिः ॥ 19 ॥
॥ परा(लया)धिकरणम् ॥ 07 ॥
ॐ अविभागो वचनात् ॐ ॥ 16-519 ॥
‘एते देवा एतमात्मानमनुविश्य सत्याः सत्यकामाः सत्यसङ्कल्पा यथानिकाममन्तर्बहिः परिचरन्ति’ इति गौपवनश्रुतिः ।
तत्परमेश्वरकामाद्यविभागेनैव तेषां सत्यकामत्वम् ।
‘कामेन मे काम आगाद्धृदयाद्धृदयं मृत्योः’ इति वचनात् ।
‘मुक्तानां सत्यकामत्वं सामर्थ्यं च परस्य तु ।
कामानुकूलकामत्वं नान्यत् तेषां विधीयते’ इति ब्राह्मे ॥ 16 ॥
॥ अविभागाधिकरणम् ॥ 08 ॥
ॐ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॐ ॥ 17-520 ॥
उत्क्रान्तिकाले हृदयस्याग्र ज्वलनं भवति।
‘तस्य हैतस्य हृदयस्याग्रं प्रद्योतते’ इति श्रुतेः ।
तत्प्रकाशितद्वारो निष्क्रामति । विद्यासामर्थ्यात् ।
‘यं यं वाऽपि स्मरन् भावं त्यजत्यन्ते कलेवरम् ।
तम् तमेवैति कौन्तेय सदा तद्भावभावितः’ ॥
इति स्मृतेर्विद्याशेषगत्यनुस्मरणयोगाच्च।
‘आचार्यस्तु ते गतिं वक्ता’ इति हि लिङ्गम् ।
‘हृदिस्थेनैव हरिणा तस्यैवानुग्रहेण तु ।
उत्क्रान्तिर्ब्रह्मरन्द्रेण तमोवोपासतो भवेत्’ इति चाध्यात्मे ।
‘शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका ।
तयोर्ध्वमायान्नमृतत्वमेति विष्वङ्गन्या उत्क्रमणे भवन्ति’ इति च ॥ 17 ॥
ॐ रश्म्यनुसारी ॐ ॥ 18-521 ॥
निष्क्रामति ।
‘सहस्रं वा आदित्यस्य रश्मय आसु नाडीष्वाततास्तत्र श्वेतः सुषुम्नो ब्रह्मयानः सुषुम्नायामाततस्तत्प्रकाशेनैष निर्गच्छति’
इति हि पौत्रायणश्रुतिः ॥ 18 ॥
ॐ निशि नेति चेन्न सम्बन्धात् ॐ ॥ 19-522 ॥
रश्म्यभावान्निशि ज्ञानिना उत्क्रमणं न युक्तमिति चेन्न। सर्वदा संबन्धाद्रश्मीनाम् ॥ 19 ॥
कियत्कालम् ? –
ॐ यावद्देहभावित्वाद्दर्शयति च ॐ ॥ 20-523 ॥
यावद्देहो विद्यते तावद्रश्मिसम्बन्धोऽस्त्येव ।
‘संसृष्टा वा एते रश्मयश्च नाड्यश्च नैषां वियोगो
यावदिदं शरीरमत एतैः पश्यत्येतैरुत्क्रामत्येतैः प्रवर्तते’
इति हि माध्यन्दिनायनश्रुतिः ॥ 20 ॥
ॐ अतश्चायनेऽपि हि दक्षिणे ॐ ॥ 21-524 ॥
‘दक्षिणे मरणाद्याति स्वर्गं ब्रहमोत्तरायणे’
इत्युक्तेऽपि ज्ञानिनो दक्षिणायनोत्क्रान्तिर्युज्यते ।
‘शतं पञ्चैव सूर्यस्य दक्षिणायनरश्मयः ।
तावन्त् एव निर्दिष्टा उत्तरायणरश्मयः ॥
ते सर्वे देहसम्बद्दा सर्वदा सर्वदेहिनाम् ।
महर्लोकादिगन्तरा उत्तरायणरश्मिभिः ।
निर्गच्छन्तीतरैश्चापि यैरेष्टव्येतरा गतिः ॥
उत्तरं दक्षिणमिति त एव तु निगद्यते ।
न तु कालविशेषोऽस्ति ज्ञानिनां नियमात् फलम् ॥
ददाति कालेऽनुगुणे फलं किञ्चिद्विशिष्यते ।
अत्युत्तमानां केषांचिन्न विशेषोऽस्ति कालतः’
इति नारायणाध्यात्मे ॥ 21 ॥
॥ इति हृदयाग्रज्वलना(तदोकोऽ)धिकरणम् ॥ 09 ॥
ॐ योगिनः प्रति स्मर्येते स्मार्ते चैते ॐ ॥ 22-525 ॥
न केवलं कालादिकृते ब्रह्मचन्द्रगती स्मर्येते । किन्तु ज्ञानयोगिनः कर्मयोगिनश्च ।
‘अग्निर्ज्येतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्मब्रह्मविदो जनाः ॥
धूमो रात्रिस्तथा कृष्णः षण्मासादक्षिणायनम् ।
तत्र चान्द्रमासं ज्योतिर्योगी प्राप्य निवर्तते’
इत्यत्र योगीति विशेषणात् स्मरणनिमित्ते चैते गती ।
गत्यनुस्मरणाद्ब्रह्म चन्द्रं वा गच्छति ध्रुवम् ।
अननुस्मरतः काले स्मरणं प्राप्य वैगतिः’ इति हि आध्यात्मे ॥ 22 ॥
॥ इति प्रतिस्मरणाधिकरणम् (योग्यधिकरणम्) ॥ 10 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये चतुर्थाध्यायस्य द्वितीयः पादः ॥ 04-02 ॥

तृतीयः पादः ॥ 04-03 ॥

मार्गो गम्यं चास्मिन् पाद उच्यते –
ॐ अर्चिरादिना तत्प्रथितेः ॐ ॥ 01-526 ॥
‘तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहरह्ण आपूर्यमाणपक्षम्’ इत्यर्चिषः प्राथम्यं श्रूयते । ‘यदा ह वै पुरुषोऽस्माल्लोकात् प्रैति स वायुमागच्छति’ इति वायोः । तत्रार्चिषः प्राप्तिरेव प्रथमा ।
‘द्वावेव मार्गौ प्रतिथावर्चिरादिर्विपश्चिताम् ।
धूमादिः कर्मिणां चैव सर्ववेदविनिर्णयात् ॥
अग्निर्ज्योतिरिति द्वेधैर्वार्चिषः सम्प्रतिष्ठतिः ।
अग्निं गत्वा ज्योतिरेति प्रथमं ब्रह्म संव्रजन् ।
एकस्मिन्स्तुपुरे संस्थो द्विरूपोऽग्नेः सुतो महान्’ इति च ब्रह्मतर्के॥
॥ इति अर्चिराद्यधिकरणम् ॥ 01 ॥
ॐ वायुशब्दादविशेषविशेषाभ्याम् ॐ ॥ 02-527 ॥
अर्चिषो वायुं गच्छति ।‘स वायुमागच्छति’ इति सामान्यवचनात् ।‘स इतो गतो द्वितीयां गतिं वायुमागच्छति वायोरहरह्न आपूर्यमाणपक्षम्’ इति विशेषवचनाच्च ॥ 02 ॥
॥ इति वायुगत्यधिकरणम् ॥ 02 ॥
ॐ तटितोऽधिवरुणः सम्बन्धात् ॐ ॥ 03-528 ॥
‘मासेभ्यः संत्सरं संवत्सराद्वरुणलोकं वरुणलोकात् प्रजापति लोकम्’ इति कौण्डिन्यश्रुतिः ।
‘संवत्सरात् तटितमागच्छति तटितः प्रजापतिलोकम्’
इति च गौपवनश्रुतिः ॥
‘तत्र तटितो वरुणं गच्छति । तटिता ह्यूह्यते वरुणलोकस्तटिदुपरि मुक्तामयो राजते तत्रासौ वरुणो राजा सत्यानृते विविञ्चति’ इत्युपरिसम्बबन्धश्रुतेः ॥ 03 ॥
॥इति तटिदधिकरणम् ॥ 03 ॥
ॐ आतिवाहिकस्तल्लिङ्गात् ॐ ॥ 04-529 ॥
पूर्वोक्तस्त्वातिवाहिको वायुः । पूर्वगमनलिङ्गात् ॥ 04 ॥ कुतः ? –
ॐ उभयव्यामोहत् तत्सिद्धेः ॐ॥ 05-530 ॥
‘स वायुमागच्छति’ इति प्रथममुच्यते ।‘उत्क्रान्तो विद्वान् परमभिगच्छन् विद्युतमेवान्तत उपगच्छति द्यौर्वाव विद्युत् तत्पतिं वायुमुपगम्य तेनैव ब्रह्म गच्छति’ इत्यन्तेऽपि वायुगमनश्रुतेः । पूर्वोक्त आतिवाहिकः परो वेति व्यामोहे उत्तरे दिवस्पतिरिति विशेषणात् पूर्वत्रातिवाहिकस्यैव सिद्धेः
ब्रह्मतर्के च –
‘उत्क्रान्तस्तु शरीरात् स्वाद्गच्छत्यर्चिषमेव तु ।
ततो हि वायोः पुत्रं च योऽसौनाम्नाऽऽतिवाहिकः ॥
ततोऽहः पूर्वपक्षं चाप्युदक्संवत्सरं तथा ।
तटितं वरुणं चैव प्रजापं सूर्यमेव च ॥
सोमं वैश्वानरं चेन्द्रं ध्रुवं देवीं दिवं तथा ।
ततो वायुं परं प्राप्य तेनैति पुरुषोत्तमम्’ इति ॥ 05 ॥
॥ इति अतिवाहिकाधिकरणम् ॥ 04 ॥
ॐ वैद्युतेनैव ततस्तच्छ्रुतेः ॐ ॥ 06-531 ॥
प्रकारान्तरेण तत्र तत्रोच्यमानत्वाद्वायोरपि परतो ब्रह्मणोऽर्वाग्गन्तव्योऽस्तीति नाशङ्कनीयम् । विद्युत्पतिना वायुनैव ‘स एनान् ब्रह्म गमयति’ इति ब्रह्मगमनश्रुतेः ।
‘विद्युत्पतिर्वायुरेव नयेद्ब्रह्म न चापरः ।
कतोऽन्यस्य भवेच्छक्तिस्तमृते प्राणनायकम्’ इति बृहत्तन्त्रे ॥ 06 ॥
॥ इति वैद्युताधिकरणम् ॥ 05 ॥
ॐ कार्यं बादरिरस्यगत्युपपत्तेः ॐ ॥ 07-532 ॥
‘स एनान् ब्रह्म गमयति’ इति कार्यं गमयतीति बादरिर्मन्यते ।
‘ऋते देवान् परं ब्रह्म कः पुमान् प्राप्नुयात् क्वचित् ।
यद्यपि ब्रह्मदृष्टिः स्याद्ब्रह्मलोकमवाप्नुयात्’
इत्यध्यात्मवचनात् तस्यैव गत्युपपत्तेः ॥ 07 ॥
ॐ विशेषितत्वाच्च ॐ ॥ 08-533 ॥
‘यदि ह वाव परमभिपश्यति प्राप्नोति ब्रह्माणं चतुर्मुखं प्राप्नोति ब्रह्माणं चतुर्मुखम्’ इति कौषारवश्रुतौ ॥ 08 ॥
ॐ सामीप्यात्तुतद्व्यपदेशः ॐ ॥ 09-534 ॥
‘ब्रह्मविदाप्नोति परम्’ इति तद्व्यपदेशस्तु समीप एव परमपि प्राप्नोतीत्येतदर्थमेव ॥ 09 ॥
कदा ? –
ॐ कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॐ॥ 10-535 ॥
‘ते ह ब्रह्माणमभिसम्पद्य यदैतद्विलीयतेऽथ सह ब्रह्मणा परमभिगच्छन्ति’ इति सौपर्णश्रुतेर्महाप्रलये तदध्यक्षेण ब्रह्मणा सह गच्छन्ति ॥ 10 ॥
ॐ स्मृतेश्च ॐ ॥ 11-536 ॥
‘ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे ।
परस्यान्ते परात्मानः प्रविशन्ति परं पदम्’ इति ॥ 11 ॥
ॐ परं जैमिनिर्मुख्यत्वात् ॐ ॥ 12-537 ॥
ब्रह्मशब्दस्य तत्रैव मुख्यत्वात् परमेव ब्रह्म गमयतीति जैमिनिर्मन्यते ॥ 12 ॥
ॐ दर्शनाच्च ॐ ॥ 13-538 ॥
दृष्टत्वाच्छ परब्रह्मणः ॥ 13 ॥
ॐ न च कार्ये प्रतिपत्त्यभिसन्धिः ॐ ॥ 14-539 ॥
न हि कार्ये प्रतिपत्तिः प्राप्नवानीत्यभिसन्धिश्च ।
‘यदुपास्ते पुमान् जीवन् यत् प्राप्तुमभिवाञ्छति ।
यच्च पश्यति तृप्तः संस्तत् प्राप्नोति मृतेरनु’ इति पाद्मे ॥ 14 ॥
ॐ अप्रतीकालम्बनान् नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश्च ॐ
॥ 15-540 ॥
‘प्रतीकं देह उद्दिष्टो येषां तत्रैव दर्शनम् ।
न तु व्याप्ततया क्वापि प्रतीकालम्बनास्तुते ॥
अप्रतीका देवतास्तु ऋषीणां शतमेव च ।
राज्ञां च शतमुद्दिष्टं गन्धर्वादि शतं तथा ॥
एतेऽधिकारिणो व्याप्तदर्शनेऽन्ये न तु क्वचित् ।
अयोग्यदर्शने यत्नाद्ब्रंशः पूर्वस्य चापि तु ॥
अप्रतीकाश्रया ये हि ते यान्ति परमेव तु ।
स्वेदेहे ब्रह्म दृष्ट्यैव गच्छेद्ब्रह्मसलोकताम् ।
ब्रह्मणा सह सम्प्राप्ते संहारे परमं पदम् ॥
इति गारुडवचनात् उभयत्रोक्तदोषाच्चाप्रतीकालम्बनान् परं नयति ।
‘स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यते’ इति श्रुतेश्च । अत्र कर्मोपासनमेव । अन्यान् कार्यं नयतीति भगवन्मतम् ॥ 15 ॥
ॐ विशेषं च दर्शयति ॐ ॥ 16-541 ॥
‘अन्तःप्रकाशा बहिःप्रकाशाः सर्वप्रकाशाः । देवा वाव सर्वप्रकाशाः ऋषयोऽन्तःप्रकाशाः मानुषा एव बहिःप्रकाशाः’
इति चतुर्वेदशिखायाम् ॥ 16 ॥
॥ इति कार्याधिकरणम् ॥ 06 ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीब्रह्मसूत्रभाष्ये चतुर्थाध्यायस्य तृतीयः पादः ॥ 04-03 ॥

चतुर्थः पादः ॥ 04-04 ॥

भोगमाहास्मिन् पादे-
ॐ सम्पद्याविहाय स्वेन शब्दात् ॐ ॥ 01-542 ॥
‘स य एवंविदेवं मन्वान एवं पश्यन्नात्मनमभिसम्पद्यैतेनात्मना यथाकामं सर्वान् कामाननुभवति’ इति सौपर्णश्रुतिः ।
‘परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ इति च ।
‘एवं सेतुं तीर्त्वाऽन्धः सन्ननन्धो भवति’ इति च ।
तत्र तरणं नाम तत्प्राप्तयेऽन्यतरणमेव ।
‘इमां घोरामशिवां नदीं तीर्त्वैतं सेतुमाप्यैतेनैव सेतुना मोदते प्रमोदत आनन्दी भवति’ इति मौद्गल्यश्रुतेः ॥ 01 ॥
॥ इति सम्पद्याधिकरणम् ॥ 01 ॥
ॐ मुक्तः प्रतिज्ञानात् ॐ ॥ 02-543 ॥
मुक्त एव चात्रोच्यते ।
‘अहरहरेनमनुप्रविशत्युपसङ्क्रमते च न तत्र मोदते न प्रमोदते न कामाननुभवति बद्धो ह्येष तदा भवत्यथ यदैनं मुक्तोऽनुप्रविशति मोदते च प्रमोदते च कामांश्चैवानुभवति । कामांश्चैवानुभवति’ इति बृहच्छ्रुतौ प्रतिज्ञानात् ॥ 02 ॥
॥ इति मुक्ताधिकरणम्॥ 02 ॥
ॐ आत्मा प्रकरणात् ॐ ॥ 03-544 ॥
परञ्ज्योतिशब्देन परमात्मैवोच्यते । तत्प्रकरणत्वात् ।
‘परञ्ज्योतिः परं ब्रह्म परमात्मादिका गिरः ।
सर्वत्र हरिमेवैकं ब्रूयुर्नान्यं कथञ्चन’ इति च ब्रह्माण्डे ॥ 03 ॥
॥ इति आत्माधिकरणम् (आत्मसम्पद्यधिकरणम्) ॥ 03 ॥
ॐ अविभागेन दृष्टत्वात् ॐ ॥ 04-545 ॥
ये भोगाः परमात्मना भुज्यन्ते त एव मुक्तैर्भुज्यन्ते ।
‘यानेवाहं श्रुणोमि यान् पश्यामि यान् जिघ्रामि तानेवैत इदं शरीरं विमुच्यानुभवन्ति’ इति दृष्टत्वाच्चतुर्वेदशिखायाम् ।
भविष्यत्पुराणे च –
‘मुक्ताः प्राप्य परं विष्णुं तद्भोगान् लेशतः क्वचित् ।
बहिष्ठान् भुञ्जते नित्यं नानन्दादीन् कथञ्चन’ इति ॥ 04 ॥
॥ इति अविभागाधिकरणम् ॥ 04 ॥
ॐ ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॐ ॥ 05-546 ॥
सर्वदेहपरित्यागेन मुक्ताः सन्तो ब्राह्मेणैव देहेन भोगान् भुञ्जत इति जैमिनिर्मन्यते ।
‘स वा एष ब्रह्मनिष्ठ इदं शरीरं मर्त्यमतिसृज्य ब्रह्माभिसम्पद्य ब्रह्मणा पश्यति ब्रह्मणा श्रुणोति ब्रह्मणैवेदं सर्वमनुभवति’
इति माद्यन्दिनायनश्रुतावुपन्यासात् ।
‘आदत्ते हरिहस्तेन हरिदृष्ट्यैव पश्यति ।
गच्छेच्च हरिपादेन मुक्तस्यैषा स्थितिर्भवेत्’ इति स्मृतेः ॥
‘गच्छामि विष्णुपादाभ्यां विष्णुदृष्ट्या च दर्शनम् ।
इत्यादि पूर्वस्मरणान्मुक्तस्यैतद्भविष्यति’ इति बृहत्तन्त्रोक्तयुक्तेश्च ॥ 05 ॥
ॐ चितिमात्रेण तदात्मकत्वादित्यौडुलोमिः ॐ ॥ 06-547 ॥
चितिमात्रो देहो मुक्तानां पृथग्विद्यते तेन भुञ्जते । सर्वं वा एतदचित् परित्यज्य चिन्मात्र एवैष भवति चिन्मात्र एवावतिष्ठते तामेतां मुक्तिरित्याचक्षते’
इत्युद्दालकश्रुतेश्चिदात्मकत्वादित्यौडुलोमिर्मन्यते ॥ 06 ॥
ॐ एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः ॐ ॥07-548॥
‘स वा एष एतस्मान्मर्त्याद्विमुक्तश्चिन्मात्रीभवत्यथ तेनैव रूपेणाभिपश्यत्यभिश्रुणोत्यभिमनुतेऽ¬भिविजानाति तामाहुर्मुक्तिः’
इति सौपर्णश्रुतौ चिन्मात्रेणाप्युपन्यासाज्जैमिन्युक्तस्य च भावादुभयत्राप्यविरोधं बादरायणो मन्यते । नारायणाध्यात्मे च-
‘मर्त्यं देहं परित्यज्य चितिमात्रात्मदेहिनः ।
चितिमात्रेन्द्रियाश्चैव प्रविष्टा विष्णुमव्ययम् ॥
तदङ्गानुगृहीतैश्च स्वाङ्गैरेव प्रवर्तनम् ।
कुर्वन्ति भुञ्जते भोगांस्तदन्तर्बहिरेव वा ॥
यथेष्टं परिवर्तन्ते तस्यैवानुग्रहेरिताः’ इति ॥ 07 ॥
॥ इति चितिमात्राधिकरणम्(ब्रह्माधिकरणम्) ॥ 05 ॥
ॐ सङ्कल्पादेव च तच्च्रुतेः ॐ ॥ 08-549 ॥
न तेषां भोगादिषु प्रयत्नापेक्षा ।
‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति’ इत्यादिश्रुतेः ॥ 08 ॥
॥ इति सङ्कल्पाधिकरणम् ॥ 06 ॥
ॐ अत एव चानन्याधिपतिः ॐ ॥ 09-550 ॥
सत्यसङ्कल्पत्वादेव ।
‘परमोऽधिपतिस्तेषां विष्णुरेव न संशयः ।
ब्रह्मादिमानुषान्तानां सर्वेषामविशेषतः ॥
ततः प्राणादिनामान्ताः सर्वेऽपि पतयः क्रमात् ।
आचार्याश्चैव सर्वेऽपि यैर्ज्ञानं सुप्रतिष्ठितम् ।
एतेभ्योऽन्यः पतिर्नैव मुक्तानां नात्र संशयः’ इति वाराहे ॥ 09 ॥
॥ इति अनन्याधिपतित्वाधिकरणम् ॥ 07 ॥
ॐ अभावं बादरिराह ह्येवम् ॐ ॥ 10-551 ॥
चिन्मात्रं विनाऽन्यो देहस्तेषां न विद्यत इति बादरिः ।
अशरीरो वाव तदा भवत्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतो याभ्यां ह्येष उन्मथ्यत’ इत्येवं कौण्ठरव्यश्रुतावाह हि ॥ 10 ॥
ॐ भावं जैमिनिर्विकल्पाम्नानात् ॐ ॥ 11-552 ॥
‘स वा एष एवंवित् परमभिपश्यत्यभिशृणोति ज्योतिषैव रूपेण चिता वाऽचिता वा नित्येन वाऽनित्येन वाऽथानन्दी ह्येवैष भवति नानानन्दं कञ्चिदुपस्पृषति’
इत्यौद्दालकश्रुतौ विकल्पाम्नानादन्यदेहस्यापि भावं जैमिनिर्मन्यते ॥ 11 ॥
ॐ द्वादशाहवदुभयविधं बादरायणोऽतः ॐ ॥ 12-553 ॥
यथा द्वादशाहः क्रत्वात्मकः सत्रात्मकश्च भवति । एवं मुक्तभोगो बाह्यशरीरकृतश्चिन्मात्रकृतश्च भवति इति बादरायणो मन्यते ॥ 12 ॥
उपपत्तिश्च-
ॐ तन्वभावे सन्ध्यवदुपपत्तेः ॐ ॥ 13-554 ॥
सन्ध्यं स्वप्नः ।‘सन्ध्यं तृतीयं स्वप्नस्थानम्’ इति श्रुतेः ॥ 13 ॥
ॐ भावे जाग्रद्वत् ॐ ॥ 14-555 ॥
ब्रह्मवैवर्ते च –
‘स्वप्नस्थानं यथा भोगो विना देहेन युज्यते ।
एवं मुक्तावपि भवेद्विना देहेन भोजनम् ॥
स्वेच्छया वा शरीराणि तेजोरूपाणि कानिचित् ।
स्वीकृत्य जागरितवद्भुक्त्वा त्यागः कदाचन’ इति ॥ 14 ॥
ॐ प्रदीपवदावेशस्तथा हि दर्शयति ॐ ॥ 15-556 ॥
शरीरमनुप्रविश्यापि तत्प्रकाशयन्तः पुण्यानेव भोगाननुभवन्ति न तु दुःखादीन् । यथा प्रदीपो दीपिकादिषु प्रविष्टस्तत्स्थं तैलाद्येव भुङ्ते न तु तत्कार्ष्ण्यादि । ‘तीर्णो हि तदा सर्वांछोकान् हृदयस्य भवति’ इति हि दर्शयति ॥ 15 ॥
न च स्वर्गे लोके न भयं किञ्चनास्ति इत्यादिना स्वर्गादिस्थस्यैतदिति वाच्यम् । यतः –
ॐ स्वाप्यायसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॐ ॥ 16-557 ॥
सुप्तौ मोक्षे वा तदुच्यते । ‘अत्र पिताऽपिता भवत्यनन्वागतं पुण्येनानन्वागतं पापेन’ इत्याद्याविष्कृतत्वात् ॥
ब्रह्मवैवर्ते च-
‘ज्योतिर्मयेषु देहेषु स्वेच्छया विश्वमोक्षिणः ।
भुञ्जते सुसुखान्येव न दुःखादीन् कदाचन ॥
तीर्णा हि सर्वशोकांस्ते पुण्यपापादिवर्जिताः ।
सर्वदोषनिवृत्तास्ते गुणमात्रस्वरूपिणः’ इति ॥ 16 ॥
॥ इति उभयविधभोगाधिकरणम्(अभावाधिकरणम्) ॥ 08 ॥
ॐ जगद्व्यापारवर्जम् ॐ ॥ 17-558 ॥
‘सर्वान् कामानाप्त्वाऽमृतःसमभवत्’ इत्युच्यते । तत्र सृष्ट्यादिभ्योऽन्यान् व्यापारानाप्नोति ॥ 17 ॥
कुतः ? –
ॐ प्रकरणादसन्निहितत्वाच्च ॐ ॥ 18-559 ॥
जीवप्रकरणत्वाज्जीवानां तादृक्सामर्थ्यविदूरत्वाच्च । वाराहे च-
‘स्वाधिकानन्दसम्प्राप्तौ सृष्ट्यादिव्यापृतिष्वपि ।
मुक्तानां नैव कामः स्यादन्यान् कामांस्तु भुञ्जते ॥
तद्योग्यता नैव तेषां कदाचित् क्वापि विद्यते ।
न चायोग्यं विमुक्तोऽपि प्राप्नुयान्नच कामयेत्’ इति ॥ 18 ॥
ॐ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॐ ॥ 19-560 ॥
‘ता यो वेद, स वेद ब्रह्म, सर्वेऽस्मै देवा बलिमावहन्ति’
इति प्रत्यक्षोपदेशाज्जगदैश्वर्यमप्यस्तीति चेन्न ।
आधिकारिकमण्डलाधिपतिर्ब्रह्मा हि तत्रोच्यते ।
गारुडे च-
‘आत्मेत्येव परं देवमुपास्य हरिमव्ययम् ।
केचिदत्रैव मुच्यन्ते नोत्क्रामन्ति कदाचन ॥
अत्रैव च स्थितिस्तेषामन्तरिक्षे तु केचन ।
केचित् स्वर्गे महर्लोके जने तपसि चापरे ॥
केचित् सत्ये महाज्ञान गच्छन्ति क्षीरसागरम् ।
तत्रापि क्रमयोगेन ज्ञानाधिक्यात् समीपगाः ॥
सालोक्यं च सरूपत्वं सामीप्यं योग एव च ।
इमामारभ्य सर्वत्र यावत्सुक्षीरसागरे ॥
पुरुषोऽनन्तशयनः श्रीमन्नारायणाभिधः ।
मानुषा वर्णभेदेन तथैवाश्रमभेदतः ॥
क्षितिपा मनुष्यगन्धर्वा देवाश्च पितरश्चिराः ।
आजानजाः कर्मजाश्च तात्त्विकाश्च प्रजापतिः ॥
रुद्रो ब्रह्मेति क्रमशस्तेषु चैवोत्तरोत्तराः ।
नित्यानन्दे च भोगे च ज्ञानैश्वर्यगुणेषु च ।
सर्वे शतगुणोद्रिक्ताः पूर्वस्मादुत्तरोत्तरम् ॥
पूज्यन्ते चावरैस्ते तु सर्वपूज्यश्चतुर्मुखः ।
स्वजगद्व्यापृतिस्तेषां पूर्ववत् समुदीरिता ॥
सयुजः परमात्मानं प्रविश्य च बहिर्गताः ।
चिद्रूपान् प्राकृतांश्चापि विना भोगांस्तु कांश्चन ।
भुञ्जते मुक्तिरेवं ते विस्पष्टं समुदाहृताः’ इति ॥ 19 ॥
ॐ विकारावर्ति च तथाहि दर्शयति ॐ ॥ 20-561 ॥
विकारावर्तिव्यापारो मुक्तानां न विद्यते ।
‘इमं मानवमावर्तं नावर्तन्ते’ इति हि श्रुतिः ।
वाराहे च –
स्वाधिकारेण वर्तन्ते देवा मुक्तावपि स्फुटम् ।
बलिं हरन्ति मुक्ताय विरिञ्चाय तु पूर्ववत् ॥
सब्रह्मकास्तु ते देवा विष्णवे च विशेषतः ।
न विकाराधिकारस्तु मुक्तानामन्य एव तु ।
विकाराधिकृता ज्ञेया ये नियुक्तास्तु विष्णुना’ इति ॥ 20 ॥
॥ इति सर्वकामाधिकरणम् (जगद्व्यापाराधिकरणम्) ॥ 09 ॥
ॐ स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमाने ॐ ॥ 21-562 ॥
‘एतत् साम गायन्नास्ते’ इत्युच्यते ।तत्रानन्दादीनां वृद्धिर्ह्रासश्च न विद्यते। एकप्रकारेणैव सर्वदा स्थितिः ।
‘स एष एतस्मिन् ब्रह्मणि सम्पन्नो न जायते न म्रियते न हीयते न वर्धते स्थित एव सर्वदा भवति दर्शन्नेव ब्रह्म दर्शन्नेवात्मानं तस्यैवं दर्शयतो नापत्तिर्न विपत्तिः’ इत्याह जाबालश्रुतौ ।
‘यत्र गत्वा न म्रियते यत्र गत्वा न जायते ।
न हीयते यत्र गत्वा यत्र गत्वा न वर्धते’ इति मोक्षधर्मे ॥
विद्वत्प्रत्यक्षात् कारणभावल्लिङ्गाच्च । ब्रह्मवैवर्ते च –
‘न ह्रासो न च वृद्धिर्वा मुक्तानां विद्यते क्वचित् ।
विद्वत्प्रत्यक्षसिद्धत्वात् कारणाभावतोऽनुमा ॥
हरेरुपासना चात्र सदैव सुखरूपिणी ।
न तु साधनभूता सा सिद्धिरेवात्र सा यतः’ इति ॥ 21 ॥
ॐ भोगमात्रसाम्यलिङ्गाच्च ॐ ॥ 22-563 ॥
न च भोगविशेषादिविरोधः ।
‘एतमानन्दमयमात्मानमनुविश्य न जायते न म्रियते न ह्रसते न वर्धते यथाकामं चरति यथाकामं पिबति यथाकामं रमते यथाकाममुपरमते’
इति भोगमात्रसाम्यलिङ्गात् ।
‘अवृद्धिह्रासरूपत्वं मुक्तानां प्रायिकं भवेत् ।
कादाचित्कविशेषस्तु नैव तेषां विषिध्यते’ इति कौर्मे ॥
‘प्रवाहतस्तुवृद्धिर्वा ह्रासो वा नैव कुत्रचित् ।
नाप्रियं किञ्चिदपि तु मुक्तानां विद्यते क्वचित् ॥
कुत एव तु दुःखं स्यात् सुखमेव सदोदितम् ।
भोगानां तु विशेषे तु वैचित्र्यं लभ्यते क्वचित्’
इति नारायणतन्त्रे ॥ 22 ॥
॥ इति स्थित्य(एकरूपा)धिकरणम् ॥ 10 ॥
ॐ अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॐ ॥ 32-564 ॥
‘न च पुनरावर्तते न च पुनरावर्तते’ ,‘सर्वान् कामानाप्त्वाऽमृतः समभवत् समभवत्’ इत्यादिश्रुतिभ्यः ॥ 23 ॥
॥ इति अनावृत्यधिकरणम् ॥ 11 ॥
ज्ञानानन्दादिभिः सर्वैर्गुणैः पूर्णाय विष्णवे ।
नमोऽस्तु गुरवे नित्यं सर्वथाऽतिप्रियाय मे ॥
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं
बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपु-
र्मध्वो यत् तु तृतीयकं कृतमिदं भाष्यं हरौ तेन हि ॥
नित्यानन्दो हरिः पूर्णो नित्यदा प्रीयतां मम ।
नमस्तस्मै नमस्तस्मै नमस्तस्मै च विष्णवे ॥
॥ इति श्रीमदानन्ददीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये चतुर्थाध्यायस्य चतुर्थः पादः
॥ 04-04 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्यम् ॥
॥ श्रीकृष्णार्पणमस्तु ॥

यो विप्रलम्बविपरीत मतिप्रभूतान् वादान् निरस्य कृतवान् भुवि तत्ववादम्।
सर्वेश्वरो हरिरिति प्रतिपादयन्तं आनन्दतीर्थमुनिवर्यमहं नमामि॥
अस्मद्गुर्वंतर्गत मनुनामक भारतीरमण मुख्यप्राणान्तर्गत श्री रुग्मिणी सत्यभामा जाम्बवतीवल्लभ श्री कृष्णाय नमः
॥ प्रीणयामो वासुदेवं देवतामण्डलाऽखण्डमण्डनम् ॥
॥ श्री कृष्णार्पणमस्तु ॥


Leave a comment